Proofing

2026-04-02 21:27:21 by ambuda-bot

This page has not been fully proofread.

॥ श्रीरामस्तोत्राणि ॥
 
१. ॥ अथ श्रीरामद्वादशनामस्तोत्रम् ॥
अस्य श्रीरामद्वादशनामस्तोत्रमहामन्त्रस्य, निटिलाक्षो भगवान् ऋषिः,
अनुष्टुप् छन्दः, श्रीरामचन्द्रो देवता; श्रीरामचन्द्रप्रीत्यर्थे जपे विनियोगः ।
ओम् प्रथमं श्रीकरं नित्यं द्वितीयं [ततो ] दशरथात्मजम् ।
तृतीयं रामचन्द्रं च चतुर्थं रावणान्तकम् ॥ १ ॥
 
पञ्चमं लोकपूज्यं च षष्टमं [ष्टं श्री ] जानकीप्रियम् ।
सप्तमं वासुदेवं च रामचन्द्रं तथाष्टमम् ॥ २ ॥
नवमं [ततो ] दूर्वादलश्यामं दशमं लक्ष्मणाग्रजम् ।
एकादशं च गोविन्दं द्वादशं सेतुबन्धनम् ॥ ३॥
 
एतानि द्वादशनामानि [ द्वादशैतानि नामानि ] त्रिसन्ध्यं यः पठेन्नरः ।
दारिद्र्यदोषनिर्मुक्तो धनधान्यसमृद्धिकम् [मान् ] ॥ ४ ॥
 
[सर्वसंपत्प्रदं श्रेष्ठ ] सर्वकार्यवशीकरम् ।
 
दिव्यदेहमवाप्नोति दीर्घमायुष्यवर्धनम् ॥ ५ ॥
 
ग्रहरोग [दोष ]विनाशं च सर्वकार्य फलप्रदम् ।
अरण्ये देवसंग्रामे महाभयनिवारणम् ॥ ६ ॥
 
अर्धरात्रं जपेत् स्थित्वा सर्वारिष्टनिवारणम् ।
 
इहजन्मसुखी भूत्वा तद्विष्णोः परमं [ यायाद्विष्णोः परं ] पदम् ॥ ७ ॥
 
॥ इति श्रीब्रह्माण्डपुराणे ब्रह्मनारदसंवादे श्रीरामद्वादशनामस्तोत्रं सम्पूर्णम् ॥
 
२. ॥ अथ श्रीरामकर्मनामाष्टाविंशत्युत्तरशतस्तोत्रम् ॥
 
अस्य श्रीरामकर्मनामाष्टाविंशत्युत्तरशत रहस्य स्तोत्रमन्त्रस्य, वाल्मीकिर्भगवा-
नृषिः, अनुष्टुप् छन्दः, श्रीरामचन्द्रः पौलस्त्यविध्वंसकः परमात्मा देवता;
श्रीरामचन्द्रसिद्धयर्थे जपे विनियोगः ।
 
परमात्मा परब्रह्म सच्चिदानन्दविग्रहः ।
मायामय महालीलः स्वयंभूर्विष्णुरव्ययः ॥ १ ॥
 
लक्ष्मीक्षमानित्यसेव्यः शङ्खचक्रगदाधरः ।
अनन्तशयनः सर्वदेवप्रियकरः सदा ॥ २ ॥