This page has been fully proofread once and needs a second look.

<page>
<heading>॥ अथ गुरुः ॥</heading>
<verse n="83">
कायस्थैर्याय चर्यामृतुषु समुचितां हन्त कुर्वन्त्यनार्या :

कस्मै कार्याय गिर्यादिवदविचलता देहिनां हा कदर्या[^१] ।

तार्यस्तर्या ययाऽसावुरुभवजलधिर्भावव(च)र्यानिलात्ये(धै)-[^२]

रार्याभार्यात्मकस्य[^३] प्रविदधति गुरोस्तां तदार्याः सपर्याम् ॥ ८३ ॥
 
</verse>
<verse n="84">
वामा: कामादयोऽमी हृदयबिलगता दूरतो यान्ति भीमा

मर्माण्याबाधमानाः पृथुमहिमगुरोर्नाममन्त्रोक्तिमात्रात् ।

आदायायव्ययायाभिरति[^४]मुरुभयामत्मनेऽपायदायी

भूयोभूयो जडाये[^५] किमु न भजसि तं निर्भयायाश्रयाय ॥ ८४ ॥
 
</verse>
<verse n="85">
सेवामेवानु देवा ददति बत न वा साधु वा साध्वभीष्टं

नैते दावाग्निवाम्यं[^६] भवमुपशमयन्त्यत्र सौवानुभावात्[^७] ।

कर्णे वाक्यप्रवाची[^८] स तु जयति गुरुः सर्वदेवाभिधान्वा (वान् ?[^९])

दैवावाप्तः सुनिर्वापयति भवदवं यो दयावा:प्रवाहैः ॥ ८५ ॥
 
</verse>
<heading>
॥ अथ शङ्करः ॥
 
</heading>
<verse n="86" merge-text="true">
हेतेभीतेर्भवो[^१०] मे बत गहनतया दाव एवेति मन्ये

[^११]कर्मेधैस्त्रिप्रभेदैर्यदयमनुगतोऽनूनजीर्णातिजीर्णैः ।
 
[^
</verse>
<footnote mark="
] ">देहिनां गिरिवदचलता कदर्या कष्टा ।
 
[^
</footnote>
<footnote mark="
] ">भावो भक्तिः, चय चर्यां क्रियायोग:, अनुष्ठानम्; ते एव प्रेरकीभूतः अनिल:; आद्यशब्देन कूपदण्डः, अरित्रमित्यादि तरी-अङ्गानि ग्राह्यानि ।
 
[^
</footnote>
<footnote mark="
] ">पार्वतीपतिस्वरूपस्य ।
 
[^
</footnote>
<footnote mark="
] ">आयव्ययाय उरुभयामभिरतिमादाय आत्मनेऽपायदायी स्वमित्यन्वयः ।
 
[^
</footnote>
<footnote mark="
] ">जड अये इति च्छेदः ।
 
[^
</footnote>
<footnote mark="
] ">दावाग्नेर्वाम्यं वैपरीत्यं यस्य तं भवम्।
 
[^
</footnote>
<footnote mark="
] ">सौवः स्वीयः अनुभावः, तस्मात्।
 
[^
</footnote>
<footnote mark="
] ">कर्णे मन्त्रोपदेशकर्ता ।
 
[^
</footnote>
<footnote mark="
] ">सर्वदेवात्मक इति यावत् ।
 
[^
</footnote>
<footnote mark="
१०] ">भवः संसारः ।
 
[^
</footnote>
<footnote mark="
११] ">कर्मेन्धनैः ।</footnote>
</page>