सोमनाथशतकम् /32
This page has been fully proofread once and needs a second look.
<page>
<verse text="A" n="78">पीयूषाभं सुशान्तं तुहिनकरकरासङ्गतः शीतलाङ्गं
रिङ्गद्गङ्गातरङ्गं हिमगिरितनयालिङ्गितं शङ्करं तम् ।
सन्तः सञ्चिन्तयन्ते भजनरसमयं शैत्यमन्तर्वहन्तो
मोदस्वेदार्द्रदेहाः सपदि भवदवव्याप(प)तापोपशान्त्यै ॥ ७८ ॥</verse>
<verse text="A" n="79">हास: कामानुसारी[^१] गतरसमशनं हास्यसन्दायि वासो
[^२]रासोऽप्यात्मावसायी वसतिरशरणा यस्य दासः खपाणि: ।
आयासोऽन्यानुपोषी[^३] वच उचितरसं दुःखनाशोऽनुशासो[^४]
विश्वासः शास्त्रवासी[^५] मम भवतु सता[^६] तेन साकं निवासः ॥ ७९ ॥</verse>
<verse text="A" n="80">दूनानानन्दयन्तो मृदुपदवचनैः सान्द्रमानैश्च दानैः
विन्दन्तो मोदमिद्धं परगुणकथने नान्यनिन्दां वदन्तः ।
भिन्दन्तो नावधिं स्वं न च मदपदतामुद्वहन्तो धनाद्यैः
कीर्येन्दुं मन्दयन्तो दममतिदधतः सन्तु सन्तो हृदन्तः ॥ ८० ॥</verse>
<verse text="A" n="81">सन्तो भालेन्दुनामावलिलपनभवाह्लादकल्लोललीनाः
सोल्लासं शीलपाला बलिकलिकलुषक्षालिनो लीलयैव ।
उल्लोलैरप्रचाल्याः सुललितललनालापबालप्रलापैः
संपल्लाभेऽप्यलोभाः सकलविकलतोन्मूलिन: शीलनीयाः ॥ ८१ ॥</verse>
<verse text="A" n="82">बोधाधारोऽनधीनो विषयपरिषदः प्रान्तबाधाविधात्र्या:[^७]
दीनोद्धारानुबन्धी गुरुविबुधमुदे संविधासंविधायी ।
अक्रोधोऽन्यापराधश्रुतिविधिविधुरा धीरधीराधिरोधी
संघासार्थ(?)व्युपाधि[^८]र्मधुमधुरवचाः साधुराराधनीयः ॥ ८२ ॥</verse>
<footnote text="A" mark="१">स्वेच्छयेत्यर्थः ।</footnote>
<footnote text="A" mark="२">रसानुभवः ।</footnote>
<footnote text="A" mark="३">अन्यानुग्रहार्था प्रवृत्तिरित्यर्थः ।</footnote>
<footnote text="A" mark="४">अनुशासनम् ।</footnote>
<footnote text="A" mark="५">शास्त्रे श्रद्धा ।</footnote>
<footnote text="A" mark="६">गुरुरूपेण साधुना सह ।</footnote>
<footnote text="A" mark="७">अवसानविरसाया इत्यर्थः ।</footnote>
<footnote text="A" mark="८">विगतोपाधिः ।</footnote>
</page>