This page has been fully proofread once and needs a second look.

<page>
<verse n="71">
संपत्ति: कम्पयन्ती तरलमतिचला शम्पया[^१] तुल्यरूपा

संपर्क लम्पटोऽस्या इति सति[^२] कुरुषे त्वं परं स्वाहिताय ।

अङ्कप्राप्तेष्ववङ्क[^३]स्थितिमधिकदयं दत्तसङ्कल्पितार्थ

[^४]पध्वान्तांशुमन्तं किमिति न भजसे रङ्क[^५] रे शङ्करं तम् ॥ ७१ ॥
 
</verse>
<verse n="72">
कारावन्ना[^६] कुदारानयमशुचितरानर्पितोद्वेगभारा-

नर्थाक्षेपानसारानवनपरनरान्नेत्य(नेत्य?)दैवात्सुसारान्[^७] ।

आहारान्वा विहारान्परिहरतु वरान् स्वान्ततो यावदारात्

मुक्त्यै तु स्मारहारान्[^८] जपतु सुखकरान् नाममन्त्रानुदारान् ॥ ७२ ॥
 
</verse>
<verse n="73">
[^९]अर्वाणः सन्त्यपूर्वा मम बत करिणः शैलतर्वाद्यखर्वा

गीर्वाणांश्चानुपर्वासुखयमहमहो श्रीपतिर्वासनाभि:[^१०] ।

[^११]भगार्वान्मुञ्चेति सर्वानखिलमपि चलं स्वर्णमर्वाद्यतोऽर्वाक्

शर्वाणीकान्तमुर्वाश्रयमभयधिया मित्र ! कुर्वात्तभावः ॥ ७३ ॥
 
</verse>
<verse n="74">
किं गर्वी जन्तुरुर्वीस्थपतिरहमिति स्वानुपूर्वीप्रवृत्त्या

स्वर्वीथ्यन्तं तु सर्वे परिणतिविरसं[^१२] चेत्तदुर्वीशतेष्टा ।

अङ्गीकुर्वीत दर्वीकरकरवलयं तर्ह्यखर्वीकृतार्थि

स्वान्तान्तर्वीतरागैः सततमधिगतं धाम चार्वीशनाम ॥ ७४ ॥
 
[^
</verse>
<footnote mark="
] ">विधुता ।
 
[^
</footnote>
<footnote mark="
] ">एवं सति इत्यर्थ: ।
 
[^
</footnote>
<footnote mark="
] ">अवङ्का अवक्रा स्थितिः यस्य तम् ।
 
[^
</footnote>
<footnote mark="
] ">पङ्क: लक्षणया अविद्या ।
 
[^
</footnote>
<footnote mark="
] ">रङ्क कृपणेति मनुष्य प्रति संबुद्धिः ।
 
[^
</footnote>
<footnote mark="
]">कारावत् कारागृहवत् । ना मनुष्यः । कुदारान् कुत्सिता : भार्या:, तान् ।
 
[^
</footnote>
<footnote mark="
]">भोजनादिदानेन अवनपरनरान् प्रभून् दैवात् एत्य । सुसारानाहारानित्युपर्यन्वयः ।
 
[^
</footnote>
<footnote mark="
] ">स्मरहरस्येमान् स्मारहारान् नामरूपान् मन्त्रान् ।
 
[^
</footnote>
<footnote mark="
] ">अश्वा: । शैल-तरु-आदि इति च्छेदः । देवांश्च अनुपर्व असुखयमतपेयम् । श्रीपतिः तादृशसंपत्तिमानहम् ।
 
[^
</footnote>
<footnote mark="
१०] ">अविद्यावासनामि: गार्वानित्युपरि अन्वयः ।
 
[^
</footnote>
<footnote mark="
११] ">गर्वमयान् सर्वान् । अर्वादि अश्वादिकम् ।
 
[^
</footnote>
<footnote mark="
१२] ">आस्वर्ग सर्वस्य 'क्षीणे पुण्ये' इत्युक्तरीत्या पुनरावृत्तिग्रस्तत्वात् ।</footnote>
</page>