संस्कृतसरखत्याः समुन्मेषो विकासः प्रभावश्च न केवलं उद्ग्रन्थेषु, महाकाव्यादिषु, अन्यासु विस्तृतासु रचनासु, किन्तु लघुषु ग्रन्थेषु, खण्डकाव्येषु, शतकेषु, स्तुतिषु, सुभाषितेषु, भाणप्रहसनप्रेक्षणकादिषु च दृश्यते । प्राचीनेऽपि काले महाकविप्रतिभाभिः खण्डकाव्येष्वपि लीलायितम् । भर्तृहर्यमरुमयूरादीनां शतकानि प्रसिद्धान्येव । अर्वाचीने तु काले कवीनां संरम्भः विशिष्य खण्डकाव्येषु बहुधा प्रचक्राम। अद्यतने काले संस्कृतपरिशीलकानां महाग्रन्थानां प्रकाशने यावान् संरम्भ आदितो बभूव, तावान् आदित एव जजागार लघुकाव्यानां संकलने समाखादने च । हेबर्लिन्-विद्यासागरप्रभृतिभिः संपादिताः काव्यसङ्ग्रहाः गतशताब्द्या मध्ये उत्तरार्धे च कलकत्तानगरीतः प्रकाशिताः । पश्चान्मुम्बापुर्या प्रादुर्बभूवतुः ग्रन्थरत्नमाला, काव्यमाला गुच्छकरूपा च । संस्कृतविदुषां साहित्यरसिकानां च सुपरिचिता एव काव्यमालागुच्छकाः यत्र १३१ लघुग्रन्था मुद्रिताः । काव्यमालागुच्छकानां चतुर्दशो भाग: १९०६ - तमे वर्षे प्रकटितः। तदनन्तरमेतादृशं लघुग्रन्थप्रकाशनकार्यं विच्छिन्नमेव बभूव, तत्र कस्यापि श्रद्धा नोदियाय । अस्मिन्नेव समये हस्तलिखितमातृकानां मार्गणं, सञ्चयश्च भारते तत्र तत्र केन्द्रे प्रावर्तित । बृहतां ग्रन्थानां बहुकोशसंवादसंशोधनपूर्व संस्करणं प्रकाशनं च संस्कृतोद्योगिनां मुख्यप्रवृत्तितया स्त्यायते स्म । किन्तु लघवो ग्रन्थाः परःशतमगणिता मातृकास्वेव शेरते स्म । कचित् हस्तलिखितकोशागारनिर्वाहकैः कैश्चित् लघुग्रन्थप्रकाशनार्थं प्रयत्न उपात्तः, यथा केरलेषु अनन्तशयनक्षेत्रे । केन्द्रशासननियोजितेन संस्कृतायोगेन विचारितेषु विषयेषु अयमप्यन्यतमः यदस्य महतो हस्तलिखितग्रन्थराशेः प्रकाशनार्थं प्रयत्नविशेषः कार्य इति । आयोगापत्यभूतेन तिरुप्पति-केन्द्रीय-संस्कृत-विद्यापीठेन आयोगनिर्दिष्टानि संस्कृताभिवृद्धिकार्याणि यावत्संभवं यावच्छवयं निर्वर्तनीयानि । एवं च विद्यापीठस्य यः प्रथमः समावर्तनसहोत्सवोऽभूत्, यत्र तदानींतनकेन्द्रीयशिक्षामन्त्रिणः डा० श्री-श्रीमालिमहोदयाः सन्निहिताः, तदा विद्यापीठकार्यकलापरूपरेखानिर्देशावसरे इदमपि लघुग्रन्थप्रकाशनकार्यं सूचितम् । तदर्थं 'मलयमारुत' - नामा कश्चन काव्यमालागुच्छकानुसारी तदातदा प्रकाश्यमानः संग्रहो मया केन्द्रीय-विद्या-पीठद्वारा संपिपादयिषित इति सदस्येभ्यो निवेदितं, तच्च तैरनुमोदितम् । तस्य 'मलयमारुतस्य' अयं प्रथम: स्पन्दः विदुषां रसिकानां च हृदयस्पर्शी नूनं तानुत्पुलकयिष्यतीति विश्वसिमि । काव्यमालागुच्छकेषु या रीतिरनुसृता सैव अस्मिन् मलयमारुतेऽनुसरिप्यते । खण्डकाव्य-लघुरूपक-शतक-स्तोत्र-सुभाषितप्रायं संस्कृतसाहित्यजातमत्र प्रकाशयिष्यते । यत्र कस्यापि लघुग्रन्थस्य एकाधिका: मातृका: सुलभाः, तत्र मातृकासंवादपुरस्सरं स लघुग्रन्थः सम्यक्संशोध्य मुद्रापयिष्यते । ग्रन्थतत्कर्तृविषये ज्ञायते चेद्वृतान्त:, सः अत्यन्तं संग्रहेण दास्यते । एवमेव च तत्र तत्र ग्रन्थपङ्क्तिवैशद्यार्थमपेक्षिता लघ्व्यः टिप्पण्यश्च । अस्मिन् प्रथमे स्पन्दे नव लघुग्रन्था उपहृताः । यथोचितं वरप्रसादिनः 'उच्छिष्टगणपतेः' 'स्तवेन' समारम्भः । तदनन्तरं वागधिष्ठात्र्या 'महाराज्या: ' काश्मीरककृष्णकविकृतं 'स्तोत्रम्' । शिवाद्वैतानुभवशालिनी 'दशश्लोकी' १४-शतकीयस्य होय्सलास्थानविदुषो विद्याचक्रवर्तिनः कृतिस्तदनन्तरम् । पश्चात् श्रीशङ्कराचार्यकृतभजगोविन्दप्रतिरूपकतया त्यागराजकविना कृत 'उपदेशशिखामणिः'। 'षडृतुवर्णन'मज्ञातकर्तृकं तञ्जापुरस्थ-सरस्वतीमहाल-पुस्तकालयात् । गौरमोहनसङ्कलितः 'कवितामृतकूप:' मद्रपुरराजकीयहस्तलिखितकोशागारस्थां 'मातृकामालम्ब्य मुद्रितः; अयं सार्धशतकवर्षेभ्यः पूर्वं कलकत्तानगरे मुद्रित इति श्रूयते । 'नराभरण'-नामा सुभाषितसंग्रहः पूर्वोद्दिष्टपुस्तकालयस्थमातृकातः उद्धृतः । 'सोमनाथशतकं' सङ्गीतलक्षणविदा कविना सोमनाथेन विरचितं सदुपदेशपरमन्ते भगवद्भक्तिपरं च । अन्ते सप्तदशशतकीयेन जयपुरास्थानकविना हरिजीवनमिश्रेण विरचितेषु पञ्चषेषु प्रहसनप्रायेषु एकाङ्करूपकेषु एकं 'विबुधमोहनं' नाम, यत्र तत्तच्छास्त्रसिद्धान्तचर्चापूर्वे साहित्यविद्यायाः पारम्यं प्रतिपाद्यते । एषु महाराज्ञीस्तोत्रस्य, उपदेशशिखामणेश्च आघारतया मातृकात्रयं मातृकाद्वयं चोपात्तम् । मलयमारुतस्य भाविषु स्पन्देषु प्रकाशनार्थं विदुषां रसिकानां हस्तलिखितमातृकालयस्थानां च सुहृदां सहयोगः प्रार्थ्यते । खण्डकाव्यादिलघुग्रन्थानद्यावध्यमुद्रितान् प्रेष्य समारम्भमिममविच्छिन्नाभिवृद्धिसंपादनेन सफलयन्तु ते । मलयमारुतस्य स्पन्दैरुत्प्राणिता संस्कृतसाहिती अप्रकाशशिशिरजडीभावमुत्सृज्य, मन्ये, स्वीयैः अपर्याप्तैरासेचनकैः विभ्रमैः भावैश्च सहृदयानानन्दयिष्यति ॥ महाशिवरात्रिः १८-२-६६ वे. राघवः सोमनाथशतकम्[^*] [^†]सोमनाथकृतम् आर्यासूनुसमानं प्रणम्यमानं धरासुरैः प्रवरैः । [^१]झापाम्बया तयालं मुद्गल[^२]मालम्बदं कलये ॥ १ ॥ [^३]वृत्ताभिख्या[^४]हृतार्यां[^५] श्रुतविविधगणां[^६] छन्दसां[^७] वर्णनीयां यातां सर्वादिमत्वं[^८] सुरगण[^९]कलितां भासमत्वं[^१०] दधानाम् । [^११]युक्तं स्थानं नयन्तीं लघुमपि सकलं बिभ्रतीं मालयायां (मात्रयालं) वन्दे [^१२]वार्धीभवर्णां भृतमुनियतिकां स्रग्धरां शम्भुमूर्तिम् ॥ २ ॥ [^*] नागपुरस्थभोसलसंस्कृतमहाविद्यालये दृष्टा मया ग्रन्थस्यास्य मातृका । विद्यालयाध्यक्षैः श्रीशङ्करशास्त्रि-आर्वीकर-महोदयैः प्रतिलिपिरस्याः सदयं प्रेषिता ॥ [^†] अस्य शतकस्य प्रणेता मौद्गलि: सोमनाथ: सकलकलेत्युपनामभाक् जाति-माला-अन्योक्तिमालयो: कर्ता, रागविबोधो नाम प्रसिद्धः सङ्गीतशास्त्रग्रन्थश्चानेनैव १६०९ क्रिस्तवषें व्यरचि । [^१] ज्ञाता-इति मातृकायाम् । 'झम्पा' 'झापा' इति कवेरन्यासु कृतिषु । कवेर्मातुरियं नामेति भाति । [^२] मुद्गलः कवे: पिता । [^३] अत्र शम्भुमूर्तिस्रग्धरावृत्तयो श्लेषः । [^४] मातृकायां '०ख्यां' इति व्यस्तं दृश्यते । [^५] आर्या तन्नामकः जातिरिति ख्यातः छन्दोविशेषः । पार्वती । [^६] गणा: वृत्तेऽक्षरगणाः, शिवानुचरा भूतगणाश्च । [^७] छन्दः पद्यं वेदश्च । [^८] सर्वादिमत्वं सर्वादौ मुखे मगणः स्रग्धरायाम् । [^९] देवसमूहा: देवतावाचक-अक्षरगणाश्च । [^१०] भा ४; चतुस्समत्वमिति यावत् । समवृत्तं हि स्रग्धरा । अन्यत्र भायां कान्त्यामसमत्वमसमानत्वं दधानाम् । [^११] युक्तं संयुक्ताक्षरयुतं योगिनं च । लघु लघ्वक्षरं, लघुभूतं जनं च । मात्रया गुरुलघुन्यायेनेति वृत्ते । शम्भुमूर्तिपक्षे मात्रया शक्त्येकदेशेन सकलम् अलं बिभ्रतीम् । [^१२] वार्धीभवर्णामिति । वार्धि : ४, इभः ८, प्रतिपादं स्रग्धरायां २१ वर्णाः, आहत्य ८४ भवन्ति । शिवमूर्तिपक्षे वार्धीभ: समुद्रोत्थो गज ऐरावत: तद्वर्णां धवलामिति यावत् । भृतमुनियतिकाम् मुनि: ७; प्रतिसप्तमाक्षरं स्त्रग्धरायां यतिः, भृता मुनयो यतयश्च ययेति अन्यन्त्र । स्रग्धरा तन्नाम वृत्तं, मालाधारिणी च ॥ शान्तेर्मातुर्विवेकात्पितुरपि कृपणं मङ्क्षु कृत्वा पृथङ्खाम् आशायोषा स्वतन्त्रा व्रजति परगृहान् सर्वदा वीतलज्जा । संधत्ते मत्कृशत्वं मम यमनियमौ भ्रातरौ भर्त्सयन्ती पुष्ट्वा दम्भं स्वबन्धुं तदपि कथमहं हन्त वन्ध्यां श्रयामि ॥ ३ ॥ आशा सैषाऽवलोकच प्रचुरपरवसु प्रैषयन्मां तदर्थे नानादेशानटित्वार्जयमथ तदहं लोभपुत्रानुयातः । दम्भं संगम्य मित्रं तदनु मदमहास्तेननिःस्वीकृतत्वात् खिन्नोऽप्येनां कुनाथः कथमहह पुनः प्रेरयन्तीं भजेयम् ॥ ४ ॥ द्वारेद्वारे परेषां तमसि विलसिते रत्यवाप्त्यै भ्रमन्त्या स्वस्त्रीसक्त्याऽन्यदीयां रतिमविदधतम्तान्मृषा विद्विषन्त्या | मुञ्चन्त्या लोकलजामहह कुलटयेवाशया दूषितो ना१ प्रायश्चित्तं गृहीतुं किमपि न यतते संगयोग्यो हि नो ना[^१] ॥ ५ ॥ आविर्भूतप्रदोषां प्रवितततमसा निर्मितां भूरिजन्तु- प्रागल्भ्यं दारयन्तीं द्युतिनिधनकरीं भानिधेरप्यतीव | आलम्ब्याशानिशां यो विचरति परितः किं न स स्यात्पिशाच- श्चित्रं त्वेतच्चितायां न वसति लभते नाप्यदृश्यत्वमेषः ॥ ६ ॥ आशा निष्ठा प्रतिष्ठा किल मम महिलास्तासु सौख्यं कदाचित् या प्रान्त्या सा प्रदद्यादिह किमपि तथा मध्यमा सा परत्र । आद्या सा नोभयत्राप्यहह तदपि किं सक्ततां यामि तस्यां या प्रौढ्यादप्रगल्भे प्रतिदिवसमुभे ते कदर्थीकरोति ॥ ७ ॥ [^१] नरः । त्वं चेन्नीचत्वभीतः किमपि सुखमिह स्थातुकामोऽसि तद्भो विद्वन् ! मुञ्चापराशा[^१] मसदृशमुचितां हन्त पत्युर्जडानाम्[^२] । एतामालम्ब्य दीनामनुदिनमिनवत्प्राग[^३] वात्यो(प्तो)दयत्वेऽ- प्यत्युच्चत्वेऽपि के के न हि बहुविंपदं दीप्तिमन्तोऽपि यान्ति ॥ ८ ॥ विद्याभ्यासाख्यमाद्ये वयसि गुरुगृहे भूरि दुःखं मयाप्तं वित्तप्राप्त्याशया च प्रचुरधरणिभृत्सेवनाह्वं द्वितीये । तार्तीयीके सकामव्रतयजनजपध्यानरूपं परं तु प्रापि कापीप्सितं नो तदपि न चरमे मुच्यते हा दुराशा ॥ ९ ॥ मातस्तात प्रभो भो नयनविषयिते पादुके यन्मया ते तत्पुण्यं पूर्वजानामिति रचितवचा: शौचमाचारमुज्झन् । जात्युच्चो नीचभूपानुपचरति तथाप्यौदरीं नैति पूर्ति सत्येवं हन्त जन्तुर्भजति न तु कथं विश्वदं विश्वनाथम् ॥ १० ॥ भीतिव्रीडाविहीनो गहनगिरिदरीरन्यदीयान्गृहान्वा सेवेतापास्य धर्मं नयमपि सपदि प्रायशो यद्वशो ना । आशा सैषा मनोजा रतिपतिभगिनी कामशत्रो![^४] ततस्तां जन्तुक्लेशैकहेतुं तमिव[^५] बहुकृते किन्न भस्मीकरोषि ॥ ११ ॥ श्रेयस्वी यत्र मानं व्रजति दुरितकृत् चापमानं मनुष्यै- रज्ञेयं तत्र दूतैः प्रभुमनु मनुजो नीयते चानपेक्षः । मृत्योर्गेहं वरं तन्न तु कुधनवतो यत्र सर्वापमानो लोकैर्विज्ञायमानः स्वयमतिथितया यत्र चार्थी प्रयाति ॥ १२ ॥ [^१] अपराशा, एकत्र अपरा अश्लाघ्या आशा तन्नामा मनोभावः । अन्यत्र अपरा आशा पाश्चात्या दिक् । [^२] जडानां पति: महाजड, जलानां पति: वरुणश्च, यस्य अपरा वारुणी आशा दिक् उचिता । [^३] प्राक् पूर्व प्राची च । [^४] हे शिव । [^५] काममिव । द्वारेद्वारे परेषामविरतमटति द्वारपालैः करालैः दृष्ट्वा यष्ट्याहतम्सन् रणति गणयति स्वापमानं तु नैव । क्षन्तुं शक्नोति नान्यं स्वसदृशमितरागारमप्याश्रयन्तं श्राम्यत्यात्मोदरार्थे कथमहह शुना नो समो याचकस्सः ॥ १३ ॥ पङ्गोर्भावं वरं न त्वणुतरमनसां याचनायाङ्घ्रियानं मूकत्वं वा वरं न त्वपलपितगुणं देहिदेहीति वाणी । जन्मान्धत्वं वरं न त्वधमधनवतामास्यभङ्गस्य वीक्षा बाधिर्ये वा वरं न त्वतिपरुषगिरः संश्रुतिः प्रार्थितानाम् ॥ १४ ॥ स्वैर्लोकैर्योऽनुगम्य: प्रथममसदपि प्राप्नुयाद्यो गुणित्वं पश्चाद्विन्द्याद्गुरुत्वं ध्रुवमुदयति यः प्राणहीनो[^१] वरं सः । न त्वर्थी योऽतिहेयो द्रुतमुचितजनैर्यश्च सिद्धं गुणित्वं मुञ्चेद्योचे(दञ्चे?)लघुत्वं महदहह न वा याति जातूदयं यः ॥ १५ ॥ धन्यं वन्यं हि मन्ये तृणमतनुगुणग्राहिकः कोऽपि लोको मूर्धन्याधाय धाम स्वमभिनयति यत्सर्वदा[^२]नन्ददायि । धिग्व्यर्थं त्वर्थिनं तं पृथुगुणमपि यं वीक्षतेऽपि क्षणं नो दूरोद्विग्नो जनो न प्रणमति न नयत्यात्मगेहं च तत्किम् ॥ १६ ॥ चौर्य कार्यं तदा यैर्निजमुदरदरीपूरणं नो भवेच्चेद् उच्चैर्नीचत्वहेतुं न तु विदधतु ते याचनं यातनार्थम् । यस्माच्चोरा: सुराजानुमतविधिवशाच्छूलपीठोपवेशाद् उच्चत्वं तत्प्रयान्ति स्फुरति करतलोत्तानता[^३] नैव तत्र ॥ १७ ॥ [^१] प्राणहीन: प्रेतः, शवः, य : श्मशानयात्रायां स्वीयैरनुगम्यते; गुणित्वं, गुणैः पाशै : बद्धुत्वं याति; क्रमेण गुरुर्भवति वाहकानां; मरणानन्तरं च उदयति पुनर्जन्मनि । अर्थी याचकस्तु शवादपि निकृष्टः । [^२] सर्वदा धेनुः, गौणं नामेदम् । [^३] याचनकर्मप्रयुक्तमुत्तानितकरप्रसारणम् । यं कंचित्सञ्चितस्वं कुवचनरचनं नैव याचस्व किंचित् त्वामित्थं चित्त ! याचे तव रुचिरथ चेद्याचने याच्य ईशः । [^१]भिक्षार्थित्वेन जानन्व्यसनमिव पृथु प्रार्थितव्यर्थतोत्थं सामर्थ्याद्विश्वनाथः कथमपि वृथयत्यर्थनामर्थिनां न ॥ १८ ॥ याचन्तां केचिदाढ्यं पुरपतिमितरे देशनाथं तथान्ये दिग्रक्षं केचनैके क्षितिपतिमपरे स्वर्पति स्वल्पचि(वि?)त्तम् । याचेऽहं तु त्रिलोकीपदसदधिकृतब्रह्मवाणीत्रिवेणी[^२]- प्रावीण्यावर्णनीयागणितगुणगणं श्रीमहादेवमेव ॥ १९ ॥ इति याचकनिन्दा ॥ लक्ष्मीरेषा विषादप्यतिशयविषमा सेवमानोऽनिश यां तं मोहं याति जन्तुः कथमपि विरतिंर्मन्त्रतन्त्रैर्न यस्य । व्यामोहं तत्तु[^३] सात्म्येन जनयति भवन्सो[^४] ऽपि तै[^५]स्ति जय्यः [^६]सर्वज्ञोऽधत्त निःखोऽप्यत इव बंत तत्तां[^७]विहायाब्धितीरे[^८] ॥ २० ॥ [^९]सुज्ञाऽकस्माद्भवन्त्या दृशमथ रजसा पश्यतां दूषयन्त्या यत्किंचित्कम्पयन्त्या निकटगत(म)[^१०]मृदुं शब्दमाश्रावयन्त्या । उन्मार्गेणोच्चलन्त्या सपदि कमलया वात्ययेवाभिभूताः के के भ्रान्त्या पतेयुर्न जगति तृणवत्तूर्णमुड्डीय पूर्वम् ॥ २१ ॥ [^१] स्वयमिति शेषः । [^२] त्रिवेणी लक्षणया नदीत्रयप्रवाह: । तादृशवाग्धाव्याप्यवर्णनीयेत्यादि । [^३] विषम् । [^४] व्यामोहः । [^५] मन्त्रतन्त्रैः । [^६] शिवः [^७] तत् विषम्, ताम् लक्ष्मीम् । [^८] समुद्रमथने समुत्थितयोः विषलक्ष्म्योर्मध्ये सर्वज्ञः शिवो लक्ष्मीं विहाय विषमधत्त । [^९] 'सुझ' इति मातृकास्थं पदं दुरन्वयम्; 'शून्ये' इति स्यात्समीचीन: पाठोऽत्र, यतः शून्ये पूर्वं दरिद्रे पुरुषे अकस्माद्धनं भवति, वात्या च तथा शून्ये आकाशे अकाण्डे भवति । [^१०] निकटगं यत्किञ्चित्, अमृदुं शब्दमित्यन्वयः । लक्ष्मीश्चेल्लोकमाता किमवति न जनं प्रत्युतायासहेतुः लोको मातेव यस्या इति भवतु पुनर्योगतः सा कथञ्चित् । यत्प्राप्यापत्यवत् तां[^१] वहति निजतनौ स[^२] व्ययात्पाति भीतः पुष्णाति प्रत्यहं च त्यजति न मनसाप्यन्तकालेऽतिरागात् ॥ २२ ॥ नृभ्योऽग्नौ स्वस्य धातुद्रवणमथ जले मज्जनं छेदनं तः (तैः ?) शस्त्रैः संदंशयोगोऽनलमिलनमयस्ताडनं जन्मनीति । दीनाराद्यर्थसार्थो व्यथनकृदखिलं संस्मरन् किं समर्थ- स्तज्जातीयांस्तथैव व्यथयति धनिनो बन्धभूक्षेपखिन्नः ॥ २३ ॥ आः किं भुङ्क्षे त्वमाशीविषविषवदिमां मारयन्तीं जनानां कार्ता(?)पस्वादुतैव (ऽस्मारतैव?) स्फुरति भवति वा यद्वशात्कण्ठरोधः । किंतु श्रेयोऽधिगन्तुं भज भवभिषजं तं विषादं[^३] विषादं[^४] त्यक्त्वा त्वां तत्र सक्तं कृपणमपि कृपा यस्य पायादपायात् ॥ २४ ॥ इति लक्ष्मीनिन्दा कारागारं बत स्त्री विसहगि[^५]ति पतिः सापराधं यदन्यं बघ्नात्यस्मिन्करार्थी न किमपि यतते रक्षणे चास्य बद्धः । अस्यां तूदेति बन्धः क्षरदवधि[^६] करग्राहिणः पत्युरेव प्रायोऽस्याः पालनादौ वहति च नितरां तादृशोऽप्येष चिन्ताम् ॥ २५ ॥ [^१] लक्ष्मीम् । [^२] लोकः । [^३] विषमन्तीति विषादः शिवः तम् । [^४] दुःखम् । [^५] अन्यादृशम् । सामान्ये कारागारे पतिः राजादिक: अपराधिनं तथा अन्यमेव नरं, स्वयं ततः करार्थी वा बध्नाति; बन्धनानन्तरं कारागारस्य रक्षणार्थं न बतते । विशिष्टे स्त्रीनामके कारागारे तु करार्थी पाणिं गृह्णाति पतिः, स्वयमात्मानमेव झाति; स च बन्धो निरवधिकः; स्त्रीरूपकारागृहस्य पालनार्थं च सदा चिन्तासुरी भवति । [^६] निरवधि । सेयं हेया सुधीभिः कथमपि तरुणी वारुणीतोऽपि भीमा यामालोक्यैव दूरात्सपदि बत नरो माद्यति भ्रान्तिमेति । लज्जां मुञ्चत्यवश्यं रचयति वचनं किंचिदुच्चावचं च प्रायो हाला तु कालाद्गतिमिति कुरुते सेविता सत्यतीव[^१] ॥ २६ ॥ बाला ज्वाला विचित्रा सखिवरशिखिनः स्नेहतो नैव योज्या दाहं या हन्त दृष्टा वितरति नितरां भूतिनाशं तनोति । [^२]पोषं दोषं जडत्वं नयति च दहति प्रायशोऽत्यन्तदग्धं कम्पं संपन्नभावं गमयति तमसोऽतीव वृद्धिं करोति ॥ २७ ॥ नाशे हेतुर्वसूनामहह वसुमतः स्वप्रवेशस्य काले[^३] स्वाधीनत्वात्कलानां निधिमपि गमयत्येव दोषाकरत्वम् । उच्चैर्माराङ्गभूता[^४] प्रतिभयतमसो भूर्निसर्गेण योषा याति प्राप्नोति [^५]तस्योद्वहनकृत उषा रात्रिरित्थं स्फुटार्था ॥ २८ ॥ हन्त स्त्री मारशस्त्री सुखहृदपि कथं हृद्यभावेन कान्ता किं तु प्रायः सुखात्तं कुरुत इति बुधैः कर्तृवत्सा निरुक्ता । शत्रौ मित्रोक्तिवद्वा कथमपि गदिता वैपरीत्येन यद्वा संज्ञात्वेनात्र वैद्यैरमृतमिव विषे कैश्चिदेवं प्रयुक्ता ॥ २९ ॥ [^१] हाला तु कालात् बहो:, अतीव च सेविता विकारानेतान् कुरुते, तरुणी तु रष्टमात्रैव । [^२] दोषं पोषं नयति, बहुलीकरोति । जडत्वं च नयति; सामान्या ज्वाला औष्ण्यात् जडत्वं व्यपोहति, इयं तु विपरीतम् । दग्धमेव दहति, विदग्धं चतुरं पुरुषं दहति इति उभयथा योज्यम् । ज्वालाग्रे कम्पः शीतादिप्रयुक्तो हीयते, अस्यास्तु पुरः स वर्धते । [^३] स्वस्मिन् रात्रौ प्रवेशः, तत्समये । [^४] मन्मथाङ्गभूता । [^५] तस्य वसुमतः सूर्यस्य रात्रिभूताया योषाया अपगमानन्तरं तस्य उद्वहनकृते तया तिरस्कृतस्य उद्धारार्थं विवाहार्थं च उषा सा, तद्पा अन्या साध्वी नायिका व प्राप्नोति । कान्ताकान्तारभूमिं परिहर सर रे चित्तमातङ्ग दूरं शूरो मध्यो (मृत्यु: ?) मृगारिः सततमदयुतं मर्दयेत्तत्र तु त्वाम् । सत्येवं च त्वदन्तर्मिलितमपहरेन्मारभिल्लो विवेकं मुक्ता सङ्घ महार्घ्यं सुजनसमुचितं रागगुञ्जैकयोग्यः ॥ ३० ॥ दृक्पातेनान्नपानाभिलषणविरतिं कान्तिशान्ति तनुत्वं स्वापान्तं भ्रान्ततां ह्रीहतिमथ वचनोच्चावचत्वं ददत्या । मायाविन्या स्वभावाद्गलितशुचितया निर्दयत्वं दधत्या श्लिष्टे योषापिशाच्या निजरसवशतः पुंसि सौख्यं कथं स्यात् ॥ ३१ ॥ नार्यङ्गानां [^१]यदङ्गोपमितिरधिगता ते कुरङ्गादयो यां पुष्यत्यन्यं फलैर्या हरति परमलं या च नद्या खतोत्था (तो या?) । तामुन्मुच्याटवीं किं श्रयसि मृगदृशं पोषणीयां प्रयत्नैः क्लिन्नामन्तर्बहिश्च प्रबलमलशतैर्वञ्चितः काव्यगोष्ठया ॥ ३२ ॥ श्वश्रूः साधित्यकैव श्वशुर उहरगः (उटजक:?) श्यालका भूरुहोऽर्हाः श्याल्यो वल्लयो विचित्राः सखि कुलममलं श्वापदानां कदम्बम् । भार्या [^२]दर्यार्ययोग्या सुतततिरपि सत्कर्मणां पङ्क्तिरग्रे मुञ्चन्ती प्रीतये मे फलनिकरमिति प्रार्थित कर्हि सिध्येत् ॥ ३३ ॥ भोगा रोगास्त्वपूर्वा गुणविषमतया देहिनं व्याप्नुवन्तो निघ्नन्तो विप्रयोगे दिनकरभजनादौषधाच्चानिवार्याः । प्राप्य प्रायो युवानं विहितविकृतयः प्राणिभिः काङ्क्षणीयाः सत्येवं हन्त जानन्नपि भजति कथं स्वापदेरीति (ऽरीनि)वामून् ॥ ३४ ॥ [^१] यदङ्गोपमितिः कुरङ्गाद्यङ्गोपमितिः । ते यामटवीमधिगताः । परमलं नद्या या अटवी हरति, या च स्वतः सर्वमिदं करोति । [^२] दरी आर्ययोग्या इति च्छेदः । दुष्टेऽस्मिन्भोगिभावे[^१] श्रवणरहितता विष्णुसेविद्विषत्ता द्वैजिह्यं जिह्यगत्वं परहतिपटुताऽध:स्थलोके निवासः । भोगच्छेदे विपत्तिः सपदि च तदिदं सर्वमर्ह पर तत् चित्रं वाताशनत्वं न यदिह न हि वा भोगसंकोचिता यत् ॥ ३५ ॥ श्रीरामापुत्रधामाद्यधिगत(ति?)विषयां सुज्ञ चिन्तां त्यजैतां प्राचीनं कर्म शर्म प्रवितरति विना प्रार्थनेन व्यथावत्[^२] । चिन्तामात्रेण वित्ताद्यधिगतिरिति चेकिं न सर्वे समृद्धाः किंतु स्यादङ्गसादो धुतिनिघनमपि प्रत्युतास्याप्रसादात् ॥ ३६॥ सारं सारङ्गनेत्रा जगति न हि भवेदन्तवैरस्यदात्री [^३]मा वामावास्यकाया रजनिरिव तमोदूषिता नैव सारम् । नो [^४]वीनोऽपीष्टपुत्रादिकविषयचयः सारमस्थैर्यपात्रं [^५]सन्नासन्नाय गोप्यं स्वहितमुपदिशन्नेक एवास्ति सारम् ॥ ३७ ॥ नेहे गेहेषु सौख्यं धनतनयहयप्रेष्यदासीपशुभ्यो भोगान् रोगानमुख्यान्न तु रतचतुरा नो नवाः कान्तकान्ताः । प्राज्यं राज्यं न भूमेररिपु न बत वा शेवधीन् दीनबन्धो शम्भो दम्भोलिपाणेर्न पदमपि चलं किन्तु देहि स्वदास्यम् ॥ ३८ ॥ [^१] भोगिभावः भोगशालिता, सर्पभावः । श्रवणम् ईश्वरगुणसस्कथादिश्रवणं श्रवणेन्द्रियं च । विष्णुसेवी गरुडः, अन्यत्र भागवतः । अध:स्थलोकः पाताकः, अन्यत्र निकृष्टगोष्ठी । [^२] "अप्रार्थितानि दुःखानि यथायान्तीह देहिनाम् । सुखान्यपि तथा" इत्युक्तिरनुस्मार्यात्र । [^३] मा वा लक्ष्मीर्वा । अमावास्यकाया अमावास्याया: रजनिरिव । [^४] पीनोऽपि स्थूलोऽपि इष्टपुत्रादिकविषयचयः । [^५] सबा सन् ना साधुः गुरुरूपः पुमान् । आसन्नाय शिष्यभावेनोपसन्नाय गोप्यं मन्त्रादिकम् । स एक एव सारभूतः । क्षुद्रैरन्तर्बहिर्यन्निचितमनुचितैर्जन्तुभिः कालगत्या विस्रं प्रस्रावि जीर्णं क्षणमपि रुचिरं मार्जनाद्यैर्विना न । देहं गेहं च तुल्यं परमिह निघने गेहमन्योपयुक्तं स्यान्नो देहं; सतीत्थं न तदुपकृतये जीवतो यस्य तं धिक्[^१] ॥ ३९ ॥ मूकत्वान्नग्नभाषान्मललुलिततनोरुक्तयोगाच्च दुःखाद् बाल्यं पैशाच्यमुच्चैः कथमपि शनकैर्यावदेतद्वयपेतम् । बिभ्रद्दोषप्रकोपं करचरणमपीतस्ततो भ्रान्तनेत्र- स्वान्तं निक्षेपयन् हा सपदि तरुणिमोरुज्वरोऽलम्भि तावत् ॥ ४० ॥ तारुण्यारण्ययातोऽप्यहह किमु न रे सावधानोऽसि जन्मिन्[^२] हन्युस्त्वां व्यग्रमुग्राः प्रचलितमभितो व्यापकाः पञ्च चैकम् । कोपो द्वीपी प्रपञ्चोऽहिरपि मद इभो मत्सरः सूकरेशो दम्भो भल्लूक एषोऽसमशरशरणो मन्मथश्चोरनाथः ॥ ४१ ॥ यातायातं विधत्ते सुखमसुशफरी कायकासारदेशे यावत्संफुल्लचक्षुर्मुरवकरचरणाम्भोजराजीविराजि । स्फूर्जद्वानीरपूरे बहिरमलतरे तावदत्तुं स्थितस्तां कुर्वन् मन्दं पदं स्वं बत पलितबको वञ्चकः कुञ्चिताङ्गः ॥ ४२ ॥ संशीर्णा हन्त दन्ता नवयुवतिरदाच्छादन[^३]च्छेददक्षा- श्चक्षुर्नोद्वीक्षणेऽपि क्षण(म)महह रह: स्त्रीकटाक्षानुभावि । कर्णौ बाधिर्यपूर्णौ बत निपुणवधूचाटु संश्रुत्य फुल्लौ निर्लज्जो जन्तुरेवं सति वहति रतिं योषिति त्यक्तरत्याम् ॥ ४३ ॥ [^१] यस्य जीवतः पुंसः तत् देहं न उपकृतये, परोपकृतये न भवति, तं पुमांसं धिक् । [^२] जन्तो । [^३] रदाच्छादनम् अधरः । अक्ष्णोरश्रुप्लुतत्वं स्वरविकृतिरतिस्तब्धभावश्च गत्या वैवर्ण्यं गात्रकम्पः प्रलय इति दशा यद्वशेनाभिगम्याः । प्राप्तावज्ञां जरास्त्रीं समधिकवलितां मौलिना तां भजन्तं कान्ता स्वं वीक्ष्य नाथं प्रथममनुरताऽप्यन्तिकं नोपयाति ॥ ४४ ॥ पादौ संस्तम्भयन्ती मुखमपि नमयत्यङ्गमाकुञ्चयन्ती हस्तावुत्कम्पयन्ती प्रणयिजनवचो न श्रुती श्रावयन्ती । रत्यामुद्वेजयन्ती वलिततनुमतो नूतनोढा जरा वा तुल्या पूर्वा तु पुंसस्त्रसति बत परा भीतिहेतुर्नरस्य ॥ ४५ ॥ [^१]बालं कृष्णं प्रसूनार्चितमनवरतं यः पुरासाद्य मूर्ध्ना युक्तः पङ्क्त्या द्विजानां शुचितरवपुषाभीप्सितान्नान्यभुङ्क्त । सोऽयं तन्नो दृशाप्याकलयति बिभृते चापि नैकं द्विजं हा वृद्धत्वे किंतु जन्तु: स्वजठरपिठरं कष्टरूपं बिभर्ति ॥ ४६ ॥ वालैरात्तं सितत्वं निजमिति गलिता लज्जयेव द्विजालिः तस्या दृष्टैव दैन्यं नयनयुगमगादन्धतां खिन्नमन्तः । वार्ती श्रुत्वेति दुःखांकुलमिव बधिरं कर्णयुग्मं च जातं ज्ञात्वापि स्वाप्तङ्क्तेर्विपदमिति कथं जीवितं स्थातुमीष्टे ॥ ४७ ॥ आसीत् पूर्वे सुहृत्ताद्यलस उपचितोऽप्यज्ञ सत्सु द्विजेषु क्षीणत्वे तु द्विजेषु व्यसनिषु पतितेष्वद्य प(य)द्यादरस्ते । किं स्यादस्यां दशायां तव हितमुचितं किंचिदाख्यामि संख्यात् मन्त्रं सप्ताक्षरं त्वं जप सुगमममुं-'पाहि भो मामुमाप' ॥ ४८ ॥ [^१] बालकृष्णं नाम देवं पुष्पैः पूजयित्वा प्रणम्य च । अन्यत्र कृष्णं तद्वर्ण वालं केशभारं प्रसूनालङ्कतं शिरसि लब्ध्वा । द्विजा: दन्ताः, भोजनोपविष्टा ब्राह्मणाश्च । शुचि शुद्धमुज्ज्वलं च । एवं यौवनं वर्णितं भवति । केशा: शेषाहिवर्णा वदनमपि वलीघारि दन्ताः समन्तात् जाता: पाताददृश्या वचनमवशगं हन्त दोषाः सपोषाः । श्रोत्रं गोत्रं[^१] शृणोति स्वमपि न नयनं क्लिन्नमङ्गं सभङ्गं स्वान्तं भ्रान्तं मुहुस्ते स्मरसि न किमु रे मारहन्तुः परं तु ॥ ४९ ॥ आयुर्दायं प्रभावाद्विपुलमथ मितं जन्तुजाताय दद्युः घुस्थानस्था ग्रहा ये विविधगतियुता जीव[^२]मुख्यास्तथापि । वृद्धत्वं प्राप्य तेऽस्तं कतिपयदिवसैरेव यान्तीति बुद्ध्वा वृद्धा भूस्था(त्वा)पि जीवाः स्वहितमहह नो कुर्वते ते(ऽन्तेऽ)न्तिकस्थे[^३] ॥ ५० ॥ [^४]दोषोपद्रुत्यनूनं भवगदमशितुं यस्य केऽप्युद्यता नो वृद्धस्यापथ्यवृत्तेः किमपि न धनिनस्तेन काशीष्ववाप्य । [^५]विश्वेशादेर्गणस्याङ्घ्रिदशकयुगलं स्वौषधं सिद्धबुद्धं सन्मात्रं त्रासहीनं प्रतिदिनमरुणार्काङ्घ्रियोगेन सेव्यम् ॥ ५१ ॥ सत्सङ्गः सर्वकालं सललितवचनं सादरत्वं स्वधर्मे संकष्टे खन्तदाढर्यै सुतयुवतिसुखे स्तोकसंसक्तभावः । संतोष: स्वल्पलाभात्सकलजनहिताशंसिता स्वामिसेवा सामर्थ्ये सौम्यवृत्तिः सदयहृदयता संसृतेः [^६]सादहेतुः ॥ ५२ ॥ [^१] गोत्रं नाम । [^२] जीवो बृहस्पति: । उपरि जीवा : प्राणिनः । [^३] अन्ते मरणे अन्तिकस्थेऽपि । [^४] दोषोपद्रुति-अनूनमिति च्छेदः । यस्य धनिनोऽपि वृद्धस्य गदनाशनाय केsपि नो उद्यता इत्यन्वयः । [^५] 'विश्वेशं माधवं दुपिंढ दण्डपाणिं च भैरवम् । वन्दे काशीं गुहां गङ्गां भवानीं मणिकर्णिकाम् ॥' इति काशीस्थदैवतदशकं विश्वेशादेर्गणस्येत्यनेनोच्यते । दशानां पदयुगलमिति । क्वचित्काशीस्थदैवतदशकस्य निर्देशो मनागन्यथापि दृश्यते । [^६] साद: अवसादः । भीतामेतां कृतान्ता[^१]दवसि (न) जनतामानतां सर्ववेत्तां (त्ता) त्वं चेत्तन्मुञ्च मुञ्च त्रिजगति गदितं नामजातं स्वकीयम् । भूतेशो विश्वनाथस्त्रिपुरहरशरः श्रीमहादेव ईशः स्थाणुर्मृत्योर्विजेता गरभुगथ शिवः शङ्करः शम्भुरेतत् ॥ ५३ ॥ [^२]सोमः कामोऽभिलाषो मम च समतमाश्चित्त(ज)त्वाद्रतेर्वा योग्यत्वात्त्वद्गतत्वाद्वहुतरसुमनःसंमतत्वात्सतोत्थं (समोऽहम्?) । सख्यं द्वेषोऽप्युपेक्षा यदिह भवतु तत्ते महेश प्रभुत्वात् दृग्वैषम्यादपि त्रीक्षण[^३]मपि तु न किं शङ्करः शं करोषि ॥ ५४ ॥ [^४]म्लानेनेत(न)स्य गेहे स्थितमधिकवसोः पर्वकाले मयोच्चै- रभ्यस्तं भ्राम्यता च प्रसरणमहह प्रत्यनन्तं करस्य । दत्तांशेनाऽमराणां भजनमधिकृतं नामतः कर्मतश्च प्राप्तं सोमत्वमित्थं तदपि मदुदयो देव राजाशया न ॥ ५५ ॥ इति प्रथमपञ्चाशिका ॥ [^१] अवसि न, न रक्षसि । आनतां त्वामुद्दिश्य प्रणताम् । त्वं सर्ववेत्ता न रक्षसि चेत् उपरि निर्दिश्यमानं दीनावनार्थकं सर्वं ते नाम मुञ्च । [^२] सोमश्चन्द्रः, ग्रन्थकृञ्च । एतत्त्रयं शिवग्रन्थकृतोस्समतमम् । चित्तजत्वात्, सोमस्य, 'चन्द्रमा मनसो जातः' इति ऋचः । रतेर्वा योग्यत्वादित्ययं काम इत्यनेन अन्वेति । स्वद्गतत्वादिति अमिलाष इत्यमुं परामृशति । शिवविषयकामिलाषस्य भक्तानां सत्त्वात् । ग्रन्थकृद्विषये सोम इति नाम; कामाभिलाषौ च स्वरसतः स्तः । अन्यच्च ग्रन्थकृत् शिवेन स्वसमस्वमाह बहुतर इति । सुमनसो देवाः, पण्डिताश्च । [^३] ईक्षणत्रयवत्तवात् दृष्टिप्रकारत्रयं सख्यं, द्वेषः, उपेक्षा वा भगवत उपपद्यते । [^४] अत्र ग्रन्थकृतः नामतः सोमत्वात्, स्वस्य च चन्द्रस्य च श्लेषद्वारा साम्यं व्यतिरेकश्च वर्ण्येते। म्लानेन, कलाक्षीणेन दुर्गतेन । इनस्य सूर्यस्य प्रभोश्च । अधिकवसोः प्रभूतकिरणस्य तथाविधवित्तस्य च । भ्रान्तिरुभयस्य समाना । करस्य प्रसरणं किरणविस्तार :, याच्जया हस्तप्रसरणं च । अनन्तं प्रति, आकाशे; अन्यत्र अनन्तान् जनान्प्रति । चन्द्रः कलाभिः अमराणां पोषणं करोति, कवि: भक्तस्सन् तत्तत्समर्प्य देवानां भजनं करोति । एतावतापि हे देव ! शम्भो मदुदयो राजाशया न । राजा चन्द्रः प्रभुश्च । गौरीयुक्ताङ्कभागां वलयितभुजगां भूरिभस्माङ्गरागां मौलिव्यालीनगङ्गां श्रिततुहिननगां क्लृप्तकन्दर्पभङ्गाम् । मुण्डोरुस्रग्धरां तां मुनियतिनिरतां वेदबृन्दानुगीतां नौमि ब्रह्माद्या(द्वयां?) तां गगननिवसितां[^१] शंभुमूर्तिं प्रशान्ताम् ॥ ५६ ॥ द्वारे द्वारे परेषां प्रगटगुणगलो[^२] भ्रामितो नामितास्थो वेषाद्यैर्हास्यदोऽहं प्लवग इव युवा दण्डवत्या युवत्या । तत्त्वास्तामस्तशक्तिं सजरसमरसं मां तथा नर्तयन्ती तृष्णे कृष्णानने किं न कलयसि कृपां किंचिदद्याप्यवद्ये ॥ ५७ ॥ नानादानानि मानाग्रसर[^३]मकरवं हेतुहीनानि[^४] नाहं दीनानां चाशनायामशमयमुचितेनान्नपानादिना न । आसन्नानां जनानामभिमतमपि नापूरयं निर्धनाना- मन्नान्येवांघमानामघस[^५]मणुमन[^६] हा धनाढ्योऽप्यनर्थः[^७] ॥ ५८ ॥ श्यामा दृश्यापि रामा यदपि तदपि सा हन्त लाभातिवामा[^८] यामालोक्याभिरामाननुसरति नरो नैव धामादिकामान् । क्षामात्मा हीनघामा क्षणमपि विकलो न त्रियामासु शेते मा मा याहीति गामालपति च वितथं तेन तामाश्रयेन्न ॥ ५९ ॥ [^१] दिगम्बराम् । [^२] याचकत्वात् स्तुतियाच्यादिव्यञ्जककण्ठगुणा:, प्लवगपक्षे कण्ठबद्धरज्जुः । प्रगटः प्रकटः । [^३] मानपूर्वाणि दानानीत्यर्थः । [^४] निर्व्याजानि । [^५] अभक्षयम् । [^६] फल्गुहृदयः । [^७] धनाढ्योऽपि दरिद्र इव । [^७] लाभादनन्तरमत्यन्तं वामतां गता । [^१]आराकाराणुवेणी शिरसि, कृशतरा मध्यमुष्टौ, परत्र स्फाराभ्यन्तःकठोरा बहिरपि मलिना वस्त्रकोशे विलीना । वाग्धारायां सिता या दृशि परिपतिता मोहकारी नराणां [^२]स्मारी नारी कृपाणी यदि लगति गले[^३] जीवहारी परं सा ॥ ६० ॥ [^४]बाला: शीलप्रलोला विहितमदमला हन्त हालाविलासा: कालाद्धातानुकूला:[^५] कथमपि कमला:[^६] स्वादुहालाहलाभाः । खालापा नालमाता(?)[^७] प्रण(णि)हतकुशलाः व्याधजालालिलीला[^८] [^९]व्यालान्यद्वच्छृगाला(:) किमु भजथ बलात्तत्किलामू: कुशीलाः ॥ ६१ ॥ सौधा: [^१°]संपत्त्यगाधाः किल मम बहुधाऽह्लादभाजोऽवरोधाः योधाः क्लृप्तारिरोधाः पृथुरपि वसुधा वाहिनी दुर्निबोधा । भो धात्रीशेत्यसाधारणमदमबुधाधीश चित्तेऽत्र मा धाः वेधाः स्वप्नाभमाधात्त्वयि तदिति मुधा किं विधत्सेऽपराधान् ॥ ६२ ॥ कामान्क्षेमाशयेमान्परिणतिविषमान् हा समाधाय चित्ते क्षामाचारा भ्रमामोऽनुदिवसमधमा नीचधामाजिरेषु । किंतूमाधार चर्माम्बर हर पुरजिन्मारमारेति[^११] शंभो- र्नामालीमालपन्तः क्षणमपि सशमास्तं नमामो न नान्यम्[^१२] ॥ ६३ ॥ [^१] आरम् अयोनिर्मितम् शितम् आयुधं तद्रूपा । शिरसि अन्तिमभागे अणुवेणीरूपा वेणीव अणुप्रमाणतां बिभ्रती । स्त्रीपक्षे च तादृशाकारं वेणीभूतं केशं बिभ्रती । [^२] स्मरसम्बन्धिनी कृपाणी । [^३] यद्यालिङ्गति गले; कृपाणीपक्षेऽपि स्पष्टोऽर्थः । [^४] युवत्यः । [^५] कालेन मारणशीला: । [^६] सशरीरमला: [^७] अशुद्धात्र पङ्क्तिः ; स्वालापानालपन्त्य इति स्यात् । [^८] व्याधविस्तारितजालसमूहसदृशाः [^९] शृगाला यद्वत् स्वनाशाय व्यालान् सर्पान्, व्याघ्रान्, दुष्टगजान् वा भजेयुः, तथा किमु एताः कुशीला भजथ इत्यन्वय: । [^१०] अगाधसम्पत्तिमन्तः । [^११] मारमारक इति । [^१२] नान्यम् यथा तथां, अनन्यत्वेन न नमामः । सारासाराविचाराद् वयमहितपरा हन्त दारान्भजामः [^१]कारागाराणि मारावनिपवशतरास्तज्जजीवानुरागा:[^२] । आरादाराघनीयं न तु मदनरिपुं जन्ममाराम्बुधारा- पारावारावतारानुगुण[^३]मनुचराराम[^४]माराधयामः ॥ ६४ ॥ अङ्गासङ्गादनङ्गाल्पविषयसुखदात्कामिनीनां प्रसङ्गात् [^५]पञ्चाभ्यङ्गांस्तरङ्गानिव पलसमयेनाकलय्याशुस(भ?)ङ्गान् । [^६]गङ्गाभङ्गात्तरङ्गामभयवरकुठारान्तिकोद्यत्कुरङ्गा- मङ्गाव्यङ्गामनङ्गारितनुमनुदिनं चिन्तयाञ्चद्भुजङ्गाम् ॥ ६५ ॥ [^७]पाखण्डाचारिदण्डार्हण उपसरता दानशौण्डान्वितण्डा- वादैरिद्धेन रण्डार्जव(न?)पटुवचसा[^८] हा मयाऽनाय्यनेहा[^९] । ध्याता न विन्दुखण्डाकलितसदलिका मूर्तिरानद्धमुण्डा गण्डालोलाहितुण्डा निजभजनकृते दत्तपण्डा[^१०] प्रचण्डा ॥ ६६ ॥ सारङ्गाक्षीं सहारं रहसि न कलये चारुतारङ्गवर्णो नोदारं सानुकारं ललितमपि भजे गानमिष्टाङ्गहारम्[^११] । [^१] दारा एव कारागाराणि । [^२] तज्जजीवा दारजाः पुत्राः । [^३] जननमरणरूपा अम्बुप्रवाहा: पारावारेऽवतीर्णा इव यस्मिन् विलयमाप्नुवन्ति । [^४] अनुचराणामारामभूतम् । [^५] पञ्चाभ्यङ्गान् पञ्चेन्द्रियविषयलेपान् तरङ्गानिव अल्पकालेन आशुभङ्गान् क्षिप्रनाशिन आकलय्य । [^६] द्वितीयार्धेन अनङ्गारितनोर्वर्णनम् । गङ्गाभङ्गैस्तत्तरङ्गैरात्तः रङ्गः वर्णः शोभा यया ताम् । अथवा गङ्गाभङ्गोत्तरङ्गाम् इति पाठ: स्यात् । [^७] पाखण्डाचारिदण्डाहणे तादृशे दण्डथे जने दानशौण्डान् उपसरता इत्यन्वयः । [^८] रण्डाया: तादृश्या: स्त्रिय: आर्जने पटु वचो यस्य तेन । [^९] अनेहा दिवस: मया अनायि इत्यन्वयः । [^१०] निजभजनकृते जनाय दत्तपुण्या । [^११] अङ्गहार: गात्रविक्षेपरूपं नृत्तमुपलक्षयति । संसारं निर्विचारं प्रशमयितुमहं दुःखभारं ह्यपारं वारंवारं तु सारं जटिलमतिसितं दग्धमारं स्मरामि ॥ ६७ ॥ नाशापाशातु पाशावदपि....(?)कृशा यद्भृशाकृष्यमाणा यातायातानि जाताभ्यधिकविकलताः कुर्वते तावदेते । मायानायादपायादवितजनचया तद्व्ययार्थं मयाऽसौ [^१]तारा ताराद्यताराधिपशकलधरा मूर्तिराराधनीया ॥ ६८ ॥ योषासङ्गाः प्रदोषा इव कृतमनस:[^२] प्रीतिपोषाय नामी कोषाश्चोरोत्थमोषाञ्चिरतरमवतो मे वतृष्णापहन्त(?)[^३] । [^४]कामस्येर्षाहरोषामनुसरणकृत:[^५] क्लृप्तमायाधिशोषा- मीडे तोषाय दोषाकरलसदलिकां व्यक्तिमेकामदोषाम् ।। ६९ ।। पुत्रा मे सच्चरित्राधिकविहितमुद्रः प्रेमपात्राणि मित्रा- ण्यापन्नत्रासगोत्रा[^६] यदपि युवतयः पद्मनेत्रार्थचित्रा:[^७] । कोऽपि त्राता बतात्रास्ति न यमभयतो नन्दिपत्रा[^८] पवित्रा मूर्ति: पित्रा च मात्रा सहगिह तु जयत्यन्तकत्रासिगोत्रा[^९] ॥ ७० ॥ [^१] उच्चता | तारायाः तदाद्यानां नक्षत्राणां चाधिपः चन्द्रः, तच्छुकलधरा ईश्वरमूर्तिः। [^२] कृतधिय: पुरुषस्य। [^३] 'मे न तृष्णापहत्यै' इति शुद्धः पाठः स्यात् । [^४] कामेर्ष्याहारिरोषाम् । [^५] भजनविधायिनः । [^६] आपन्नत्रासं पापाद् भयशील गोत्रं वंशः, तद्भवा युवतयः, शिष्टा इति यावत् । [^७] पद्मनेत्राश्च अर्थचित्राश्चेति योजनीयम् | [^८] नन्दिवाहना | [^९] गौत्रशब्दोऽत्र नामवाची । यन्नामकीर्तनेन अन्तकस्त्रस्तोऽपगच्छति । संपत्ति: कम्पयन्ती तरलमतिचला शम्पया[^१] तुल्यरूपा संपर्क लम्पटोऽस्या इति सति[^२] कुरुषे त्वं परं स्वाहिताय । अङ्कप्राप्तेष्ववङ्क[^३]स्थितिमधिकदयं दत्तसङ्कल्पितार्थ [^४]पध्वान्तांशुमन्तं किमिति न भजसे रङ्क[^५] रे शङ्करं तम् ॥ ७१ ॥ कारावन्ना[^६] कुदारानयमशुचितरानर्पितोद्वेगभारा- नर्थाक्षेपानसारानवनपरनरान्नेत्य(नेत्य?)दैवात्सुसारान्[^७] । आहारान्वा विहारान्परिहरतु वरान् स्वान्ततो यावदारात् मुक्त्यै तु स्मारहारान्[^८] जपतु सुखकरान् नाममन्त्रानुदारान् ॥ ७२ ॥ [^९]अर्वाणः सन्त्यपूर्वा मम बत करिणः शैलतर्वाद्यखर्वा गीर्वाणांश्चानुपर्वासुखयमहमहो श्रीपतिर्वासनाभि:[^१०] । [^११]भगार्वान्मुञ्चेति सर्वानखिलमपि चलं स्वर्णमर्वाद्यतोऽर्वाक् शर्वाणीकान्तमुर्वाश्रयमभयधिया मित्र ! कुर्वात्तभावः ॥ ७३ ॥ किं गर्वी जन्तुरुर्वीस्थपतिरहमिति स्वानुपूर्वीप्रवृत्त्या स्वर्वीथ्यन्तं तु सर्वे परिणतिविरसं[^१२] चेत्तदुर्वीशतेष्टा । अङ्गीकुर्वीत दर्वीकरकरवलयं तर्ह्यखर्वीकृतार्थि स्वान्तान्तर्वीतरागैः सततमधिगतं धाम चार्वीशनाम ॥ ७४ ॥ [^१] विधुता । [^२] एवं सति इत्यर्थ: । [^३] अवङ्का अवक्रा स्थितिः यस्य तम् । [^४] पङ्क: लक्षणया अविद्या । [^५] रङ्क कृपणेति मनुष्य प्रति संबुद्धिः । [^६] कारावत् कारागृहवत् । ना मनुष्यः । कुदारान् कुत्सिता : भार्या:, तान् । [^७] भोजनादिदानेन अवनपरनरान् प्रभून् दैवात् एत्य । सुसारानाहारानित्युपर्यन्वयः । [^८] स्मरहरस्येमान् स्मारहारान् नामरूपान् मन्त्रान् । [^९] अश्वा: । शैल-तरु-आदि इति च्छेदः । देवांश्च अनुपर्व असुखयमतपेयम् । श्रीपतिः तादृशसंपत्तिमानहम् । [^१०] अविद्यावासनामि: गार्वानित्युपरि अन्वयः । [^११] गर्वमयान् सर्वान् । अर्वादि अश्वादिकम् । [^१२] आस्वर्ग सर्वस्य 'क्षीणे पुण्ये' इत्युक्तरीत्या पुनरावृत्तिग्रस्तत्वात् । [^१]आशाशाली न्यपाली(?) विचरसि परितः किं नृपालीरपाली-[^२] [^३]र्भालीया वर्णपाली फलति यदुचितं मन्द[^४] नालीकतात्र[^५] । आलीनो गोमचाली(?)[^६] विमलहृदयखे[^७] चित्प्रभालीढमूर्तिः कालीशाली[^८] कपाली भवतिमिरहतावंशुमाली विधेयः ॥ ७५ ॥ संसारेऽस्मिन्नसारे घनविपिनसमे पन्नगीभूतदारे गर्ताकारोवगारे[^९] किमु रजथ[^१०] वृकप्रायमारे जड़ा रे । दीनान्पान्तं सुशान्तं शिशिरहिमरुचाऽतीव भान्तं न भान्तं[^११] गौरीकान्तं तु कान्तं प्रभजत भजतां वारितान्तं[^१२]नितान्तम् ॥ ७६ ॥ अन्योन्यारब्धवादैरभिलषितधना मान्यमप्यूनयन्तो[^१३] धन्यंमन्या यदान्यान्वशयितुमनसोऽनेहसं हा नयामः । [^१४]वन्यान्नेनाशनायामवनिधरझरेणाप्युदन्यां हरन्तो धन्यास्तेऽनन्यभावा मह उचितहिमान्यद्रिकन्यं मनन्ति[^१५] ॥ ७७ ॥ [^१] आशाशाली सन् । 'न्यपाली'इत्यत्र पङ्क्तिर्न शुद्धा । अपालीशब्दोऽत्र पालकरहित: अनाथ इत्यर्थे स्यात् । [^२] अपाली: नृपाली: दुष्टसखा नृपगोष्ठी: । [^३] भालीया वर्णपाली ललाटे विधिलिखिता रेखा । [^४] हे मन्देति संबुद्धिः । [^५] न अलीकता अत्रेति छेदः । [^६] गोप्रचाली वृषभेन चलनशीलः, अथवा गौत्रचाली पर्वते चलनशील इति वा स्यात् । [^७] विमलहृदयाकाशे । [^८] कालीदेवीसनाथ इत्यर्थ: । [^९] उरु-अगारं गर्तरूपम् यस्मिन् । [^१०] भ्वादिः रन्ज्-धातुरन्त्र ग्राय: । [^११] भाया: प्रकाशस्य अन्तो यस्मिन्नास्ति, तम्; ज्योतिर्मयमित्यर्थ: । [^१२] भजतां वारितान्त: मृत्युनिवारकः, तम् । [^१३] मान्यं मानार्हमपि ऊनयन्तः हीनं कुर्वन्त: । [^१४] वन्यमन्नमभन्तो गिरिनदीजलं पिबन्तश्च । [^१५] उचितहिमान्यद्रिकन्यं पार्वतीसहितं महः तेज: येऽनन्यभावा: मनन्ति आमनन्ति । पीयूषाभं सुशान्तं तुहिनकरकरासङ्गतः शीतलाङ्गं रिङ्गद्गङ्गातरङ्गं हिमगिरितनयालिङ्गितं शङ्करं तम् । सन्तः सञ्चिन्तयन्ते भजनरसमयं शैत्यमन्तर्वहन्तो मोदस्वेदार्द्रदेहाः सपदि भवदवव्याप(प)तापोपशान्त्यै ॥ ७८ ॥ हास: कामानुसारी[^१] गतरसमशनं हास्यसन्दायि वासो [^२]रासोऽप्यात्मावसायी वसतिरशरणा यस्य दासः खपाणि: । आयासोऽन्यानुपोषी[^३] वच उचितरसं दुःखनाशोऽनुशासो[^४] विश्वासः शास्त्रवासी[^५] मम भवतु सता[^६] तेन साकं निवासः ॥ ७९ ॥ दूनानानन्दयन्तो मृदुपदवचनैः सान्द्रमानैश्च दानैः विन्दन्तो मोदमिद्धं परगुणकथने नान्यनिन्दां वदन्तः । भिन्दन्तो नावधिं स्वं न च मदपदतामुद्वहन्तो धनाद्यैः कीर्येन्दुं मन्दयन्तो दममतिदधतः सन्तु सन्तो हृदन्तः ॥ ८० ॥ सन्तो भालेन्दुनामावलिलपनभवाह्लादकल्लोललीनाः सोल्लासं शीलपाला बलिकलिकलुषक्षालिनो लीलयैव । उल्लोलैरप्रचाल्याः सुललितललनालापबालप्रलापैः संपल्लाभेऽप्यलोभाः सकलविकलतोन्मूलिन: शीलनीयाः ॥ ८१ ॥ बोधाधारोऽनधीनो विषयपरिषदः प्रान्तबाधाविधात्र्या:[^७] दीनोद्धारानुबन्धी गुरुविबुधमुदे संविधासंविधायी । अक्रोधोऽन्यापराधश्रुतिविधिविधुरा धीरधीराधिरोधी संघासार्थ(?)व्युपाधि[^८]र्मधुमधुरवचाः साधुराराधनीयः ॥ ८२ ॥ [^१] स्वेच्छयेत्यर्थः । [^२] रसानुभवः । [^३] अन्यानुग्रहार्था प्रवृत्तिरित्यर्थः । [^४] अनुशासनम् । [^५] शास्त्रे श्रद्धा । [^६] गुरुरूपेण साधुना सह । [^७] अवसानविरसाया इत्यर्थः । [^८] विगतोपाधिः । ॥ अथ गुरुः ॥ कायस्थैर्याय चर्यामृतुषु समुचितां हन्त कुर्वन्त्यनार्या : कस्मै कार्याय गिर्यादिवदविचलता देहिनां हा कदर्या[^१] । तार्यस्तर्या ययाऽसावुरुभवजलधिर्भावव(च)र्यानिलात्ये(धै)-[^२] रार्याभार्यात्मकस्य[^३] प्रविदधति गुरोस्तां तदार्याः सपर्याम् ॥ ८३ ॥ वामा: कामादयोऽमी हृदयबिलगता दूरतो यान्ति भीमा मर्माण्याबाधमानाः पृथुमहिमगुरोर्नाममन्त्रोक्तिमात्रात् । आदायायव्ययायाभिरति[^४]मुरुभयामत्मनेऽपायदायी भूयोभूयो जडाये[^५] किमु न भजसि तं निर्भयायाश्रयाय ॥ ८४ ॥ सेवामेवानु देवा ददति बत न वा साधु वा साध्वभीष्टं नैते दावाग्निवाम्यं[^६] भवमुपशमयन्त्यत्र सौवानुभावात्[^७] । कर्णे वाक्यप्रवाची[^८] स तु जयति गुरुः सर्वदेवाभिधान्वा (वान् ?[^९]) दैवावाप्तः सुनिर्वापयति भवदवं यो दयावा:प्रवाहैः ॥ ८५ ॥ ॥ अथ शङ्करः ॥ हेतेभीतेर्भवो[^१०] मे बत गहनतया दाव एवेति मन्ये [^११]कर्मेधैस्त्रिप्रभेदैर्यदयमनुगतोऽनूनजीर्णातिजीर्णैः । [^१] देहिनां गिरिवदचलता कदर्या कष्टा । [^२] भावो भक्तिः, चय चर्यां क्रियायोग:, अनुष्ठानम्; ते एव प्रेरकीभूतः अनिल:; आद्यशब्देन कूपदण्डः, अरित्रमित्यादि तरी-अङ्गानि ग्राह्यानि । [^३] पार्वतीपतिस्वरूपस्य । [^४] आयव्ययाय उरुभयामभिरतिमादाय आत्मनेऽपायदायी स्वमित्यन्वयः । [^५] जड अये इति च्छेदः । [^६] दावाग्नेर्वाम्यं वैपरीत्यं यस्य तं भवम्। [^७] सौवः स्वीयः अनुभावः, तस्मात्। [^८] कर्णे मन्त्रोपदेशकर्ता । [^९] सर्वदेवात्मक इति यावत् । [^१०] भवः संसारः । [^११] कर्मेन्धनैः । नानाकारैरसारैर्विषयतृणचयैश्चान्वितो यत्तदेनं शंभो भो मारदाहिन् पुरमथन गुरो त्वं दहेरग्निमृंर्तिः ॥ ८६ ॥ भ्राम्यन् दीनं रुवन् नृभ्रमर[^१] भववने लेक्षि किं भिक्षयाल्पं [^२]पक्षादक्षो रसं दुर्विषयकुसुमजं कालसंज्ञानिलार्त: । गत्वा त्वानन्दवत्यां(न्यां)[^३] पिब शिवमुकुटाम्भोजजातं प्रभूतं गङ्गाम्भोमध्वरुद्धभ्रमणकृतततक्लन्तिशान्त्येकहेतुम्[^४] ॥ ८७ ॥ योगाद्भोगाच्च जातां क्षणमपि सुखितां यो न यातोऽर्थतातो[^५] माता भ्राताप्ययासीद्यदुरुधनगुणैर्नैव पोषं च तोषम् । सारासारार्थचिन्ताशिथिलितममताकण्ठनाहं[^६] तदाहं मा(या)यां मायान्तकारित्रिपुरहरपुरीं[^७] सत्पुरीणां धुरीणाम् ॥ ८८ ॥ यातस्तातस्त्वकृत्वा मम हितमहितास्तावदेते समस्ताः कामास्तान् कस्त्वदन्योऽस्तमधिगमयितुं वस्तुतः शक्त आस्ते । [^८]दृङ्न्यस्त्या [^९]कामशास्तस्त्वमनुपमदय स्तुत्य पूतप्रशस्ते सच्छास्त्रोपास्तिवस्तू[^१०]पदिश किमपि मन्मस्तकन्यस्तहस्तः ॥ ८९ ॥ [^११]अस्यामानंवदान्या (नन्दवन्या)मतुलफलभरैः सद्द्द्विजालीपरीतैः रम्यायां हर्म्यवृक्षैर्मृदुलसुरनदीस्नातवातानुयातैः । [^१] हे नरभ्रमर इति संबुद्धिः । [^२] पक्षयोरदक्षः । नरपक्षे असमर्थमतावलम्बी। [^३] आनन्दवन्यां काश्याम् । [^४] अरुद्धम् अविरतं भ्रमणं तत्कृता तता बहला क्लान्ति:, तच्छान्त्येकहेतुः, तम् । [^५] अर्थरूपः पिता । [^६] कण्ठनाहः कण्ठपाशः । [^७] काशीम् । [^८] दृङ्-न्यस्त्या दृष्टिन्यासेन । [^९] कामशास्त इत्यारभ्य शिवसम्बोधनानि । [^१०] उपास्तिवस्तु उपासनाविषयम् । [^११] आनन्दवन्यां काश्याम् । फलानि वृक्षजानि, ऐहिकामुष्मिकाणि । द्विजाः पक्षिणी ब्राह्मणाश्च । खेदच्छेदः कदा स्यात्प्रभ[^१] भव भवतोन्नामितावामकर्णी[^२] लम्बस्वापावलम्बात् सततभवपथभ्रान्तितः श्रान्तिभाजः ॥ ९० ॥ शंभो किं मां विभो हा तयितु[^३]मिह न भो भावमालम्बसे त्वं नो याचे भोगिभोगोपमितिसह[^४]महं भोगमत्रेष्टभोगः । नो वा रम्भोरुकुम्भोपमकुचभजनं योगिदम्भोलिपाणे[^५] किं त्वम्भो मुक्तदम्भोऽर्थय उपरतये भो नभोनिम्नगायाः[^६] ॥ ९१ ॥ या गङ्गाऽपास्य गङ्गाधरमुकुटमगाद्गां तदाज्ञाप्रसङ्गात्[^७] कर्तुं जीवाननङ्गान्[^८] रतिगतइयतान्( ? )[^९] दुःखभङ्गानुषङ्गात् । [^१°]अङ्गाभूदै(है)वभङ्गात्यजथ बत वनीवायुसङ्गाद्विहङ्गा (?) यद्वत्किं भक्तिगङ्गा कथमपि सहते बहनङ्गान् रतिर्नः ॥ ९२ ॥ [^११]रङ्कश्चेद्यान्ति शङ्कामिह बहुमृतितस्तैरलं काय एषोऽ- लङ्कार्यो गाङ्गपङ्कादिभिरमृतपुरे[^१२] भीतिरेवं ध्रुवं का । आतङ्कानर्हि(ई)मङ्काधिगतगिरिसुतं यातु तं कालजेतुः भाव[^१३] कालात्कलङ्काविषयमपि नतं बाणलङ्काधिपाद्यै:[^१४] ॥ ९३ ॥ [^१] 'मम' इति अत्र शुद्धः पाठः स्यात् । [^२] भवता शिवेन उन्नामितः अवामो दक्षिणः कर्णः यथा तथा । लम्बो दीर्घ: स्वाप : मरणमित्यर्थः । काश्यां म्रियतो नरस्य दक्षिणकर्णे शिवेन राममन्त्रोपदेशः क्रियते हि । [^३] तय रक्षणे इति धातुः । [^४] सर्पालिङ्गनसदृशम् । [^५] योगीन्द्र इति यावत् । [^६] दिव्यसरित: गङ्गायाः अम्भः अर्थये । [^७] शिवाझाप्रसङ्गात् । [^८] मुक्तान् । अत्र काम इत्यर्थान्तरेग श्लेषः । एवं रतिशब्दें च भक्तिगतोऽनुरागभावः कामपत्नी चेति श्लेष: । [^९] उपरि अशुद्धा मातृका । रतिगतहृदयान् इति स्यात् । [^१०] तृतीयपादोऽशुद्ध:, तुरीयः शुद्धोऽपि दुरन्वयः । [^११] कृपणाः । [^१२] काश्याम् । [^१३] कालात् क्रमेण कालजेतु: भावं शिवस्वरूपं यातु इत्यन्वयः । अन्यत्सर्व शिवस्वरूपविशेषणम्: [^१४] बाणरावणाघैर्नतम्। भुञ्जन्दायं[^१] स कायं भृतजर[^२]मवयन् भाव्यपायं[^३] बतायं तत्रोपायं स्थिरायं[^४] सपदि वितनुतामेतमायंस्तु[^५] काशीम् । [^६]रायं दत्वान्तरायं गिरिशगुणगणं साधु गायन्नमायं पायंपायं द्युनद्याः सलिलमनुसरेतं सदम्बासहायम्[^७] ॥ ९४ ॥ [^८]भूरीभूतार्तिधारी क्षितिभृदनुचरीभावतः पुत्रनारी- पोषायोद्योगकारी गहनगिरिदरीवार्धिवारिप्रचारी । [^९]दूरीकर्तुे शरीरी भ्रममिममुररीकर्तुमन्ते स्मरारी- भावं चार्यानुसारी[^१०] पिबतु शिवपुरीसिन्धु[^११]वारीण्यवैरी[^१२] ॥ ९५ ॥ यातायातानि कामं महति भववने कर्मशक्तैः क्रियन्तां कान्तासन्तानवित्तादितरुफलरसं पातुमापातरम्यम् । किंतूमाकान्तकल्पद्रुममुकुटफलश्च्योतदानन्दवन्यां [^१३]स्थाता पातास्मि दत्तामृतममृतमहं क्लान्तिशान्त्यै नितान्तम् ॥ ९६ ॥ [^१४]शस्तायस्तात्मचिन्ताविरहितमनसस्तामतस्तापजाता- ज्जन्तोस्तावन्निरस्तापरणु[^१५]मजनतस्तारणः स्तावकानाम्[^१६] । [^१] स्वं भागम् । [^२] भृता जरा यस्मिन् तादृशं कायम् । [^३] भाव्यपायम् अवयन् जानन् । [^४] स्थिर: अय: शुभावही विधिः यस्य तम् । अथवा स्थिर: आय: लाभः यस्य तम् । [^५] आयन् तु काशीम् । [^६] अन्तरायभूतं रायं धनं परेभ्यो दत्त्वा । [^७] 'सदम्बा' इत्यत्र 'सदाम्बा' इत्यपि स्यात्पाठः । [^८] बह्वार्तिधरः । क्षितिभृदनुचरीभावः राजसेवा, ततः । [^९] इमं भ्रमं दूरीकर्तुम् । अन्ते शिवभावमुररीकर्तुं च । [^१०] आर्यानुसारी सज्जनानुसारी । [^११] शिवपुरी काशी, तत्रस्था सिन्धुः गङ्गा । [^१२] अवैरी सन्न्यस्तवैरभावस्सन् । [^१३] आनन्दवन्यां काश्यां स्थाता, दत्तामृतम् अमृतत्वदायि । अमृतं जलं गाङ्गं पातास्मि पिबन् अस्मि । [^१४] एतावत्पर्यन्तं काशीस्थगङ्गाविषयकाः श्लोकाः । इतः परं तत्रत्यक्षिवपरा: श्लोका: । शस्तः हिंसित: आयस्तः तादृश: आत्मचिन्ताविरहितमनाश्च तस्य । तापजातात् तापत्रयजातात् तामतः खेदतः । [^१५] अत्र अशुद्धा मातृका । [^१६] स्तावकानां स्तोतॄणां तारणम् । मृत्योः शास्ता समस्तार्थिजनसुरतरूस्तारभा:(क्) तारकारे:[^१] स्तावन्ते (वान्ते)[^२]मे पुरस्ताच्छिवपुरि वसतस्तारकाख्यातये स्तात् ॥ ९७ ॥ लोभात्त्वां वासयित्वा स्ववदनसदने [^३]गीर्मयापा(या)सितासि त्वं नित्यं [^४]चित्तबन्धोचितविविधगुणान् गुम्फयित्वा भवत्या । नृभ्यो विक्रेतुमिष्टान् [^५]कदुदरभृतये प्लान(?)[^६] तन्मे शयाना जिह्वामञ्चे विमुञ्च श्रममसममुमाखामिनामोपधाना[^७] ॥ ९८ ॥ [^८]गौरीकान्तार्थिपालिन् भव गर(ल)गरलिन् भर्ग हेरम्बबालिन् शंभो भालाग्निशालिन् मृड मृतिकबलिन् कृत्तिवासः कपालिन् । शूलिन् घोसिन्धुधारिन् गिरिश हतकरिन् उम्र सर्गापहारिन् भीम प्रेतानुसारिन् शिव वसतिहरिन् मारजिद्भूतिभारिन् ॥ ९९ ॥ [^९]शर्व प्रोद्यत्कुमार प्रहतमख हर व्योमकेशाहिहार स्थाणो वेदान्तसार त्रिपुरजिंदपर श्रीकपर्दिन्नपार । [^१] तारकारे: स्वपुत्रात् स्कन्दात् तारभाक् प्रणवार्थोपदेशभाक् । [^२] स्तावान्ते अस्य स्तोत्रस्य अवसाने तारकाख्यातये तारकमन्त्रोपदेशाय । काश्तामन्त्यकाले सर्वस्यापि जन्तोः कर्णे शिवस्तारकमन्त्रमुपदिशतीप्र प्रसिद्धिः । [^३] हे गी: वाणि ! [^४] चित्तबन्धोचितान् नरस्तुतिरूपान् नृभ्यो विक्रेतुमिष्टान् विविधगुणान् भवत्या गुम्फयित्वा । [^५] कदुदरभृतये कुत्सितजठरपोषणाय । [^६] अत्राशुद्धा मातृका । [^७] उमानाथनामैव उपधानं कृत्वा जिह्वामञ्चे शयाना असमं श्रमं विमुञ्च । [^८] अत आरभ्य पञ्च श्लोकाः शिवसम्बोधनपराः, यत्र अष्टोत्तरशतं शिवनामानि दत्तानि । अर्थिपालक । हेरम्बरूपो बालो यस्य। मृतिकबलिन् अन्तकान्तक । इतकरिन् गजान्तक । सर्गापहारिन् संहारमूर्ते। वसतिः वास: हरितः दिश एव यस्य । अथवा 'वसनहरित्' इति पाठः, दिगम्बर इत्यर्थ: । [^९] अत्रापि तथैव । प्रोद्यत्कुमार कुमारजनक । प्रहतमख मखध्वंसिन् । अपर पररहित । [^१]आत्मारामाविकारेश्वर जननहरेशान्त(त्त)लीलावतारे- शाण(न) प्रौढाङ्गहारेडित दयितगिरेऽर्धाङ्गदारान्धकारे ॥ १०० ॥ विश्वादे विष्णुबाण[^२] त्रिगुण गतगुण[^३] श्रीदमित्र[^४] प्रमाण- व्यापिन् [^५]नन्दिप्रयाण क्षितिरथ शरण त्र्यक्ष गायत्पुराण । मल्लारेऽन्यानधीन [^६]द्रुहिणकहृतिकृत्स्थूलविश्वात्मलीन श्रीकण्ठाद्यन्तहीन प्रणवसुवदन प्रेष्ठ दीनप्ररेक[^७] ॥ १०१ ॥ सर्वज्ञ ख्यातदानोच्चपद मृदुमनो भैरवाध्यस्तसानो[^८] भाखन्हस्तत्तजानो भव धवलतनो शङ्कराक्षीन्दुभानो । ज्ञानाब्धे हृद्यगीते वरद गणपते विश्वनाथास्तभीते भूतेशालोकरीते मुनिमत सुगते रुद्र नागोपवीते ॥ १०२ ॥ [^९]नीलारक्ताग्निरेतोऽजगवभृदजितोदारलीलोक्षकेतो गुर्वात्मन् धर्मसेतो पशुप चितिरतोपात्तसोमात्महेतो । [^१] अविकार; ईश्वर; जननहर; ईश; आत्तलीलावतार; ईशान; प्रौढ: अङ्गहारः तदाख्यं नृत्तकर्म यस्य सः ; ईडित; गिरिप्रिय; अर्धाङ्गकृतदार । [^२] त्रिपुरवधसमये सायकीकृतविष्णो; [^३] गुणत्रयमय; निर्गुण; [^४] कुबेरसख । [^५] प्रमाणभूत; अथवा प्रमाणव्यापिन् आगमादिप्रमाणानि व्याप्य तिष्ठन् । ५. नन्दिवाहन । क्षिति: त्रिपुरवधसमये रथो यस्य । गायन्ति पुराणानि यस्य सः ; पुराणस्तूयमानमहिमन्नित्यर्थ: । [^६] द्रुहिणस्य ब्रह्मणः कं शिरः तस्य हृतिकृत् अपहारक। [^७] दीनवदान्य; प्ररेक: दानशीलवाचको वैदिकः शब्दः । [^८] अध्यस्तसानो कैलाससानुवासिन् । हस्तात्तजानो इति आसनविशेषं निर्दिशति । हृद्यगीते इति शिक्ख गानागममूलत्वं सूचितम् । अलोकरीते लोकातीतस्वभाव । नागयज्ञोपवीतधारिन् । [^९] नीलारक्त नीललोहित; अग्निरेत: ; अजगवं शिवधनुः, तद्विभर्तीति; उक्षकेतो वृषध्वज; पशुप पशुपते ; चितिरिति श्मशानमुपलक्षयति, तन्त्र रत; उपात्तसोम; आत्महेतो स्वयंभो । एवं संबोधनीयाष्टसहितशतया[^१] नामपङ्क्तचाच्छकाया दुर्वारस्फारमायाश्रमहरणधिया [^२]व्यक्तिरेषाऽनपाया ॥ १०३ ॥ [^३]गोपोदारप्रचारे ललिततरतनौ प्राप्तभामे कदाचित् भिन्दाने नागदेहं विषमविषसखे भूतिपात्रेऽतिमात्रम् । अब्जेन भ्राजमाने सततधृतशिवे चित्तजन्मान्तहेतौ चेतः सर्वे विमुच्यानुरज समतया त्वं मुरारौ पुरौवा (पुरारौ ) ॥१०४ ॥ क्षीराब्ध्यम्भोविहारप्रिय निगमचर प्रस्फुरच्छङ्खमार[^४] श्रीकूर्मागाधसार स्थिरघरणिधर स्वाश्रयाकृत्युदार[^५] । [^६]पोत्रिन् दंष्ट्राकरालोद्धृतधर सबलोद्वेलसिन्धो दयालो [^७]पुंसिंह प्रेष्ठबालोत्कटसट घवलोद्भिन्नदैत्याशयालो ॥ १०५ ॥ [^८]बल्यर्थिन् छद्मभारिन् द्विज पदजसरिन्नाकिपोच्चत्वधारिन् [^९]वीर क्षत्रान्तकारिन् भृगुसुत समरिन् मातृभेदिन् कुठारिन् । [^१] अष्टसहितशतया अष्टोत्तरशतसंख्यया । [^२] व्यक्तिरेषा, शिवस्येति शेषः । [^३] अत्रत्यानि पदानि श्लेषेण मुरारिपुरार्युभयपराणि । गोपो गवांपतिर्वृषभः, तेन यानभूतेन उदारप्रचार इति पुरारिपरमिदम् । मुरारिपक्षे गोपा व्रजवासिनः । प्राप्तो भामः कोपः येनेति रुद्रपक्षे ; कृष्णपक्षे प्राप्तसत्यभाम इति । नागदेहं मिन्दान इति उभयत्र हस्तिनाशकत्वं समम् । विषसखत्वं नीलकण्ठे तत्पायित्वात् । विषमविषे आदिशेषे इति शेषशायिनि, तत्सखत्वम् । भूतिर्भस्म, समृद्धिश्च । अब्जः सोमः, अब्जं कौस्तुभाख्यमपां रत्नम् । सततं धृता शिवा अङ्गे येनेति अर्धनारीश्वरपक्षे । विष्णो: शिरसि शिवलिङ्गधारणं पाण्डुरङ्गक्षेत्रे प्रसिद्धम् । चित्तजन्मन: अन्तहेतुरिति मदनान्तकपक्षे; चित्तस्य जन्मनश्च अन्तहेतुरिति मोक्षदायिनि विष्णौ । अनुरज इत्यत्र भ्वादिर्घातुः । [^४] शङ्खासुरमारक । [^५] स्वाश्रय स्वप्रतिष्ठ। आकृत्युदार इतिच्छेदः । [^६] वराह। उद्धृता धरा येन । तुतीयपादे सर्व वराहावतारविशेषणतया नेयम् । [^७] अस्मिन् पादे सर्व नृसिंहावतारपरतया ग्राह्यम् । प्रेष्ठबालेत्यत्र बाल: प्रह्लादः । मित्रं दैत्यस्य हिरण्यकशिपोराशय एवालु हृदयमेव कन्दं येन । [^८] वामनत्रिविक्रमावतारपराण्यत्र सम्बोधनानि । नाकिप देवनायक। उच्चत्वधारिन् त्रिविक्रम । [^९] सर्वमत्र परशुरामपरम् । [^१]सीतेशाभ्राभिराम श्रितवन [^२]सशमन्नातताता(त्रात आत्ता ?)र्थिकाम [^३]च्छन्नाब्धे वालिवान(?)श्रितभृतहनुमन् ग्रस्तलङ्केश राम ॥ १०६ ॥ [^४]आपाण्डो कामपाल प्रधृतहल बल श्यामवासो विशाल [^५]श्रीबुद्ध श्रुत्यपाल प्रदय दशबल म्लेच्छभित् कल्किता(का?)ल‍[^६] । [^७]कृष्णाभीरच्छचेतः सुरभिप ललित श्याम गोपीसमेत [^८]व्यालारे कंसजेतर्नर मदनपितर्वासुदेव प्रणेतः ॥ १०७ ॥ [^९]पद्मिन् राजत्कृपाणेतगद धृतमणे कम्बुभृच्चक्रपाणे सूर्यात्मन् देव बाणेज्यतम इभशृणे श्रीपते शार्ङ्गपाणे । विष्णो पक्षीन्द्रकेतोऽच्युत गजप हितोदात्त लोकेश हेतो पीतक्षौमानिकेतोदरजगदभि(मि?)तोदस्तभीर्लोकसेतो ॥ १०८ ॥ वैकुण्ठाम्भोधिशायिन् विधिप मधुजयिन् पुण्डरीकाक्ष मायिन् चिन्मूर्ते वित्तदायिन्नविषम विषयिन् यज्ञभूः सोमपायिन् । भूयः शान्त्यै विशोकाष्टसहितशतकाख्याभिरालीनलोका संबोध्यैवं [^१०]हृदोका विदलितकलिका मूर्तिरध्यस्तगोका ॥ १०९ ॥ [^१] रामावतारवर्णनम् । [^२] अशुद्धा मातृका । शमिनां त्रातृत्वं अर्थिकामपूरकत्वं च विवक्षितम् । [^३] छन्नाब्धे सेतुबन्धनेनेत्यर्थ: । उपरि वालिहन् आश्रित इति स्यात् । [^४] बलरामस्य वर्णनमत्र । [^५] श्रीबुद्ध श्रुतेरपाल अपालक । [^६] म्लेच्छेत्यारभ्य कल्की प्रस्तूयते । कल्किन: पापिन: कलियुगीयाः तेषां काल:। [^७] कृष्णावतारोऽत्र । कृष्ण अभी: अच्छचेतः इति पदच्छेदः । [^८] व्यालारे कालियसर्पदमन । प्रकृष्टनेतः । अतः परं सामान्येन विष्णुः सम्बोध्यते । [^९] पद्मिन् पद्मनाभ । इता प्राप्ता गदायेन । देवबाण त्रिपुरवघे महादेवस्थ बाणभूत । इज्यतम । इभश्रृणे हस्तिशिक्षक। गजप गजेन्द्ररक्षक ] अथवा गजपहित गजेन्द्रानुकूल । हेतो सर्वस्येति शेष: । पीतक्षौम, अनिकेत, उदरजगत् । [^१०] हृन्निवासा । कलिका, गोका, इत्युभयत्र कलिः, गौः इति शब्दयो: स्वार्थे कप्रत्ययः । ज्ञातुर्दातुर्दयालोः सकलकलकुलालंकृतेर्मुद्गलाद् यः प्राभूज्झापाम्बिकायां सुललितयमलग्रामधामा स सोमः । वैराग्यं प्राप्तुकामः स्वमृदुमतिलताजातया जाड्यचुञ्चु: पञ्चाशत्पद्यपुष्पा (ष्प्या) [^१]द्विरकृत गिरिजाजानिपादाब्जपूजाम् ॥ ११० ॥ [^२]मेनामादी मुरारे रणकृदमिततां सङ्गतो युक्तरामो भीरेप्रीतीभ(?)[^३]मेयामितिविभवकरोऽतीव सौख्यं प्रपन्नः । [^४]भीमोरुर्मारमारो बहुमुख(ध)रताविश्रुतो दामिताहिः शंभुर्भाग्याय भूयाद् हरिरिव भजतामत्र सोमस्य पद्ये ॥ १११ ॥ इति श्रीसकलकलोपनामककविवरसोमनाथविरचितं शतकं समाप्तम् ॥ [^१] द्वि: अकृत । पद्यशतकेनेत्यर्थः । [^२] अस्मिन्नन्त्ये पद्ये शम्भुहर्योस्समानि विशेषणानि । मेना श्वश्रू: तया माघति पुत्रीतोरिति शिवपक्षे । माया: लक्ष्म्या इनः पतिः, स चासौ अमादी मदरहितश्चेति विष्णुपक्षे । मुरारें रणकृद् विष्ण्वादिदेवकार्यार्थे त्रिपुराचसुरै रणकृत् इति शिवपक्षे । मुररूपस्य अरे: रणकृदिति विष्णुपक्षे । युक्तराम: बलरामसहित:; शिवपक्षे युक्ता रामा अर्धाङ्गे पत्नी यस्य सः । [^३] अशुद्धा मातृका । [^४] भीमश्वासावुरुश्च । भारमारः मन्मथमन्मथ: सौन्दर्ये; इदं कृष्णपक्षे । अन्यन्त्र मारस्य मारकः । एकस्य सहस्रशीर्षप्रसिद्धया, अन्यस्य पञ्चवक्त्रत्वाच्चोभयत्र बहुमुखधरताप्रसिद्धिः समाना । दामित: शामित: अहि: कालिय: येन । अन्यत्र दामित: मालीकृत: अहि: येन । भजतां भाग्याय भूयात् ।