Proofing

2026-04-02 21:27:19 by ambuda-bot

This page has not been fully proofread.

श्रीमृन्नाथस्तोत्रम्
 
देव त्वदीयहृदयं भृशकर्कश यत्
लक्ष्म्याः स्तनद्वयसहं सुदृढोपगूढे ।
भक्तानुकम्पनविधावतिमार्दवं च
 
तच्चित्रमेव भगवन् हृदयं ममैति ॥ ४६ ॥
 
दोर्भिश्चतुर्भिरमरेऽत्र [अमरेन्द्र ] मणिप्रक्लृप्त-
स्तम्भैः प्रशुम्भितमुरः श्रितपुष्पमाल्यम् ।
उद्रत्नदीपमुदितांशुवितानकं तत्
 
पद्मालया नटनरङ्गतलं विभाति ॥ ४७ ॥
 
भूम्ना निजस्य महसः परिपूरिताशो
 
लोकेऽत्र सन्तमसमन्तगतं च तन्वन् ।
उत्थानमभ्युपगतः पयसां निवेश्च
 
त्वद्वक्षसि स्फुरति कौस्तुभबालकाः ॥ ४८ ॥
 
चन्द्रश्च कौस्तुभमणिश्च सहोदरौ द्वा-
वेकस्तयोर्मदन सैन्यपतित्वमागात् ।
अन्यः समेत्य भगिनीसदनं तवोरः
 
सम्पन्नमीश तनुते महसा निजेन ॥ ४९ ॥
 
हारीति वक्तुमुचितं खलु तद्वत्र
हारेण युक्तमरविन्ददलायताक्ष ।
वक्षःस्थलेन तव योगमुपागतः सन्
हार: पुनर्भवति हारिपदाभिधेयः ॥ ५० ॥
 
यैषा तवोरसि विराजति वैजयन्ती
तामात्मत्वमयते किमये गुणस्ते ।
यत्सा करोति सहसा सरसीरुहाक्ष
सेवानुषक्तजनतामपि वैजयन्तीम् ॥ ५१ ॥
 
भावकवक्षसि विभो परिभासमानं
 
श्रीवत्ससंज्ञमृषिवर्यपदाब्जचिह्नम् ।
वेधस्त्रिलोचनभवत्सु परात्मरूपं
 
त्वामेव सत्त्वमयमूर्तिरिति ब्रवीति ॥ ५२ ॥
 
स्वालङ्कृतिस्थितमहार्घमणिप्रकाण्ड-
प्रोद्यत्प्रभौघशबलाः सबला भुजास्ते ।
 
तापत्रयं सपदि तज्जनिकर्तृपापं
 
चापास्य मे ददतु मुक्तियुतं त्रिवर्गम् ॥ ५३ ॥
 
२२३