This page has been fully proofread once and needs a second look.

<page>
<verse n="67">
संसारं निर्विचारं प्रशमयितुमहं दुःखभारं ह्यपारं

वारंवारं तु सारं जटिलमतिसितं दग्धमारं स्मरामि ॥ ६७ ॥
 
</verse>
<verse n="68">
नाशापाशातु पाशावदपि....(?)कृशा यद्भृशाकृष्यमाणा

यातायातानि जाताभ्यधिकविकलताः कुर्वते तावदेते ।

मायानायादपायादवितजनचया तद्व्ययार्थं मयाऽसौ

[^१]तारा ताराद्यताराधिपशकलधरा मूर्तिराराधनीया ॥ ६८ ॥
 
</verse>
<verse n="69">
योषासङ्गाः प्रदोषा इव कृतमनस:[^२] प्रीतिपोषाय नामी

कोषाश्चोरोत्थमोषाञ्चिरतरमवतो मे वतृष्णापहन्त(?)[^३] ।

[^४]कामस्येर्षाहरोषामनुसरणकृत:[^५] क्लृप्तमायाधिशोषा-

मीडे तोषाय दोषाकरलसदलिकां व्यक्तिमेकामदोषाम् ।। ६९ ।।
 
</verse>
<verse n="70">
पुत्रा मे सच्चरित्राधिकविहितमुद्रः प्रेमपात्राणि मित्रा-

ण्यापन्नत्रासगोत्रा[^६] यदपि युवतयः पद्मनेत्रार्थचित्रा:[^७] ।

कोऽपि त्राता बतात्रास्ति न यमभयतो नन्दिपत्रा[^८] पवित्रा

मूर्ति: पित्रा च मात्रा सहगिह तु जयत्यन्तकत्रासिगोत्रा[^९] ॥ ७० ॥
 
[^
</verse>
<footnote mark="
] ">उच्चता | तारायाः तदाद्यानां नक्षत्राणां चाधिपः चन्द्रः, तच्छुकलधरा ईश्वरमूर्तिः।
 
[^
</footnote>
<footnote mark="
] ">कृतधिय: पुरुषस्य।
 
[^
</footnote>
<footnote mark="
] ">'मे न तृष्णापहत्यै' इति शुद्धः पाठः स्यात् ।
 
[^
</footnote>
<footnote mark="
] ">कामेर्ष्याहारिरोषाम् ।
 
[^
</footnote>
<footnote mark="
] ">भजनविधायिनः ।
 
[^
</footnote>
<footnote mark="
] ">आपन्नत्रासं पापाद् भयशील गोत्रं वंशः, तद्भवा युवतयः, शिष्टा इति यावत् ।
 
[^
</footnote>
<footnote mark="
] ">पद्मनेत्राश्च अर्थचित्राश्चेति योजनीयम् |
 
[^
</footnote>
<footnote mark="
] ">नन्दिवाहना |
 
[^
</footnote>
<footnote mark="
] ">गौत्रशब्दोऽत्र नामवाची । यन्नामकीर्तनेन अन्तकस्त्रस्तोऽपगच्छति ।</footnote>
</page>