सोमनाथशतकम् /35
This page has been fully proofread once and needs a second look.
<page>
<verse n="90">खेदच्छेदः कदा स्यात्प्रभ[^१] भव भवतोन्नामितावामकर्णी[^२]
लम्बस्वापावलम्बात् सततभवपथभ्रान्तितः श्रान्तिभाजः ॥ ९० ॥
</verse>
<verse n="91">शंभो किं मां विभो हा तयितु[^३]मिह न भो भावमालम्बसे त्वं
नो याचे भोगिभोगोपमितिसह[^४]महं भोगमत्रेष्टभोगः ।
नो वा रम्भोरुकुम्भोपमकुचभजनं योगिदम्भोलिपाणे[^५]
किं त्वम्भो मुक्तदम्भोऽर्थय उपरतये भो नभोनिम्नगायाः[^६] ॥ ९१ ॥
</verse>
<verse n="92">या गङ्गाऽपास्य गङ्गाधरमुकुटमगाद्गां तदाज्ञाप्रसङ्गात्[^७]
कर्तुं जीवाननङ्गान्[^८] रतिगतइयतान्( ? )[^९] दुःखभङ्गानुषङ्गात् ।
[^१°]अङ्गाभूदै(है)वभङ्गात्यजथ बत वनीवायुसङ्गाद्विहङ्गा (?)
यद्वत्किं भक्तिगङ्गा कथमपि सहते बहनङ्गान् रतिर्नः ॥ ९२ ॥
</verse>
<verse n="93">[^११]रङ्कश्चेद्यान्ति शङ्कामिह बहुमृतितस्तैरलं काय एषोऽ-
लङ्कार्यो गाङ्गपङ्कादिभिरमृतपुरे[^१२] भीतिरेवं ध्रुवं का ।
आतङ्कानर्हि(ई)मङ्काधिगतगिरिसुतं यातु तं कालजेतुः
भाव[^१३] कालात्कलङ्काविषयमपि नतं बाणलङ्काधिपाद्यै:[^१४] ॥ ९३ ॥
[^</verse>
<footnote mark="१] ">'मम' इति अत्र शुद्धः पाठः स्यात् ।
[^</footnote>
<footnote mark="२] ">भवता शिवेन उन्नामितः अवामो दक्षिणः कर्णः यथा तथा । लम्बो दीर्घ: स्वाप : मरणमित्यर्थः । काश्यां म्रियतो नरस्य दक्षिणकर्णे शिवेन राममन्त्रोपदेशः क्रियते हि ।
[^</footnote>
<footnote mark="३] ">तय रक्षणे इति धातुः ।
[^</footnote>
<footnote mark="४] ">सर्पालिङ्गनसदृशम् ।
[^</footnote>
<footnote mark="५] ">योगीन्द्र इति यावत् ।
[^</footnote>
<footnote mark="६] ">दिव्यसरित: गङ्गायाः अम्भः अर्थये ।
[^</footnote>
<footnote mark="७] ">शिवाझाप्रसङ्गात् ।
[^</footnote>
<footnote mark="८] ">मुक्तान् । अत्र काम इत्यर्थान्तरेग श्लेषः । एवं रतिशब्दें च भक्तिगतोऽनुरागभावः कामपत्नी चेति श्लेष: ।
[^</footnote>
<footnote mark="९] ">उपरि अशुद्धा मातृका । रतिगतहृदयान् इति स्यात् ।
[^</footnote>
<footnote mark="१०] ">तृतीयपादोऽशुद्ध:, तुरीयः शुद्धोऽपि दुरन्वयः ।
[^</footnote>
<footnote mark="११] ">कृपणाः ।
[^</footnote>
<footnote mark="१२] ">काश्याम् ।
[^</footnote>
<footnote mark="१३] ">कालात् क्रमेण कालजेतु: भावं शिवस्वरूपं यातु इत्यन्वयः । अन्यत्सर्व शिवस्वरूपविशेषणम्:
[^</footnote>
<footnote mark="१४] ">बाणरावणाघैर्नतम्।</footnote>
</page>
<verse n="90">खेदच्छेदः कदा स्यात्प्रभ[^१] भव भवतोन्नामितावामकर्णी[^२]
लम्बस्वापावलम्बात् सततभवपथभ्रान्तितः श्रान्तिभाजः ॥ ९० ॥
<verse n="91">शंभो किं मां विभो हा तयितु[^३]मिह न भो भावमालम्बसे त्वं
नो याचे भोगिभोगोपमितिसह[^४]महं भोगमत्रेष्टभोगः ।
नो वा रम्भोरुकुम्भोपमकुचभजनं योगिदम्भोलिपाणे[^५]
किं त्वम्भो मुक्तदम्भोऽर्थय उपरतये भो नभोनिम्नगायाः[^६] ॥ ९१ ॥
<verse n="92">या गङ्गाऽपास्य गङ्गाधरमुकुटमगाद्गां तदाज्ञाप्रसङ्गात्[^७]
कर्तुं जीवाननङ्गान्[^८] रतिगतइयतान्( ? )[^९] दुःखभङ्गानुषङ्गात् ।
[^१°]अङ्गाभूदै(है)वभङ्गात्यजथ बत वनीवायुसङ्गाद्विहङ्गा (?)
यद्वत्किं भक्तिगङ्गा कथमपि सहते बहनङ्गान् रतिर्नः ॥ ९२ ॥
<verse n="93">[^११]रङ्कश्चेद्यान्ति शङ्कामिह बहुमृतितस्तैरलं काय एषोऽ-
लङ्कार्यो गाङ्गपङ्कादिभिरमृतपुरे[^१२] भीतिरेवं ध्रुवं का ।
आतङ्कानर्हि(ई)मङ्काधिगतगिरिसुतं यातु तं कालजेतुः
भाव[^१३] कालात्कलङ्काविषयमपि नतं बाणलङ्काधिपाद्यै:[^१४] ॥ ९३ ॥
[^
<footnote mark="१
[^
<footnote mark="२
[^
<footnote mark="३
[^
<footnote mark="४
[^
<footnote mark="५
[^
<footnote mark="६
[^
<footnote mark="७
[^
<footnote mark="८
[^
<footnote mark="९
[^
<footnote mark="१०
[^
<footnote mark="११
[^
<footnote mark="१२
[^
<footnote mark="१३
[^
<footnote mark="१४
</page>