This page has been fully proofread once and needs a second look.

<page>
<verse text="A" n="90">खेदच्छेदः कदा स्यात्प्रभ[^१] भव भवतोन्नामितावामकर्णी[^२]
लम्बस्वापावलम्बात् सततभवपथभ्रान्तितः श्रान्तिभाजः ॥ ९० ॥</verse>
<verse text="A" n="91">शंभो किं मां विभो हा तयितु[^३]मिह न भो भावमालम्बसे त्वं
नो याचे भोगिभोगोपमितिसह[^४]महं भोगमत्रेष्टभोगः ।
नो वा रम्भोरुकुम्भोपमकुचभजनं योगिदम्भोलिपाणे[^५]
किं त्वम्भो मुक्तदम्भोऽर्थय उपरतये भो नभोनिम्नगायाः[^६] ॥ ९१ ॥</verse>
<verse text="A" n="92">या गङ्गाऽपास्य गङ्गाधरमुकुटमगाद्गां तदाज्ञाप्रसङ्गात्[^७]
कर्तुं जीवाननङ्गान्[^८] रतिगतइयतान्( ? )[^९] दुःखभङ्गानुषङ्गात् ।
[^१°]अङ्गाभूदै(है)वभङ्गात्यजथ बत वनीवायुसङ्गाद्विहङ्गा (?)
यद्वत्किं भक्तिगङ्गा कथमपि सहते बहनङ्गान् रतिर्नः ॥ ९२ ॥</verse>
<verse text="A" n="93">[^११]रङ्कश्चेद्यान्ति शङ्कामिह बहुमृतितस्तैरलं काय एषोऽ-
लङ्कार्यो गाङ्गपङ्कादिभिरमृतपुरे[^१२] भीतिरेवं ध्रुवं का ।
आतङ्कानर्हि(ई)मङ्काधिगतगिरिसुतं यातु तं कालजेतुः
भाव[^१३] कालात्कलङ्काविषयमपि नतं बाणलङ्काधिपाद्यै:[^१४] ॥ ९३ ॥</verse>
<footnote text="A" mark="१">'मम' इति अत्र शुद्धः पाठः स्यात् ।</footnote>
<footnote text="A" mark="२">भवता शिवेन उन्नामितः अवामो दक्षिणः कर्णः यथा तथा । लम्बो दीर्घ: स्वाप : मरणमित्यर्थः । काश्यां म्रियतो नरस्य दक्षिणकर्णे शिवेन राममन्त्रोपदेशः क्रियते हि ।</footnote>
<footnote text="A" mark="३">तय रक्षणे इति धातुः ।</footnote>
<footnote text="A" mark="४">सर्पालिङ्गनसदृशम् ।</footnote>
<footnote text="A" mark="५">योगीन्द्र इति यावत् ।</footnote>
<footnote text="A" mark="६">दिव्यसरित: गङ्गायाः अम्भः अर्थये ।</footnote>
<footnote text="A" mark="७">शिवाझाप्रसङ्गात् ।</footnote>
<footnote text="A" mark="८">मुक्तान् । अत्र काम इत्यर्थान्तरेग श्लेषः । एवं रतिशब्दें च भक्तिगतोऽनुरागभावः कामपत्नी चेति श्लेष: ।</footnote>
<footnote text="A" mark="९">उपरि अशुद्धा मातृका । रतिगतहृदयान् इति स्यात् ।</footnote>
<footnote text="A" mark="१०">तृतीयपादोऽशुद्ध:, तुरीयः शुद्धोऽपि दुरन्वयः ।</footnote>
<footnote text="A" mark="११">कृपणाः ।</footnote>
<footnote text="A" mark="१२">काश्याम् ।</footnote>
<footnote text="A" mark="१३">कालात् क्रमेण कालजेतु: भावं शिवस्वरूपं यातु इत्यन्वयः । अन्यत्सर्व शिवस्वरूपविशेषणम्:</footnote>
<footnote text="A" mark="१४">बाणरावणाघैर्नतम्।</footnote>
</page>