Proofing

2026-04-02 21:27:23 by ambuda-bot

This page has not been fully proofread.

२३८
 
श्रीरामस्तोत्रेषु
 
तेषां भुक्तिश्च मुक्तिश्च भविष्यति न संशयः ।
स्तवराजं पुरा प्रोक्तं नारदेन महात्मना ॥ ६ ॥
तत्सर्वं संप्रवक्ष्यामि हरिध्यानपुरःसरम् ।
तापत्रयाग्निशमनं सर्वपापनिकृन्तनम् ॥ ७ ॥
दारिद्र्यदुःखशमनं सर्वसम्पत्प्रदायकम् ।
विज्ञानविमलं दिव्यं मोक्षैकफलसाधनम् ॥ ८ ॥
नमस्कृत्वा प्रवक्ष्यामि रामं कृष्णमनामयम् ।
अयोध्यानगरे रम्ये रत्नमण्डपमध्यमे ॥ ९॥
 
स्थिरे कल्पतरोर्मू ले रत्नसिंहासनं शुभम् ।
तन्मध्येऽष्टदलं पद्मं नानारत्नसुशोभितम् ॥ १० ॥
स्मरेद्दाशरथिं मध्ये सहस्रादित्यतेजसम् ।
पितुरङ्कगतं राममिन्द्रनीलमणिप्रभम् ॥ ११ ॥
कोमलाङ्ग विशालाक्षं विद्युद्वर्णाम्बरावृतम् ।
भानुकोटिप्रतीकाशं किरीटेन विराजितम् ॥ १२ ॥
रत्नग्रैवेयकेयूरहारकुण्डलमण्डिनम् ।
रत्नकिङ्किणिमञ्जीरकटिसूत्रैरलंकृतम् ॥ १३ ॥
श्रीवत्सकौस्तुभोरस्कं वनमालाविराजितम् ।
दिव्यरत्नसमायुक्तं मुद्रिकाद्यैरलंकृतम् ॥ १४ ॥
कर्पूरा गरु कस्तूरीदिव्यगन्धानुलेपनम् ।
तुलसी कुन्दमन्दारपुष्पमाल्यैरलंकृतम् ॥ १५ ॥
 
राघवं द्विभुजं बालं राममीषत्स्मिताननम् ।
योगशास्त्रेष्वभिरतं योगीश योगधारिणम् ॥ १६ ॥
सदा भरतसौमित्रिशत्रुघ्न्नपरिसेवितम् ।
 
मुनिभिः सनकाद्यैश्च योगिन्दैश्च सेवितम् ॥ १७ ॥
 
वीरं रघुवरं शान्तं धनुर्वेद विशारदम् ।
 
मङ्गलायतनं देवं रामं राजीवलोचनम् ॥ १८ ॥
 
सर्वशास्त्रार्थतत्त्वज्ञमानन्दरससुन्दरम् ।
कौसल्यातनयं रामं धनुर्बाणधरं हरिम् ॥ १९ ॥
एवं सचिन्तयेद्रामं यज्ज्योतिर्ज्योतिषां परम् ।
प्रहृष्टमानसो भूत्वा मुनिवर्यः स नारदः ॥ २० ॥