Stotrarnava /267
This page has not been fully proofread.
श्रीमृन्नाथस्तोत्रम्
ओष्ठेन ते मृदुतरेण हरे रमायाः
शुद्धैर्द्विजैर्विरचितं क्षतमाप्यते यत् ।
एतस्य सा निरपराधनवप्रवाल-
सङ्घषु भङ्गकरणस्य फलानुभूतिः ॥ ३० ॥
मुक्तावलेर्निजरुचा भवदीयदन्तात्
त्वमस्ति यदमुं निजदोषमेषा ।
हर्तुं सदा व्यवसिता नखरच्छलेन
त्वत्पादपद्मपरिषेवणमादधाति ॥ ३१ ।
दन्तप्रभाप्रविजितं तव पङ्कजाक्ष
कुन्दप्रसूनमतनोरिषुतामवाप्य ।
त्वन्नायकं त्रिभुवनं क्षुभितं तनोति
मानक्षये सति क एव हि जोषमास्ते ॥ ३२ ॥
मन्दस्मितं मधुरिपो मधुरं त्वदीयं
चन्द्रप्रभा मम मनोमय कैरवस्य ।
उन्निद्रतां जनयतादतितीव्रताप-
संसारभास्करविलासनिपीडितस्य ॥ ३३ ॥
यद्यम्बुजस्य विदलद्दलमण्डितस्य
मध्यं बता तुहिनदीधितिदीधितिः स्यात् ।
तर्ह्यम्बुजाक्ष भवदास्यमहोत्पले त्व-
न्मन्दस्मितद्युतिरसावुपमामुपेयात् ॥ ३४ ॥
गण्डद्वयं मकरकुण्डलमण्डितं ते
निर्णिक्तशक्रमणिदर्पणदर्पहारि ।
वर्ण प्रकर्षजनितक्षणमीक्षणानाम्
अर्णोरुहा मम चेतसि संनिधत्ताम् ॥ ३५ ॥
एषा कपोलयुगली मणिकर्णिकायाः
स्नानं सदा विदधती रुचिवारिपूरे ।
नैर्मल्यमीदृगुपलब्धवतीति वक्तुं
सामर्थ्यमेतु भुवने कतमस्य जिह्वा ॥ ३६ ॥
कृत्वा समुद्रमथनं भवता किमर्थ -
मुत्थापिस्तदुरसि स्थित एष चन्द्रः ।
आ ज्ञातमात्मवदनं नितराममुष्मा -
दुत्कृष्टशोभमिति बोधयितुं जनैघान् ॥ ३७ ॥
२२१
ओष्ठेन ते मृदुतरेण हरे रमायाः
शुद्धैर्द्विजैर्विरचितं क्षतमाप्यते यत् ।
एतस्य सा निरपराधनवप्रवाल-
सङ्घषु भङ्गकरणस्य फलानुभूतिः ॥ ३० ॥
मुक्तावलेर्निजरुचा भवदीयदन्तात्
त्वमस्ति यदमुं निजदोषमेषा ।
हर्तुं सदा व्यवसिता नखरच्छलेन
त्वत्पादपद्मपरिषेवणमादधाति ॥ ३१ ।
दन्तप्रभाप्रविजितं तव पङ्कजाक्ष
कुन्दप्रसूनमतनोरिषुतामवाप्य ।
त्वन्नायकं त्रिभुवनं क्षुभितं तनोति
मानक्षये सति क एव हि जोषमास्ते ॥ ३२ ॥
मन्दस्मितं मधुरिपो मधुरं त्वदीयं
चन्द्रप्रभा मम मनोमय कैरवस्य ।
उन्निद्रतां जनयतादतितीव्रताप-
संसारभास्करविलासनिपीडितस्य ॥ ३३ ॥
यद्यम्बुजस्य विदलद्दलमण्डितस्य
मध्यं बता तुहिनदीधितिदीधितिः स्यात् ।
तर्ह्यम्बुजाक्ष भवदास्यमहोत्पले त्व-
न्मन्दस्मितद्युतिरसावुपमामुपेयात् ॥ ३४ ॥
गण्डद्वयं मकरकुण्डलमण्डितं ते
निर्णिक्तशक्रमणिदर्पणदर्पहारि ।
वर्ण प्रकर्षजनितक्षणमीक्षणानाम्
अर्णोरुहा मम चेतसि संनिधत्ताम् ॥ ३५ ॥
एषा कपोलयुगली मणिकर्णिकायाः
स्नानं सदा विदधती रुचिवारिपूरे ।
नैर्मल्यमीदृगुपलब्धवतीति वक्तुं
सामर्थ्यमेतु भुवने कतमस्य जिह्वा ॥ ३६ ॥
कृत्वा समुद्रमथनं भवता किमर्थ -
मुत्थापिस्तदुरसि स्थित एष चन्द्रः ।
आ ज्ञातमात्मवदनं नितराममुष्मा -
दुत्कृष्टशोभमिति बोधयितुं जनैघान् ॥ ३७ ॥
२२१