सोमनाथशतकम् /34
This page has been fully proofread once and needs a second look.
<page>
<verse text="A" n="86">नानाकारैरसारैर्विषयतृणचयैश्चान्वितो यत्तदेनं
शंभो भो मारदाहिन् पुरमथन गुरो त्वं दहेरग्निमृंर्तिः ॥ ८६ ॥</verse>
<verse text="A" n="87">भ्राम्यन् दीनं रुवन् नृभ्रमर[^१] भववने लेक्षि किं भिक्षयाल्पं
[^२]पक्षादक्षो रसं दुर्विषयकुसुमजं कालसंज्ञानिलार्त: ।
गत्वा त्वानन्दवत्यां(न्यां)[^३] पिब शिवमुकुटाम्भोजजातं प्रभूतं
गङ्गाम्भोमध्वरुद्धभ्रमणकृतततक्लन्तिशान्त्येकहेतुम्[^४] ॥ ८७ ॥</verse>
<verse text="A" n="88">योगाद्भोगाच्च जातां क्षणमपि सुखितां यो न यातोऽर्थतातो[^५]
माता भ्राताप्ययासीद्यदुरुधनगुणैर्नैव पोषं च तोषम् ।
सारासारार्थचिन्ताशिथिलितममताकण्ठनाहं[^६] तदाहं
मा(या)यां मायान्तकारित्रिपुरहरपुरीं[^७] सत्पुरीणां धुरीणाम् ॥ ८८ ॥</verse>
<verse text="A" n="89">यातस्तातस्त्वकृत्वा मम हितमहितास्तावदेते समस्ताः
कामास्तान् कस्त्वदन्योऽस्तमधिगमयितुं वस्तुतः शक्त आस्ते ।
[^८]दृङ्न्यस्त्या [^९]कामशास्तस्त्वमनुपमदय स्तुत्य पूतप्रशस्ते
सच्छास्त्रोपास्तिवस्तू[^१०]पदिश किमपि मन्मस्तकन्यस्तहस्तः ॥ ८९ ॥</verse>
<verse text="A" n="90" merge-text="true">[^११]अस्यामानंवदान्या (नन्दवन्या)मतुलफलभरैः सद्द्द्विजालीपरीतैः
रम्यायां हर्म्यवृक्षैर्मृदुलसुरनदीस्नातवातानुयातैः ।</verse>
<footnote text="A" mark="१">हे नरभ्रमर इति संबुद्धिः ।</footnote>
<footnote text="A" mark="२">पक्षयोरदक्षः । नरपक्षे असमर्थमतावलम्बी।</footnote>
<footnote text="A" mark="३">आनन्दवन्यां काश्याम् ।</footnote>
<footnote text="A" mark="४">अरुद्धम् अविरतं भ्रमणं तत्कृता तता बहला क्लान्ति:, तच्छान्त्येकहेतुः, तम् ।</footnote>
<footnote text="A" mark="५">अर्थरूपः पिता ।</footnote>
<footnote text="A" mark="६">कण्ठनाहः कण्ठपाशः ।</footnote>
<footnote text="A" mark="७">काशीम् ।</footnote>
<footnote text="A" mark="८">दृङ्-न्यस्त्या दृष्टिन्यासेन ।</footnote>
<footnote text="A" mark="९">कामशास्त इत्यारभ्य शिवसम्बोधनानि ।</footnote>
<footnote text="A" mark="१०">उपास्तिवस्तु उपासनाविषयम् ।</footnote>
<footnote text="A" mark="११">आनन्दवन्यां काश्याम् । फलानि वृक्षजानि, ऐहिकामुष्मिकाणि । द्विजाः पक्षिणी ब्राह्मणाश्च ।</footnote>
</page>