Proofing

2026-04-02 21:27:25 by ambuda-bot

This page has not been fully proofread.

श्रीरामब्रह्मस्तुतिः
 
अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोरगैः ।
 
त्रीन् लोकान् धारयन् राम देवगन्धर्वदानवान् ॥ २३ ॥
 
अहं ते हृदयं राम जिह्वा देवी सरस्वती ।
 
देवा गात्रेषु रोमाणि निर्मिता ब्रह्मणा प्रभो ॥ २४ ॥
 
निमेषस्तेऽभवद्रात्रिरुन्मेषस्तेऽभवद्दिवा ।
 
संस्कारास्तेऽभवन् वेदा न तदस्ति त्वया विना ॥ २५ ॥
 
जगत्सर्वं शरीरं ते स्थैर्यं ते वसुधातलम् ।
अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षण ॥ २६ ॥
त्वया लोकाः समाक्रान्ताः पुराणे विक्रमैस्त्रिभिः ।
महेन्द्रश्च कृतो राजा बलिं बद्ध्वा महासुरम् ॥ २७ ॥
सीता लक्ष्मीर्भवान् विष्णुर्देवः कृष्णः प्रजापतिः ।
वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम् ॥ २८ ॥
तदिदं नः कृतं कार्यं त्वया धर्मभृतां वर ।
निहतो रावणो राम ' प्रविष्टो दिवमाक्रम ॥ २९ ॥
अमोघं बलवीर्यं ते न ते मोघ पराक्रमः ।
अमोघं दर्शनं राम न च मोघस्तव स्तवः ॥ ३० ॥
अमोघास्ते भविष्यन्ति भक्तिमन्तस्तु ये जनाः ।
ये त्वां देव ध्रुवं प्राप्ताः पुराणपुरुषोत्तमम् ॥ ३१ ॥
प्राप्नुवन्ति सदा कामानिह लोके परत्र च ।
इममा स्तवं नित्यमितिहासं पुरातनम् ।
 
ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः ॥ ३२ ॥
 
॥ इति श्रीब्रह्मस्तुतिः सम्पूर्णा ॥
 
1.
 
पुरा स्वैः
 
2. प्रहृष्टो
 
२४७