Stotrarnava /292
This page has not been fully proofread.
२४६
श्रीरामस्तोत्रेषु
उपेक्षसे च वैदेहीं मानुषः प्राकृतो यथा ।
इत्युक्तो लोकपालैस्तैः स्वामी लोकस्य राघवः ॥ १० ॥
अब्रवीत् त्रिदशश्रेष्ठान् रामो धर्मभृतां वरः ।
आत्मानं मानुषं मन्ये रामं दशरथात्मजम् ॥ ११ ॥
योऽहं यस्य यतश्चाहं भगवान् प्र[ तत् ]त्रवीतु मे ।
इति ब्रुवाणं काकुत्स्थं ब्रह्मा लोकपितामहः ॥ १२ ॥
अब्रवीच्छृणु मे राम सत्यं सत्यपराक्रम ।
भवान्नारायणो देवः श्रीमांश्चक्रधरो हरिः ॥ १३ ॥
एकशृङ्गो वराहस्त्वं भूतभव्यसपत्नजित् ।
अक्षरं ब्रह्म सत्त्वं त्वं [ सत्यं च ] त्वं मध्येऽन्ते च राघव ॥ १४ ॥
लोकानां त्वं परो धर्मो विष्वक्सेनश्चतुर्भुजः ।
शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः ॥ १५ ॥
अजितः खड्गभृद्विष्णुः कृष्णश्चैव बृहद्बलः ।
सेनानीर्ग्रामणीश्च त्वं त्वं बुद्धिस्त्वं क्षमा दया ॥ १६ ॥
प्रभवश्चाप्ययश्च त्वमुपेन्द्रो मधुसूदनः ।
इन्द्रकर्मा महेन्द्रस्त्वं पद्मनाभो रथाङ्गभृत् ॥ १७ ॥
शरण्यं शरणं च त्वामाहुर्दिव्या महर्षयः ।
सहस्रशृङ्गो वेदात्मा शतजिह्वा महर्षभः ॥ १८ ॥
त्वं त्रयाणां हि लोकानामादिकर्ता स्वयंप्रभुः ।
सिद्धानामपि साध्यानामाश्रयश्चासि पूर्वजः ॥ १९॥
त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारः परंतप ।
प्रभवं निधनं वा ते न विदुः को भवानिति ॥ २० ॥
दृश्यसे सर्वभूतेषु ब्राह्मणेषु च गोषु च ।
दिक्षु सर्वासु गगने पर्वतेषु वनेषु च ॥ २१ ॥
सहस्रचरणः श्रीमान् शतशीर्षः सहस्रदृक् ।
त्वं धारयसि भूतानि वसुधां च सपर्वताम् ॥ २२ ॥
1. रणान्तकृत्