सोमनाथशतकम् /36
This page has been fully proofread once and needs a second look.
<page>
<verse n="94">भुञ्जन्दायं[^१] स कायं भृतजर[^२]मवयन् भाव्यपायं[^३] बतायं
तत्रोपायं स्थिरायं[^४] सपदि वितनुतामेतमायंस्तु[^५] काशीम् ।
[^६]रायं दत्वान्तरायं गिरिशगुणगणं साधु गायन्नमायं
पायंपायं द्युनद्याः सलिलमनुसरेतं सदम्बासहायम्[^७] ॥ ९४ ॥
</verse>
<verse n="95">[^८]भूरीभूतार्तिधारी क्षितिभृदनुचरीभावतः पुत्रनारी-
पोषायोद्योगकारी गहनगिरिदरीवार्धिवारिप्रचारी ।
[^९]दूरीकर्तुे शरीरी भ्रममिममुररीकर्तुमन्ते स्मरारी-
भावं चार्यानुसारी[^१०] पिबतु शिवपुरीसिन्धु[^११]वारीण्यवैरी[^१२] ॥ ९५ ॥
</verse>
<verse n="96">यातायातानि कामं महति भववने कर्मशक्तैः क्रियन्तां
कान्तासन्तानवित्तादितरुफलरसं पातुमापातरम्यम् ।
किंतूमाकान्तकल्पद्रुममुकुटफलश्च्योतदानन्दवन्यां
[^१३]स्थाता पातास्मि दत्तामृतममृतमहं क्लान्तिशान्त्यै नितान्तम् ॥ ९६ ॥
</verse>
<verse n="97" merge-text="true">[^१४]शस्तायस्तात्मचिन्ताविरहितमनसस्तामतस्तापजाता-
ज्जन्तोस्तावन्निरस्तापरणु[^१५]मजनतस्तारणः स्तावकानाम्[^१६] ।
[^१]</verse>
<footnote mark="१">स्वं भागम् ।
[^</footnote>
<footnote mark="२] ">भृता जरा यस्मिन् तादृशं कायम् ।
[^</footnote>
<footnote mark="३] ">भाव्यपायम् अवयन् जानन् ।
[^</footnote>
<footnote mark="४] ">स्थिर: अय: शुभावही विधिः यस्य तम् । अथवा स्थिर: आय: लाभः यस्य तम् ।
[^</footnote>
<footnote mark="५] ">आयन् तु काशीम् ।
[^</footnote>
<footnote mark="६] ">अन्तरायभूतं रायं धनं परेभ्यो दत्त्वा ।
[^</footnote>
<footnote mark="७] ">'सदम्बा' इत्यत्र 'सदाम्बा' इत्यपि स्यात्पाठः ।
[^</footnote>
<footnote mark="८] ">बह्वार्तिधरः । क्षितिभृदनुचरीभावः राजसेवा, ततः ।
[^</footnote>
<footnote mark="९] ">इमं भ्रमं दूरीकर्तुम् । अन्ते शिवभावमुररीकर्तुं च ।
[^</footnote>
<footnote mark="१०] ">आर्यानुसारी सज्जनानुसारी ।
[^११]</footnote>
<footnote mark="११">शिवपुरी काशी, तत्रस्था सिन्धुः गङ्गा ।
[^</footnote>
<footnote mark="१२] ">अवैरी सन्न्यस्तवैरभावस्सन् ।
[^</footnote>
<footnote mark="१३] ">आनन्दवन्यां काश्यां स्थाता, दत्तामृतम् अमृतत्वदायि । अमृतं जलं गाङ्गं पातास्मि पिबन् अस्मि ।
[^</footnote>
<footnote mark="१४] ">एतावत्पर्यन्तं काशीस्थगङ्गाविषयकाः श्लोकाः । इतः परं तत्रत्यक्षिवपरा: श्लोका: । शस्तः हिंसित: आयस्तः तादृश: आत्मचिन्ताविरहितमनाश्च तस्य । तापजातात् तापत्रयजातात् तामतः खेदतः ।
[^</footnote>
<footnote mark="१५] ">अत्र अशुद्धा मातृका ।
[^</footnote>
<footnote mark="१६] ">स्तावकानां स्तोतॄणां तारणम् ।</footnote>
</page>
<verse n="94">भुञ्जन्दायं[^१] स कायं भृतजर[^२]मवयन् भाव्यपायं[^३] बतायं
तत्रोपायं स्थिरायं[^४] सपदि वितनुतामेतमायंस्तु[^५] काशीम् ।
[^६]रायं दत्वान्तरायं गिरिशगुणगणं साधु गायन्नमायं
पायंपायं द्युनद्याः सलिलमनुसरेतं सदम्बासहायम्[^७] ॥ ९४ ॥
<verse n="95">[^८]भूरीभूतार्तिधारी क्षितिभृदनुचरीभावतः पुत्रनारी-
पोषायोद्योगकारी गहनगिरिदरीवार्धिवारिप्रचारी ।
[^९]दूरीकर्तुे शरीरी भ्रममिममुररीकर्तुमन्ते स्मरारी-
भावं चार्यानुसारी[^१०] पिबतु शिवपुरीसिन्धु[^११]वारीण्यवैरी[^१२] ॥ ९५ ॥
<verse n="96">यातायातानि कामं महति भववने कर्मशक्तैः क्रियन्तां
कान्तासन्तानवित्तादितरुफलरसं पातुमापातरम्यम् ।
किंतूमाकान्तकल्पद्रुममुकुटफलश्च्योतदानन्दवन्यां
[^१३]स्थाता पातास्मि दत्तामृतममृतमहं क्लान्तिशान्त्यै नितान्तम् ॥ ९६ ॥
<verse n="97" merge-text="true">[^१४]शस्तायस्तात्मचिन्ताविरहितमनसस्तामतस्तापजाता-
ज्जन्तोस्तावन्निरस्तापरणु[^१५]मजनतस्तारणः स्तावकानाम्[^१६] ।
[^१]
<footnote mark="१">स्वं भागम् ।
[^
<footnote mark="२
[^
<footnote mark="३
[^
<footnote mark="४
[^
<footnote mark="५
[^
<footnote mark="६
[^
<footnote mark="७
[^
<footnote mark="८
[^
<footnote mark="९
[^
<footnote mark="१०
[^११]
<footnote mark="११">शिवपुरी काशी, तत्रस्था सिन्धुः गङ्गा ।
[^
<footnote mark="१२
[^
<footnote mark="१३
[^
<footnote mark="१४
[^
<footnote mark="१५
[^
<footnote mark="१६
</page>