This page has been fully proofread once and needs a second look.

<page>
<verse n="110">
ज्ञातुर्दातुर्दयालोः सकलकलकुलालंकृतेर्मुद्गलाद् यः

प्राभूज्झापाम्बिकायां सुललितयमलग्रामधामा स सोमः ।

वैराग्यं प्राप्तुकामः स्वमृदुमतिलताजातया जाड्यचुञ्चु:

पञ्चाशत्पद्यपुष्पा (ष्प्या) [^१]द्विरकृत गिरिजाजानिपादाब्जपूजाम् ॥ ११० ॥
 
</verse>
<verse n="111">
[^२]मेनामादी मुरारे रणकृदमिततां सङ्गतो युक्तरामो

भीरेप्रीतीभ(?)[^३]मेयामितिविभवकरोऽतीव सौख्यं प्रपन्नः ।

[^४]भीमोरुर्मारमारो बहुमुख(ध)रताविश्रुतो दामिताहिः

शंभुर्भाग्याय भूयाद् हरिरिव भजतामत्र सोमस्य पद्ये ॥ १११ ॥
 
</verse>
<trailer>
इति श्रीसकलकलोपनामककविवरसोमनाथविरचितं

शतकं समाप्तम् ॥
 
[^
</trailer>
<footnote mark="
] ">द्वि: अकृत । पद्यशतकेनेत्यर्थः ।
 
[^
</footnote>
<footnote mark="
] ">अस्मिन्नन्त्ये पद्ये शम्भुहर्योस्समानि विशेषणानि । मेना श्वश्रू: तया माघति पुत्रीतोरिति शिवपक्षे । माया: लक्ष्म्या इनः पतिः, स चासौ अमादी मदरहितश्चेति विष्णुपक्षे । मुरारें रणकृद् विष्ण्वादिदेवकार्यार्थे त्रिपुराचसुरै रणकृत् इति शिवपक्षे । मुररूपस्य अरे: रणकृदिति विष्णुपक्षे । युक्तराम: बलरामसहित:; शिवपक्षे युक्ता रामा अर्धाङ्गे पत्नी यस्य सः ।
 
[^
</footnote>
<footnote mark="
] ">अशुद्धा मातृका ।
 
[^
</footnote>
<footnote mark="
] ">भीमश्वासावुरुश्च । भारमारः मन्मथमन्मथ: सौन्दर्ये; इदं कृष्णपक्षे । अन्यन्त्र मारस्य मारकः । एकस्य सहस्रशीर्षप्रसिद्धया, अन्यस्य पञ्चवक्त्रत्वाच्चोभयत्र बहुमुखधरताप्रसिद्धिः समाना । दामित: शामित: अहि: कालिय: येन । अन्यत्र दामित: मालीकृत: अहि: येन । भजतां भाग्याय भूयात् ।</footnote>
</page>