This page has been fully proofread once and needs a second look.

<page>
<heading>॥ अथ गुरुः ॥</heading>
<verse text="A" n="83">कायस्थैर्याय चर्यामृतुषु समुचितां हन्त कुर्वन्त्यनार्या :
कस्मै कार्याय गिर्यादिवदविचलता देहिनां हा कदर्या[^१] ।
तार्यस्तर्या ययाऽसावुरुभवजलधिर्भावव(च)र्यानिलात्ये(धै)-[^२]
रार्याभार्यात्मकस्य[^३] प्रविदधति गुरोस्तां तदार्याः सपर्याम् ॥ ८३ ॥</verse>
<verse text="A" n="84">वामा: कामादयोऽमी हृदयबिलगता दूरतो यान्ति भीमा
मर्माण्याबाधमानाः पृथुमहिमगुरोर्नाममन्त्रोक्तिमात्रात् ।
आदायायव्ययायाभिरति[^४]मुरुभयामत्मनेऽपायदायी
भूयोभूयो जडाये[^५] किमु न भजसि तं निर्भयायाश्रयाय ॥ ८४ ॥</verse>
<verse text="A" n="85">सेवामेवानु देवा ददति बत न वा साधु वा साध्वभीष्टं
नैते दावाग्निवाम्यं[^६] भवमुपशमयन्त्यत्र सौवानुभावात्[^७] ।
कर्णे वाक्यप्रवाची[^८] स तु जयति गुरुः सर्वदेवाभिधान्वा (वान् ?[^९])
दैवावाप्तः सुनिर्वापयति भवदवं यो दयावा:प्रवाहैः ॥ ८५ ॥</verse>
<heading>॥ अथ शङ्करः ॥</heading>
<verse text="A" n="86" merge-text="true">हेतेभीतेर्भवो[^१०] मे बत गहनतया दाव एवेति मन्ये
[^११]कर्मेधैस्त्रिप्रभेदैर्यदयमनुगतोऽनूनजीर्णातिजीर्णैः ।</verse>
<footnote text="A" mark="१">देहिनां गिरिवदचलता कदर्या कष्टा ।</footnote>
<footnote text="A" mark="२">भावो भक्तिः, चय चर्यां क्रियायोग:, अनुष्ठानम्; ते एव प्रेरकीभूतः अनिल:; आद्यशब्देन कूपदण्डः, अरित्रमित्यादि तरी-अङ्गानि ग्राह्यानि ।</footnote>
<footnote text="A" mark="३">पार्वतीपतिस्वरूपस्य ।</footnote>
<footnote text="A" mark="४">आयव्ययाय उरुभयामभिरतिमादाय आत्मनेऽपायदायी स्वमित्यन्वयः ।</footnote>
<footnote text="A" mark="५">जड अये इति च्छेदः ।</footnote>
<footnote text="A" mark="६">दावाग्नेर्वाम्यं वैपरीत्यं यस्य तं भवम्।</footnote>
<footnote text="A" mark="७">सौवः स्वीयः अनुभावः, तस्मात्।</footnote>
<footnote text="A" mark="८">कर्णे मन्त्रोपदेशकर्ता ।</footnote>
<footnote text="A" mark="९">सर्वदेवात्मक इति यावत् ।</footnote>
<footnote text="A" mark="१०">भवः संसारः ।</footnote>
<footnote text="A" mark="११">कर्मेन्धनैः ।</footnote>
</page>