Stotrarnava /268
This page has not been fully proofread.
२२२
श्रीविष्णुस्तोत्रेषु
त्वद्वक्त्रपद्मसुषमाकणिकाशतांश-
स्तेयादभून्महदघं जलजन्मनां यत् ।
स्नानेन तैरविरतं परिधूतमेतत्
संदृश्यते पयसि शैवलकैतवेन ॥ ३८ ॥
लोकत्रयेऽत्र रमणीयपदार्थसार्थान्
आतन्वतो बहुविधानरविन्दयोः ।
एकत्र वापि भवदास्यतुलां विधातुं
लोकेश नालमभवत् करकौशलं तत् ॥ ३९ ॥
पूर्णः कलाभिरखिलाभिरपि द्विजानां
राजापि तन्न खलु वन्द्यत एष चन्द्रः ।
यत्तावकेन वदनेन समत्सरोऽसौ
स्वात्मपकर्षकर एव महद्विरोधः ॥ ४० ॥
वेधास्त्वदीयवचनामृतभाग्यभाग-
माधुर्यलेशमुपगृह्य किमप्यकार्षीत् ।
द्राक्षां सितां मधु पयः कदलीफलं च
किं विस्तरेण वचसां मधुरं समस्तम् ॥ ४१ ॥
कण्ठेन ते परिभवं बत लम्भितास्ते
शङ्खाः सरिद्रमणवारिणि लीनवन्तः ।
आक्रन्दितेन गुरुशोकभरोत्थितेन
साहायकं विधते जलधि [द]ध्वनीनाम् ॥ ४२ ॥
वक्षःस्थलीलसितकौस्तुभरत्नभाभिः
कण्ठप्रकाण्डमरुणीकृत माविभाति ।
अर्कप्रभाझर निमग्नतनोर्घनस्य
लक्ष्मीं परामनुहरन् मधुकैटभारे ॥ ४३ ॥
पद्मालयानखपदैः परिभूषितं ते
तत्कर्णनालमुपमापदवीं लभेत ।
भास्वत्पलाशमुकुलानि सुलोहितानि
स्कन्धं तमालनगमस्य यदि श्रयेयुः ॥ ४४ ॥
वक्षस्तव स्मरणशीलजनानभीष्ट-
द्वारावृतिस्थिरकवाटमिदं विभाति ।
यत्र श्रियः ससुखखेलनयोग्य गेहे
मुक्तादिरत्ननिकरा विलसन्त्यनेके ॥ ४५ ॥
श्रीविष्णुस्तोत्रेषु
त्वद्वक्त्रपद्मसुषमाकणिकाशतांश-
स्तेयादभून्महदघं जलजन्मनां यत् ।
स्नानेन तैरविरतं परिधूतमेतत्
संदृश्यते पयसि शैवलकैतवेन ॥ ३८ ॥
लोकत्रयेऽत्र रमणीयपदार्थसार्थान्
आतन्वतो बहुविधानरविन्दयोः ।
एकत्र वापि भवदास्यतुलां विधातुं
लोकेश नालमभवत् करकौशलं तत् ॥ ३९ ॥
पूर्णः कलाभिरखिलाभिरपि द्विजानां
राजापि तन्न खलु वन्द्यत एष चन्द्रः ।
यत्तावकेन वदनेन समत्सरोऽसौ
स्वात्मपकर्षकर एव महद्विरोधः ॥ ४० ॥
वेधास्त्वदीयवचनामृतभाग्यभाग-
माधुर्यलेशमुपगृह्य किमप्यकार्षीत् ।
द्राक्षां सितां मधु पयः कदलीफलं च
किं विस्तरेण वचसां मधुरं समस्तम् ॥ ४१ ॥
कण्ठेन ते परिभवं बत लम्भितास्ते
शङ्खाः सरिद्रमणवारिणि लीनवन्तः ।
आक्रन्दितेन गुरुशोकभरोत्थितेन
साहायकं विधते जलधि [द]ध्वनीनाम् ॥ ४२ ॥
वक्षःस्थलीलसितकौस्तुभरत्नभाभिः
कण्ठप्रकाण्डमरुणीकृत माविभाति ।
अर्कप्रभाझर निमग्नतनोर्घनस्य
लक्ष्मीं परामनुहरन् मधुकैटभारे ॥ ४३ ॥
पद्मालयानखपदैः परिभूषितं ते
तत्कर्णनालमुपमापदवीं लभेत ।
भास्वत्पलाशमुकुलानि सुलोहितानि
स्कन्धं तमालनगमस्य यदि श्रयेयुः ॥ ४४ ॥
वक्षस्तव स्मरणशीलजनानभीष्ट-
द्वारावृतिस्थिरकवाटमिदं विभाति ।
यत्र श्रियः ससुखखेलनयोग्य गेहे
मुक्तादिरत्ननिकरा विलसन्त्यनेके ॥ ४५ ॥