सोमनाथशतकम् /28
This page has been fully proofread once and needs a second look.
<page>
<verse text="A" n="64">सारासाराविचाराद् वयमहितपरा हन्त दारान्भजामः
[^१]कारागाराणि मारावनिपवशतरास्तज्जजीवानुरागा:[^२] ।
आरादाराघनीयं न तु मदनरिपुं जन्ममाराम्बुधारा-
पारावारावतारानुगुण[^३]मनुचराराम[^४]माराधयामः ॥ ६४ ॥</verse>
<verse text="A" n="65">अङ्गासङ्गादनङ्गाल्पविषयसुखदात्कामिनीनां प्रसङ्गात्
[^५]पञ्चाभ्यङ्गांस्तरङ्गानिव पलसमयेनाकलय्याशुस(भ?)ङ्गान् ।
[^६]गङ्गाभङ्गात्तरङ्गामभयवरकुठारान्तिकोद्यत्कुरङ्गा-
मङ्गाव्यङ्गामनङ्गारितनुमनुदिनं चिन्तयाञ्चद्भुजङ्गाम् ॥ ६५ ॥</verse>
<verse text="A" n="66">[^७]पाखण्डाचारिदण्डार्हण उपसरता दानशौण्डान्वितण्डा-
वादैरिद्धेन रण्डार्जव(न?)पटुवचसा[^८] हा मयाऽनाय्यनेहा[^९] ।
ध्याता न विन्दुखण्डाकलितसदलिका मूर्तिरानद्धमुण्डा
गण्डालोलाहितुण्डा निजभजनकृते दत्तपण्डा[^१०] प्रचण्डा ॥ ६६ ॥</verse>
<verse text="A" n="67" merge-text="true">सारङ्गाक्षीं सहारं रहसि न कलये चारुतारङ्गवर्णो
नोदारं सानुकारं ललितमपि भजे गानमिष्टाङ्गहारम्[^११] ।</verse>
<footnote text="A" mark="१">दारा एव कारागाराणि ।</footnote>
<footnote text="A" mark="२">तज्जजीवा दारजाः पुत्राः ।</footnote>
<footnote text="A" mark="३">जननमरणरूपा अम्बुप्रवाहा: पारावारेऽवतीर्णा इव यस्मिन् विलयमाप्नुवन्ति ।</footnote>
<footnote text="A" mark="४">अनुचराणामारामभूतम् ।</footnote>
<footnote text="A" mark="५">पञ्चाभ्यङ्गान् पञ्चेन्द्रियविषयलेपान् तरङ्गानिव अल्पकालेन आशुभङ्गान् क्षिप्रनाशिन आकलय्य ।</footnote>
<footnote text="A" mark="६">द्वितीयार्धेन अनङ्गारितनोर्वर्णनम् । गङ्गाभङ्गैस्तत्तरङ्गैरात्तः
रङ्गः वर्णः शोभा यया ताम् । अथवा गङ्गाभङ्गोत्तरङ्गाम् इति पाठ: स्यात् ।</footnote>
<footnote text="A" mark="७">पाखण्डाचारिदण्डाहणे तादृशे दण्डथे जने दानशौण्डान् उपसरता इत्यन्वयः ।</footnote>
<footnote text="A" mark="८">रण्डाया: तादृश्या: स्त्रिय: आर्जने पटु वचो यस्य तेन ।</footnote>
<footnote text="A" mark="९">अनेहा दिवस: मया अनायि इत्यन्वयः ।</footnote>
<footnote text="A" mark="१०">निजभजनकृते जनाय दत्तपुण्या ।</footnote>
<footnote text="A" mark="११">अङ्गहार: गात्रविक्षेपरूपं नृत्तमुपलक्षयति ।</footnote>
</page>