सोमनाथशतकम् /30
This page has been fully proofread once and needs a second look.
<page>
<verse text="A" n="71">संपत्ति: कम्पयन्ती तरलमतिचला शम्पया[^१] तुल्यरूपा
संपर्क लम्पटोऽस्या इति सति[^२] कुरुषे त्वं परं स्वाहिताय ।
अङ्कप्राप्तेष्ववङ्क[^३]स्थितिमधिकदयं दत्तसङ्कल्पितार्थ
[^४]पध्वान्तांशुमन्तं किमिति न भजसे रङ्क[^५] रे शङ्करं तम् ॥ ७१ ॥</verse>
<verse text="A" n="72">कारावन्ना[^६] कुदारानयमशुचितरानर्पितोद्वेगभारा-
नर्थाक्षेपानसारानवनपरनरान्नेत्य(नेत्य?)दैवात्सुसारान्[^७] ।
आहारान्वा विहारान्परिहरतु वरान् स्वान्ततो यावदारात्
मुक्त्यै तु स्मारहारान्[^८] जपतु सुखकरान् नाममन्त्रानुदारान् ॥ ७२ ॥</verse>
<verse text="A" n="73">[^९]अर्वाणः सन्त्यपूर्वा मम बत करिणः शैलतर्वाद्यखर्वा
गीर्वाणांश्चानुपर्वासुखयमहमहो श्रीपतिर्वासनाभि:[^१०] ।
[^११]भगार्वान्मुञ्चेति सर्वानखिलमपि चलं स्वर्णमर्वाद्यतोऽर्वाक्
शर्वाणीकान्तमुर्वाश्रयमभयधिया मित्र ! कुर्वात्तभावः ॥ ७३ ॥</verse>
<verse text="A" n="74">किं गर्वी जन्तुरुर्वीस्थपतिरहमिति स्वानुपूर्वीप्रवृत्त्या
स्वर्वीथ्यन्तं तु सर्वे परिणतिविरसं[^१२] चेत्तदुर्वीशतेष्टा ।
अङ्गीकुर्वीत दर्वीकरकरवलयं तर्ह्यखर्वीकृतार्थि
स्वान्तान्तर्वीतरागैः सततमधिगतं धाम चार्वीशनाम ॥ ७४ ॥</verse>
<footnote text="A" mark="१">विधुता ।</footnote>
<footnote text="A" mark="२">एवं सति इत्यर्थ: ।</footnote>
<footnote text="A" mark="३">अवङ्का अवक्रा स्थितिः यस्य तम् ।</footnote>
<footnote text="A" mark="४">पङ्क: लक्षणया अविद्या ।</footnote>
<footnote text="A" mark="५">रङ्क कृपणेति मनुष्य प्रति संबुद्धिः ।</footnote>
<footnote text="A" mark="६">कारावत् कारागृहवत् । ना मनुष्यः । कुदारान् कुत्सिता : भार्या:, तान् ।</footnote>
<footnote text="A" mark="७">भोजनादिदानेन अवनपरनरान् प्रभून् दैवात् एत्य । सुसारानाहारानित्युपर्यन्वयः ।</footnote>
<footnote text="A" mark="८">स्मरहरस्येमान् स्मारहारान् नामरूपान् मन्त्रान् ।</footnote>
<footnote text="A" mark="९">अश्वा: । शैल-तरु-आदि इति च्छेदः । देवांश्च अनुपर्व असुखयमतपेयम् । श्रीपतिः तादृशसंपत्तिमानहम् ।</footnote>
<footnote text="A" mark="१०">अविद्यावासनामि: गार्वानित्युपरि अन्वयः ।</footnote>
<footnote text="A" mark="११">गर्वमयान् सर्वान् । अर्वादि अश्वादिकम् ।</footnote>
<footnote text="A" mark="१२">आस्वर्ग सर्वस्य 'क्षीणे पुण्ये' इत्युक्तरीत्या पुनरावृत्तिग्रस्तत्वात् ।</footnote>
</page>