Stotrarnava /265
This page has not been fully proofread.
श्रीमृन्नाथस्तोत्रम्
चन्द्रार्करश्मिनिकरच्छुरिताम्बुवाह-
च्छायस्त्वदीयचिकुरप्रकरो विभाति ॥ १४ ॥
फालेन ते भुवनमोहन मोहनेन
बालः शशी समतुलामधिरोदुमिच्छन् ।
जातश्चिरार्गल इति प्रथितस्त्रिलोक्यां
को वाप्नुयान्न जनवादमनर्हकारी ॥ १५ ॥
एष स्ववृत्तरहितश्च कलङ्कवांश्च
यातुं ललाटसमतां मम वाञ्छतीति ।
रोषस्त्वया मयि न कार्य इतीव शंसन्
बालः शशी शरणमाश्रयते पदं ते ॥ १६ ॥
यत्ते ललाटफलके तिलकं विभाति
स्मर्तुः समस्तभयहारि च हानिहारि ।
शक्राश्मपट्टलिखिता मलरूप्यरेखा-
विद्वेषि मव्यसनमेतदपाकरोतु ॥ १७ ॥
ब्रह्मादयोऽपि च यदीय महामहिम्ना
संमोहिता निजनिजाधिकृतौ निबद्धा ।
मायापि यच्चलनमात्रवशात् स्वकार्ये
सा गल्भते जयति सा युगली भ्रुवोरते ॥ १८ ॥
नेत्राभिपूर्णकरुणारसवीचिशोभाम्
आबिभ्रती मदनकार्मुकमातृका सा ।
भ्रूवल्लरी विजयते जगतीविधान-
स्थानप्रहाणचतुरा चतुराकृतिस्ते ॥ १९ ॥
पङ्केरुहाणि भवदीक्षणसाम्यलेशं
हृत्वा पुनस्तदपराधविमार्जनाय ।
पद्मां भवत्प्रणयिनीमलमर्थयित्वा
नित्यं निजान्तरगृहेषु निवासयन्ति ॥ २० ॥
यत्प्राहुराप्तवचसो महतां हि -
र्नो शत्रुबान्धवभिदेत्यमृषा वचस्तत् ।
चक्षुः सरोजयुगली भवतस्तथा हि
कर्ण गता च विजयं च गतेयमास्ते ॥ २१ ॥
1.
श्रोत्रं राधेयं च
2. जयम् अर्जुनं च
२१९
चन्द्रार्करश्मिनिकरच्छुरिताम्बुवाह-
च्छायस्त्वदीयचिकुरप्रकरो विभाति ॥ १४ ॥
फालेन ते भुवनमोहन मोहनेन
बालः शशी समतुलामधिरोदुमिच्छन् ।
जातश्चिरार्गल इति प्रथितस्त्रिलोक्यां
को वाप्नुयान्न जनवादमनर्हकारी ॥ १५ ॥
एष स्ववृत्तरहितश्च कलङ्कवांश्च
यातुं ललाटसमतां मम वाञ्छतीति ।
रोषस्त्वया मयि न कार्य इतीव शंसन्
बालः शशी शरणमाश्रयते पदं ते ॥ १६ ॥
यत्ते ललाटफलके तिलकं विभाति
स्मर्तुः समस्तभयहारि च हानिहारि ।
शक्राश्मपट्टलिखिता मलरूप्यरेखा-
विद्वेषि मव्यसनमेतदपाकरोतु ॥ १७ ॥
ब्रह्मादयोऽपि च यदीय महामहिम्ना
संमोहिता निजनिजाधिकृतौ निबद्धा ।
मायापि यच्चलनमात्रवशात् स्वकार्ये
सा गल्भते जयति सा युगली भ्रुवोरते ॥ १८ ॥
नेत्राभिपूर्णकरुणारसवीचिशोभाम्
आबिभ्रती मदनकार्मुकमातृका सा ।
भ्रूवल्लरी विजयते जगतीविधान-
स्थानप्रहाणचतुरा चतुराकृतिस्ते ॥ १९ ॥
पङ्केरुहाणि भवदीक्षणसाम्यलेशं
हृत्वा पुनस्तदपराधविमार्जनाय ।
पद्मां भवत्प्रणयिनीमलमर्थयित्वा
नित्यं निजान्तरगृहेषु निवासयन्ति ॥ २० ॥
यत्प्राहुराप्तवचसो महतां हि -
र्नो शत्रुबान्धवभिदेत्यमृषा वचस्तत् ।
चक्षुः सरोजयुगली भवतस्तथा हि
कर्ण गता च विजयं च गतेयमास्ते ॥ २१ ॥
1.
श्रोत्रं राधेयं च
2. जयम् अर्जुनं च
२१९