Proofing

2026-04-02 21:27:18 by ambuda-bot

This page has not been fully proofread.

श्रीमृन्नाथस्तोत्रम्
 
ओष्ठेन ते मृदुतरेण हरे रमायाः
शुद्धैर्द्विजैर्विरचितं क्षतमाप्यते यत् ।
एतस्य सा निरपराधनवप्रवाल-
 
सङ्घषु भङ्गकरणस्य फलानुभूतिः ॥ ३० ॥
मुक्तावलेर्निजरुचा भवदीयदन्तात्
त्वमस्ति यदमुं निजदोषमेषा ।
हर्तुं सदा व्यवसिता नखरच्छलेन
त्वत्पादपद्मपरिषेवणमादधाति ॥ ३१ ।
 
दन्तप्रभाप्रविजितं तव पङ्कजाक्ष
कुन्दप्रसूनमतनोरिषुतामवाप्य ।
 
त्वन्नायकं त्रिभुवनं क्षुभितं तनोति
 
मानक्षये सति क एव हि जोषमास्ते ॥ ३२ ॥
 
मन्दस्मितं मधुरिपो मधुरं त्वदीयं
 
चन्द्रप्रभा मम मनोमय कैरवस्य ।
 
उन्निद्रतां जनयतादतितीव्रताप-
 
संसारभास्करविलासनिपीडितस्य ॥ ३३ ॥
 
यद्यम्बुजस्य विदलद्दलमण्डितस्य
 
मध्यं बता तुहिनदीधितिदीधितिः स्यात् ।
तर्ह्यम्बुजाक्ष भवदास्यमहोत्पले त्व-
न्मन्दस्मितद्युतिरसावुपमामुपेयात् ॥ ३४ ॥
 
गण्डद्वयं मकरकुण्डलमण्डितं ते
 
निर्णिक्तशक्रमणिदर्पणदर्पहारि ।
 
वर्ण प्रकर्षजनितक्षणमीक्षणानाम्
 
अर्णोरुहा मम चेतसि संनिधत्ताम् ॥ ३५ ॥
 
एषा कपोलयुगली मणिकर्णिकायाः
 
स्नानं सदा विदधती रुचिवारिपूरे ।
 
नैर्मल्यमीदृगुपलब्धवतीति वक्तुं
 
सामर्थ्यमेतु भुवने कतमस्य जिह्वा ॥ ३६ ॥
 
कृत्वा समुद्रमथनं भवता किमर्थ -
 
मुत्थापिस्तदुरसि स्थित एष चन्द्रः ।
 
आ ज्ञातमात्मवदनं नितराममुष्मा -
 
दुत्कृष्टशोभमिति बोधयितुं जनैघान् ॥ ३७ ॥
 
२२१