This page has been fully proofread once and needs a second look.

<page>
<verse n="86">
नानाकारैरसारैर्विषयतृणचयैश्चान्वितो यत्तदेनं

शंभो भो मारदाहिन् पुरमथन गुरो त्वं दहेरग्निमृंर्तिः ॥ ८६ ॥
 
</verse>
<verse n="87">
भ्राम्यन् दीनं रुवन् नृभ्रमर[^१] भववने लेक्षि किं भिक्षयाल्पं

[^२]पक्षादक्षो रसं दुर्विषयकुसुमजं कालसंज्ञानिलार्त: ।

गत्वा त्वानन्दवत्यां(न्यां)[^३] पिब शिवमुकुटाम्भोजजातं प्रभूतं

गङ्गाम्भोमध्वरुद्धभ्रमणकृतततक्लन्तिशान्त्येकहेतुम्[^४] ॥ ८७ ॥
 
</verse>
<verse n="88">
योगाद्भोगाच्च जातां क्षणमपि सुखितां यो न यातोऽर्थतातो[^५]

माता भ्राताप्ययासीद्यदुरुधनगुणैर्नैव पोषं च तोषम् ।

सारासारार्थचिन्ताशिथिलितममताकण्ठनाहं[^६] तदाहं

मा(या)यां मायान्तकारित्रिपुरहरपुरीं[^७] सत्पुरीणां धुरीणाम् ॥ ८८ ॥
 
</verse>
<verse n="89">
यातस्तातस्त्वकृत्वा मम हितमहितास्तावदेते समस्ताः

कामास्तान् कस्त्वदन्योऽस्तमधिगमयितुं वस्तुतः शक्त आस्ते ।

[^८]दृङ्न्यस्त्या [^९]कामशास्तस्त्वमनुपमदय स्तुत्य पूतप्रशस्ते

सच्छास्त्रोपास्तिवस्तू[^१०]पदिश किमपि मन्मस्तकन्यस्तहस्तः ॥ ८९ ॥
 
</verse>
<verse n="90" merge-text="true">
[^११]अस्यामानंवदान्या (नन्दवन्या)मतुलफलभरैः सद्द्द्विजालीपरीतैः

रम्यायां हर्म्यवृक्षैर्मृदुलसुरनदीस्नातवातानुयातैः ।
 
[^
</verse>
<footnote mark="
] ">हे नरभ्रमर इति संबुद्धिः ।
 
[^
</footnote>
<footnote mark="
] ">पक्षयोरदक्षः । नरपक्षे असमर्थमतावलम्बी।
 
[^
</footnote>
<footnote mark="
] ">आनन्दवन्यां काश्याम् ।
 
[^
</footnote>
<footnote mark="
] ">अरुद्धम् अविरतं भ्रमणं तत्कृता तता बहला क्लान्ति:, तच्छान्त्येकहेतुः, तम् ।
 
[^
</footnote>
<footnote mark="
] ">अर्थरूपः पिता ।
 
[^
</footnote>
<footnote mark="
] ">कण्ठनाहः कण्ठपाशः ।
 
[^
</footnote>
<footnote mark="
] ">काशीम् ।
 
[^
</footnote>
<footnote mark="
] ">दृङ्-न्यस्त्या दृष्टिन्यासेन ।
 
[^
</footnote>
<footnote mark="
] ">कामशास्त इत्यारभ्य शिवसम्बोधनानि ।
 
[^
</footnote>
<footnote mark="
१०] ">उपास्तिवस्तु उपासनाविषयम् ।
 
[^
</footnote>
<footnote mark="
११] ">आनन्दवन्यां काश्याम् । फलानि वृक्षजानि, ऐहिकामुष्मिकाणि । द्विजाः पक्षिणी ब्राह्मणाश्च ।</footnote>
</page>