This page has been fully proofread once and needs a second look.

<page>
<verse text="A" n="94">भुञ्जन्दायं[^१] स कायं भृतजर[^२]मवयन् भाव्यपायं[^३] बतायं
तत्रोपायं स्थिरायं[^४] सपदि वितनुतामेतमायंस्तु[^५] काशीम् ।
[^६]रायं दत्वान्तरायं गिरिशगुणगणं साधु गायन्नमायं
पायंपायं द्युनद्याः सलिलमनुसरेतं सदम्बासहायम्[^७] ॥ ९४ ॥</verse>
<verse text="A" n="95">[^८]भूरीभूतार्तिधारी क्षितिभृदनुचरीभावतः पुत्रनारी-
पोषायोद्योगकारी गहनगिरिदरीवार्धिवारिप्रचारी ।
[^९]दूरीकर्तुे शरीरी भ्रममिममुररीकर्तुमन्ते स्मरारी-
भावं चार्यानुसारी[^१०] पिबतु शिवपुरीसिन्धु[^११]वारीण्यवैरी[^१२] ॥ ९५ ॥</verse>
<verse text="A" n="96">यातायातानि कामं महति भववने कर्मशक्तैः क्रियन्तां
कान्तासन्तानवित्तादितरुफलरसं पातुमापातरम्यम् ।
किंतूमाकान्तकल्पद्रुममुकुटफलश्च्योतदानन्दवन्यां
[^१३]स्थाता पातास्मि दत्तामृतममृतमहं क्लान्तिशान्त्यै नितान्तम् ॥ ९६ ॥</verse>
<verse text="A" n="97" merge-text="true">[^१४]शस्तायस्तात्मचिन्ताविरहितमनसस्तामतस्तापजाता-
ज्जन्तोस्तावन्निरस्तापरणु[^१५]मजनतस्तारणः स्तावकानाम्[^१६] ।</verse>
<footnote text="A" mark="१">स्वं भागम् ।</footnote>
<footnote text="A" mark="२">भृता जरा यस्मिन् तादृशं कायम् ।</footnote>
<footnote text="A" mark="३">भाव्यपायम् अवयन् जानन् ।</footnote>
<footnote text="A" mark="४">स्थिर: अय: शुभावही विधिः यस्य तम् । अथवा स्थिर: आय: लाभः यस्य तम् ।</footnote>
<footnote text="A" mark="५">आयन् तु काशीम् ।</footnote>
<footnote text="A" mark="६">अन्तरायभूतं रायं धनं परेभ्यो दत्त्वा ।</footnote>
<footnote text="A" mark="७">'सदम्बा' इत्यत्र 'सदाम्बा' इत्यपि स्यात्पाठः ।</footnote>
<footnote text="A" mark="८">बह्वार्तिधरः । क्षितिभृदनुचरीभावः राजसेवा, ततः ।</footnote>
<footnote text="A" mark="९">इमं भ्रमं दूरीकर्तुम् । अन्ते शिवभावमुररीकर्तुं च ।</footnote>
<footnote text="A" mark="१०">आर्यानुसारी सज्जनानुसारी ।</footnote>
<footnote text="A" mark="११">शिवपुरी काशी, तत्रस्था सिन्धुः गङ्गा ।</footnote>
<footnote text="A" mark="१२">अवैरी सन्न्यस्तवैरभावस्सन् ।</footnote>
<footnote text="A" mark="१३">आनन्दवन्यां काश्यां स्थाता, दत्तामृतम् अमृतत्वदायि । अमृतं जलं गाङ्गं पातास्मि पिबन् अस्मि ।</footnote>
<footnote text="A" mark="१४">एतावत्पर्यन्तं काशीस्थगङ्गाविषयकाः श्लोकाः । इतः परं तत्रत्यक्षिवपरा: श्लोका: । शस्तः हिंसित: आयस्तः तादृश: आत्मचिन्ताविरहितमनाश्च तस्य । तापजातात् तापत्रयजातात् तामतः खेदतः ।</footnote>
<footnote text="A" mark="१५">अत्र अशुद्धा मातृका ।</footnote>
<footnote text="A" mark="१६">स्तावकानां स्तोतॄणां तारणम् ।</footnote>
</page>