Proofing

2026-04-02 21:27:21 by ambuda-bot

This page has not been fully proofread.

२३०
 
श्रीविष्णुस्तोत्रेषु
 
तत्तादृशामपि मुकुन्द भवद्गुणानां
तावत्प्रशंसनविधौ भुवि कः समर्थः ।
बुद्धया प्रगृह्य कवयोऽपि तदीयलेशम्
 
उक्त्वा सविस्तरमहो विरमन्ति वाचः ॥ १०० ॥
ईदृग्विधा तव विभो तनुरैहिकस्य
 
1.
 
पारत्रिकस्य च सुखस्य नृणां विधात्री ।
चेतः स्थितिं मम विधाय विधूय दुःखा-
 
न्यानन्द भारमधिकं विदधातु नित्यम् ॥ १०१ ॥
स्तोत्रं मया कृतमिदं प्रतिवासरं ये
 
संकीर्तयन्ति कलयन्ति च कर्णयोर्ये ।
तेषां [श्रीभू ] समेत मृदधीश भवत्प्रसादात्
एषां च सर्वमभिकाङ्क्षितमस्तु सिद्धम् ॥ १०२ ॥
॥ इति श्री श्रीयुतमृन्नाथस्तोत्रं सम्पूर्णम् ॥
 
१७. ॥ अथ श्री । नीलाद्रिनाथ । विष्णुस्तुतिः ॥
रक्ताम्भोरुहदर्पभञ्जनमहासौन्दर्यनेत्रद्वयं
 
मुक्ताहारविलम्बिहेममकुटं रत्नोज्ज्वलत्कुण्डलम् ।
वर्षाम्भोदसमाननीलवपुषं ग्रैवेयहारान्वितं
 
शश्वच्चक्रधरं प्रसन्नवदनं नीलाद्रिनाथं भजे ॥ १ ॥
नीलाद्रौ शङ्खखमध्ये शतदलकमले रत्नसिंहासनस्थं
सर्वालङ्कारयुक्तं नवघनरुचिरं संयुतं ' जाग्रतेन [ चाग्रजेन ] ।
भद्रा यद्वामभागे रथचरणयुतं ब्रह्मरुद्रेन्द्रवन्द्यं
 
वेदानां सारमीशं स्वजनपरिवृत्तं ब्रह्मदारुं स्मरामि ॥ २ ॥
उद्यन्नीरदनीलसुन्दरतनुं पूर्णेन्दुबिम्बाननं
राजीवोत्पलपत्रनेत्रयुगलं कारुण्यवारांनिधिम् ।
भक्तानां सकलार्तिनाशनकरं चिन्तार्तचिन्तामणि
 
वन्दे श्रीपुरुषोत्तमं प्रतिनिधिं नीलाद्रिचूडामणिम् ॥ ३ ॥
 
फुल्लेन्दीवरलोचनं नवघनश्यामाभिरामाकृतिं
 
विश्वेशं कमलाविलोलविलसत्पादारविन्दद्वयम् ।
दैत्यारिं कमलेन्दुमण्डितमुखं श[च] क्राब्जहस्तद्वयं
वन्दे श्रीपुरुषोत्तमं प्रतिनिधिं लक्ष्मीविलासालयम् ॥ ४ ॥
 
जाग्रतेन ।