This page has been fully proofread once and needs a second look.

<page>
<verse text="A" n="56">गौरीयुक्ताङ्कभागां वलयितभुजगां भूरिभस्माङ्गरागां
मौलिव्यालीनगङ्गां श्रिततुहिननगां क्लृप्तकन्दर्पभङ्गाम् ।
मुण्डोरुस्रग्धरां तां मुनियतिनिरतां वेदबृन्दानुगीतां
नौमि ब्रह्माद्या(द्वयां?) तां गगननिवसितां[^१] शंभुमूर्तिं प्रशान्ताम् ॥ ५६ ॥</verse>
<verse text="A" n="57">द्वारे द्वारे परेषां प्रगटगुणगलो[^२] भ्रामितो नामितास्थो
वेषाद्यैर्हास्यदोऽहं प्लवग इव युवा दण्डवत्या युवत्या ।
तत्त्वास्तामस्तशक्तिं सजरसमरसं मां तथा नर्तयन्ती
तृष्णे कृष्णानने किं न कलयसि कृपां किंचिदद्याप्यवद्ये ॥ ५७ ॥</verse>
<verse text="A" n="58">नानादानानि मानाग्रसर[^३]मकरवं हेतुहीनानि[^४] नाहं
दीनानां चाशनायामशमयमुचितेनान्नपानादिना न ।
आसन्नानां जनानामभिमतमपि नापूरयं निर्धनाना-
मन्नान्येवांघमानामघस[^५]मणुमन[^६] हा धनाढ्योऽप्यनर्थः[^७] ॥ ५८ ॥</verse>
<verse text="A" n="59">श्यामा दृश्यापि रामा यदपि तदपि सा हन्त लाभातिवामा[^८]
यामालोक्याभिरामाननुसरति नरो नैव धामादिकामान् ।
क्षामात्मा हीनघामा क्षणमपि विकलो न त्रियामासु शेते
मा मा याहीति गामालपति च वितथं तेन तामाश्रयेन्न ॥ ५९ ॥</verse>
<footnote text="A" mark="१">दिगम्बराम् ।</footnote>
<footnote text="A" mark="२">याचकत्वात् स्तुतियाच्यादिव्यञ्जककण्ठगुणा:, प्लवगपक्षे कण्ठबद्धरज्जुः । प्रगटः प्रकटः ।</footnote>
<footnote text="A" mark="३">मानपूर्वाणि दानानीत्यर्थः ।</footnote>
<footnote text="A" mark="४">निर्व्याजानि ।</footnote>
<footnote text="A" mark="५">अभक्षयम् ।</footnote>
<footnote text="A" mark="६">फल्गुहृदयः ।</footnote>
<footnote text="A" mark="७">धनाढ्योऽपि दरिद्र इव ।</footnote>
<footnote text="A" mark="७">लाभादनन्तरमत्यन्तं वामतां गता ।</footnote>
</page>