Stotrarnava /283
This page has not been fully proofread.
श्रीरघुनाथस्तवराजः
कामक्रोधाद्यरिभूरिभयाकरसञ्चारोऽस्फुटदेहः ।
किमसौ शनिरिह किं कुरुते मां त्वं परिपालय दाशरथे ॥ २२ ॥
दुर्जनवचनश्रवणप्रचुरप्रत्ययदः सत्सङ्गघ्नः ।
किमसौ शनिरिह किं कुरुते मां त्वं परिपालय दशरथे ॥ २३ ॥
आत्मानात्मविचाराभ्यन्तरदोऽवरदः परिभूतमनाः ।
किमसौ शनिरिह किं कुरुते मां त्वं परिपालय दाशरथे ॥ २४ ॥
मायामयजगदखिलभ्रान्तिकरो देहात्मज्ञानहतः ।
किमसो शनिरिह किं कुरुते मां त्वं परिपालय दाशरथे ॥ २५ ॥
तापत्रयभयदोषनिवारक भद्रगुणौघ दयाशरघे ।
किमसौ शनिरिह किं कुरुते मां त्वं परिपालय दाशरथे ॥ २६ ॥
रत्नकिरीटधराच्युत रामानन्त मुकुन्द दयाशरधे ।
किमसौ शनिरिह किं कुरुते मां त्वं परिपालय दाशरथे ॥ २७ ॥
घनतरमुक्ताफलहारमिवादरणीयेयं दाशरथे ।
तारावलिरनिशं सकलानां सौख्यं नितरां वितनोतु ॥ २८ ॥
श्रीतडकमल्लवंशोद्भवमनिशं कृष्णरायनामधरम् ।
धरणीसुरवरवन्द्यं परिपालय तं प्रभुं दाशरथे ॥ २९ ॥
॥ इति श्रीतारावलिः सम्पूर्णा ॥
सूत उवाच-
४. ॥ अथ श्रीरघुनाथस्तवराजः ॥
सर्ववेदार्थतत्त्वज्ञं व्यासं सत्यवतीसुतम् ।
धर्मपुत्रः प्रहृष्टात्मा प्रत्युवाच मुनीश्वरम् ॥ १ ॥
धर्मपुत्र उवाच-
भगवन् योगिनां श्रेष्ठ सर्वशास्त्रविशारद ।
किं तत्त्वं किं परं [ जप्यं ]किं ध्यानं मुक्तिसाधनम् ।
ज्ञातुमिच्छामि तत्सर्वं ब्रूहि मे मुनिसत्तम ॥ २ ॥
श्रीवेदव्यास उवाच -
धर्मराज महाभाग शृणु वक्ष्यामि तत्परम् ।
यत्परं यद्गुणातीतं यज्ज्योतिरमलं शुभम् ॥ ३ ॥
तदेव परमं नित्यं कैवल्यपदकारणम् ।
श्रीरामेति परं जप्यं तारकब्रह्मसंज्ञकम् ॥ ४॥
ब्रह्महत्यादिपापघ्नमिति वेदविदो विदुः ।
श्रीराम राम रामेति ये वदन्त्यपि पापिनः ॥ ५ ॥
२३७
1