This page has been fully proofread once and needs a second look.

<page>
<verse n="64">
सारासाराविचाराद् वयमहितपरा हन्त दारान्भजामः

[^१]कारागाराणि मारावनिपवशतरास्तज्जजीवानुरागा:[^२] ।

आरादाराघनीयं न तु मदनरिपुं जन्ममाराम्बुधारा-

पारावारावतारानुगुण[^३]मनुचराराम[^४]माराधयामः ॥ ६४ ॥
 
</verse>
<verse n="65">
अङ्गासङ्गादनङ्गाल्पविषयसुखदात्कामिनीनां प्रसङ्गात्

[^५]पञ्चाभ्यङ्गांस्तरङ्गानिव पलसमयेनाकलय्याशुस(भ?)ङ्गान् ।

[^६]गङ्गाभङ्गात्तरङ्गामभयवरकुठारान्तिकोद्यत्कुरङ्गा-

मङ्गाव्यङ्गामनङ्गारितनुमनुदिनं चिन्तयाञ्चद्भुजङ्गाम् ॥ ६५ ॥
 
</verse>
<verse n="66">
[^७]पाखण्डाचारिदण्डार्हण उपसरता दानशौण्डान्वितण्डा-

वादैरिद्धेन रण्डार्जव(न?)पटुवचसा[^८] हा मयाऽनाय्यनेहा[^९] ।

ध्याता न विन्दुखण्डाकलितसदलिका मूर्तिरानद्धमुण्डा

गण्डालोलाहितुण्डा निजभजनकृते दत्तपण्डा[^१०] प्रचण्डा ॥ ६६ ॥
 
</verse>
<verse n="67" merge-text="true">
सारङ्गाक्षीं सहारं रहसि न कलये चारुतारङ्गवर्णो

नोदारं सानुकारं ललितमपि भजे गानमिष्टाङ्गहारम्[^११] ।
 
[^
</verse>
<footnote mark="
] ">दारा एव कारागाराणि ।
 
[^
</footnote>
<footnote mark="
] ">तज्जजीवा दारजाः पुत्राः ।
 
[^
</footnote>
<footnote mark="
] ">जननमरणरूपा अम्बुप्रवाहा: पारावारेऽवतीर्णा इव यस्मिन् विलयमाप्नुवन्ति ।
 
[^
</footnote>
<footnote mark="
] ">अनुचराणामारामभूतम् ।
 
[^
</footnote>
<footnote mark="
] ">पञ्चाभ्यङ्गान् पञ्चेन्द्रियविषयलेपान् तरङ्गानिव अल्पकालेन आशुभङ्गान् क्षिप्रनाशिन आकलय्य ।
 
[^
</footnote>
<footnote mark="
] ">द्वितीयार्धेन अनङ्गारितनोर्वर्णनम् । गङ्गाभङ्गैस्तत्तरङ्गैरात्तः

रङ्गः वर्णः शोभा यया ताम् । अथवा गङ्गाभङ्गोत्तरङ्गाम् इति पाठ: स्यात् ।
 
[^
</footnote>
<footnote mark="
] ">पाखण्डाचारिदण्डाहणे तादृशे दण्डथे जने दानशौण्डान् उपसरता इत्यन्वयः ।
 
[^
</footnote>
<footnote mark="
] ">रण्डाया: तादृश्या: स्त्रिय: आर्जने पटु वचो यस्य तेन ।
 
[^
</footnote>
<footnote mark="
] ">अनेहा दिवस: मया अनायि इत्यन्वयः ।
 
[^
</footnote>
<footnote mark="
१०] ">निजभजनकृते जनाय दत्तपुण्या ।
 
[^
</footnote>
<footnote mark="
११] ">अङ्गहार: गात्रविक्षेपरूपं नृत्तमुपलक्षयति ।</footnote>
</page>