सोमनाथशतकम् /32
This page has been fully proofread once and needs a second look.
<page>
<verse n="78">पीयूषाभं सुशान्तं तुहिनकरकरासङ्गतः शीतलाङ्गं
रिङ्गद्गङ्गातरङ्गं हिमगिरितनयालिङ्गितं शङ्करं तम् ।
सन्तः सञ्चिन्तयन्ते भजनरसमयं शैत्यमन्तर्वहन्तो
मोदस्वेदार्द्रदेहाः सपदि भवदवव्याप(प)तापोपशान्त्यै ॥ ७८ ॥
</verse>
<verse n="79">हास: कामानुसारी[^१] गतरसमशनं हास्यसन्दायि वासो
[^२]रासोऽप्यात्मावसायी वसतिरशरणा यस्य दासः खपाणि: ।
आयासोऽन्यानुपोषी[^३] वच उचितरसं दुःखनाशोऽनुशासो[^४]
विश्वासः शास्त्रवासी[^५] मम भवतु सता[^६] तेन साकं निवासः ॥ ७९ ॥
</verse>
<verse n="80">दूनानानन्दयन्तो मृदुपदवचनैः सान्द्रमानैश्च दानैः
विन्दन्तो मोदमिद्धं परगुणकथने नान्यनिन्दां वदन्तः ।
भिन्दन्तो नावधिं स्वं न च मदपदतामुद्वहन्तो धनाद्यैः
कीर्येन्दुं मन्दयन्तो दममतिदधतः सन्तु सन्तो हृदन्तः ॥ ८० ॥
</verse>
<verse n="81">सन्तो भालेन्दुनामावलिलपनभवाह्लादकल्लोललीनाः
सोल्लासं शीलपाला बलिकलिकलुषक्षालिनो लीलयैव ।
उल्लोलैरप्रचाल्याः सुललितललनालापबालप्रलापैः
संपल्लाभेऽप्यलोभाः सकलविकलतोन्मूलिन: शीलनीयाः ॥ ८१ ॥
</verse>
<verse n="82">बोधाधारोऽनधीनो विषयपरिषदः प्रान्तबाधाविधात्र्या:[^७]
दीनोद्धारानुबन्धी गुरुविबुधमुदे संविधासंविधायी ।
अक्रोधोऽन्यापराधश्रुतिविधिविधुरा धीरधीराधिरोधी
संघासार्थ(?)व्युपाधि[^८]र्मधुमधुरवचाः साधुराराधनीयः ॥ ८२ ॥
[^</verse>
<footnote mark="१] ">स्वेच्छयेत्यर्थः ।
[^</footnote>
<footnote mark="२] ">रसानुभवः ।
[^</footnote>
<footnote mark="३] ">अन्यानुग्रहार्था प्रवृत्तिरित्यर्थः ।
[^</footnote>
<footnote mark="४] ">अनुशासनम् ।
[^</footnote>
<footnote mark="५] ">शास्त्रे श्रद्धा ।
[^</footnote>
<footnote mark="६] ">गुरुरूपेण साधुना सह ।
[^</footnote>
<footnote mark="७] ">अवसानविरसाया इत्यर्थः ।
[^</footnote>
<footnote mark="८] ">विगतोपाधिः ।</footnote>
</page>
<verse n="78">पीयूषाभं सुशान्तं तुहिनकरकरासङ्गतः शीतलाङ्गं
रिङ्गद्गङ्गातरङ्गं हिमगिरितनयालिङ्गितं शङ्करं तम् ।
सन्तः सञ्चिन्तयन्ते भजनरसमयं शैत्यमन्तर्वहन्तो
मोदस्वेदार्द्रदेहाः सपदि भवदवव्याप(प)तापोपशान्त्यै ॥ ७८ ॥
<verse n="79">हास: कामानुसारी[^१] गतरसमशनं हास्यसन्दायि वासो
[^२]रासोऽप्यात्मावसायी वसतिरशरणा यस्य दासः खपाणि: ।
आयासोऽन्यानुपोषी[^३] वच उचितरसं दुःखनाशोऽनुशासो[^४]
विश्वासः शास्त्रवासी[^५] मम भवतु सता[^६] तेन साकं निवासः ॥ ७९ ॥
<verse n="80">दूनानानन्दयन्तो मृदुपदवचनैः सान्द्रमानैश्च दानैः
विन्दन्तो मोदमिद्धं परगुणकथने नान्यनिन्दां वदन्तः ।
भिन्दन्तो नावधिं स्वं न च मदपदतामुद्वहन्तो धनाद्यैः
कीर्येन्दुं मन्दयन्तो दममतिदधतः सन्तु सन्तो हृदन्तः ॥ ८० ॥
<verse n="81">सन्तो भालेन्दुनामावलिलपनभवाह्लादकल्लोललीनाः
सोल्लासं शीलपाला बलिकलिकलुषक्षालिनो लीलयैव ।
उल्लोलैरप्रचाल्याः सुललितललनालापबालप्रलापैः
संपल्लाभेऽप्यलोभाः सकलविकलतोन्मूलिन: शीलनीयाः ॥ ८१ ॥
<verse n="82">बोधाधारोऽनधीनो विषयपरिषदः प्रान्तबाधाविधात्र्या:[^७]
दीनोद्धारानुबन्धी गुरुविबुधमुदे संविधासंविधायी ।
अक्रोधोऽन्यापराधश्रुतिविधिविधुरा धीरधीराधिरोधी
संघासार्थ(?)व्युपाधि[^८]र्मधुमधुरवचाः साधुराराधनीयः ॥ ८२ ॥
[^
<footnote mark="१
[^
<footnote mark="२
[^
<footnote mark="३
[^
<footnote mark="४
[^
<footnote mark="५
[^
<footnote mark="६
[^
<footnote mark="७
[^
<footnote mark="८
</page>