Stotrarnava /271
This page has not been fully proofread.
श्रीमृन्नाथस्तोत्रम्
यस्मादुदञ्चितविचित्रसरोरुहेण
त्वत्प्रेरितस्त्रिभुवनं कृतवान् विधाता ॥ ६१ ॥
मध्यप्रदेशमतिसूक्ष्मतरखरूप-
मप्युह्यमानभुवनत्रयमण्डलं ते ।
उद्दामदाममहितोदरबन्धनद्धं
श्रद्धापुरस्सरमहर्दिवमभ्युपैमि ॥ ६२ ॥
मध्यं तवेद्दशमितीश कथं ब्रवीमि
दृग्भ्यां निजानुभवतस्तनु निश्चितं यत् ।
अभ्यासितं त्रिभुवनैरिति सज्जनोक्त्या
विस्तारयुक्तमतिमात्रमिति श्रुतिभ्याम् ॥ ६३ ॥
कान्तिप्रवाहि तपदेव [ तव देव ]नितम्बबिम्बं
काञ्चीगुणा कलितमित्यपि केचिदाहुः ।
नैते प्रमादसहिता अनुयोगयोग्या
काञ्चीप्रधान कलितं तु वयं वदामः ( ? ) ॥ ६४ ॥
विद्योतते वरद ते स कटिप्रदेश:
लक्ष्म्या घनेन जघनेन समागमाद्यः ।
सौभाग्यमात्मसमवेतमनन्यलभ्यं
व्यक्तं ब्रवीति सकलोपरि वर्तमानम् ॥ ६५ ॥
आपादितो यदि शताङ्गपरो निजार्थः
स्यादेव ते गुरुनितम्बभरेण हास्य : ( ? ) ।
मत्वेति मन्दमरुतं स्वरथं मनोभूः
चक्रे यदस्य तदनागतकर्तृता ॥ ६६ ॥
काची तवेयमरुणैः किरणैर्नितम्ब-
प्रान्तस्तमालसदृशां च रुचां प्ररोहः ।
शोणासितं कमपि कान्तिझरं विधाय
तेनानु लिम्पत इमानि दिशां मुखानि ॥ ६७ ॥
मुक्तावलीपरिचिता सुमनोरमा च
प्रोद्योतमानमणिभूषणतां च याता ।
त्वत्काञ्चिकामहितलोचनचन्द्रिका च
भूमन् कथं न विबुधैः परिपूजनीया ॥ ६८ ॥
15
२२५
यस्मादुदञ्चितविचित्रसरोरुहेण
त्वत्प्रेरितस्त्रिभुवनं कृतवान् विधाता ॥ ६१ ॥
मध्यप्रदेशमतिसूक्ष्मतरखरूप-
मप्युह्यमानभुवनत्रयमण्डलं ते ।
उद्दामदाममहितोदरबन्धनद्धं
श्रद्धापुरस्सरमहर्दिवमभ्युपैमि ॥ ६२ ॥
मध्यं तवेद्दशमितीश कथं ब्रवीमि
दृग्भ्यां निजानुभवतस्तनु निश्चितं यत् ।
अभ्यासितं त्रिभुवनैरिति सज्जनोक्त्या
विस्तारयुक्तमतिमात्रमिति श्रुतिभ्याम् ॥ ६३ ॥
कान्तिप्रवाहि तपदेव [ तव देव ]नितम्बबिम्बं
काञ्चीगुणा कलितमित्यपि केचिदाहुः ।
नैते प्रमादसहिता अनुयोगयोग्या
काञ्चीप्रधान कलितं तु वयं वदामः ( ? ) ॥ ६४ ॥
विद्योतते वरद ते स कटिप्रदेश:
लक्ष्म्या घनेन जघनेन समागमाद्यः ।
सौभाग्यमात्मसमवेतमनन्यलभ्यं
व्यक्तं ब्रवीति सकलोपरि वर्तमानम् ॥ ६५ ॥
आपादितो यदि शताङ्गपरो निजार्थः
स्यादेव ते गुरुनितम्बभरेण हास्य : ( ? ) ।
मत्वेति मन्दमरुतं स्वरथं मनोभूः
चक्रे यदस्य तदनागतकर्तृता ॥ ६६ ॥
काची तवेयमरुणैः किरणैर्नितम्ब-
प्रान्तस्तमालसदृशां च रुचां प्ररोहः ।
शोणासितं कमपि कान्तिझरं विधाय
तेनानु लिम्पत इमानि दिशां मुखानि ॥ ६७ ॥
मुक्तावलीपरिचिता सुमनोरमा च
प्रोद्योतमानमणिभूषणतां च याता ।
त्वत्काञ्चिकामहितलोचनचन्द्रिका च
भूमन् कथं न विबुधैः परिपूजनीया ॥ ६८ ॥
15
२२५