सोमनाथशतकम् /26
This page has been fully proofread once and needs a second look.
<page>
<verse n="56">गौरीयुक्ताङ्कभागां वलयितभुजगां भूरिभस्माङ्गरागां
मौलिव्यालीनगङ्गां श्रिततुहिननगां क्लृप्तकन्दर्पभङ्गाम् ।
मुण्डोरुस्रग्धरां तां मुनियतिनिरतां वेदबृन्दानुगीतां
नौमि ब्रह्माद्या(द्वयां?) तां गगननिवसितां[^१] शंभुमूर्तिं प्रशान्ताम् ॥ ५६ ॥
</verse>
<verse n="57">द्वारे द्वारे परेषां प्रगटगुणगलो[^२] भ्रामितो नामितास्थो
वेषाद्यैर्हास्यदोऽहं प्लवग इव युवा दण्डवत्या युवत्या ।
तत्त्वास्तामस्तशक्तिं सजरसमरसं मां तथा नर्तयन्ती
तृष्णे कृष्णानने किं न कलयसि कृपां किंचिदद्याप्यवद्ये ॥ ५७ ॥
</verse>
<verse n="58">नानादानानि मानाग्रसर[^३]मकरवं हेतुहीनानि[^४] नाहं
दीनानां चाशनायामशमयमुचितेनान्नपानादिना न ।
आसन्नानां जनानामभिमतमपि नापूरयं निर्धनाना-
मन्नान्येवांघमानामघस[^५]मणुमन[^६] हा धनाढ्योऽप्यनर्थः[^७] ॥ ५८ ॥
</verse>
<verse n="59">श्यामा दृश्यापि रामा यदपि तदपि सा हन्त लाभातिवामा[^८]
यामालोक्याभिरामाननुसरति नरो नैव धामादिकामान् ।
क्षामात्मा हीनघामा क्षणमपि विकलो न त्रियामासु शेते
मा मा याहीति गामालपति च वितथं तेन तामाश्रयेन्न ॥ ५९ ॥
[^</verse>
<footnote mark="१] ">दिगम्बराम् ।
[^</footnote>
<footnote mark="२] ">याचकत्वात् स्तुतियाच्यादिव्यञ्जककण्ठगुणा:, प्लवगपक्षे कण्ठबद्धरज्जुः । प्रगटः प्रकटः ।
[^</footnote>
<footnote mark="३] ">मानपूर्वाणि दानानीत्यर्थः ।
[^</footnote>
<footnote mark="४] ">निर्व्याजानि ।
[^</footnote>
<footnote mark="५] ">अभक्षयम् ।
[^</footnote>
<footnote mark="६] ">फल्गुहृदयः ।
[^</footnote>
<footnote mark="७] ">धनाढ्योऽपि दरिद्र इव ।
[^</footnote>
<footnote mark="७] ">लाभादनन्तरमत्यन्तं वामतां गता ।</footnote>
</page>
<verse n="56">गौरीयुक्ताङ्कभागां वलयितभुजगां भूरिभस्माङ्गरागां
मौलिव्यालीनगङ्गां श्रिततुहिननगां क्लृप्तकन्दर्पभङ्गाम् ।
मुण्डोरुस्रग्धरां तां मुनियतिनिरतां वेदबृन्दानुगीतां
नौमि ब्रह्माद्या(द्वयां?) तां गगननिवसितां[^१] शंभुमूर्तिं प्रशान्ताम् ॥ ५६ ॥
<verse n="57">द्वारे द्वारे परेषां प्रगटगुणगलो[^२] भ्रामितो नामितास्थो
वेषाद्यैर्हास्यदोऽहं प्लवग इव युवा दण्डवत्या युवत्या ।
तत्त्वास्तामस्तशक्तिं सजरसमरसं मां तथा नर्तयन्ती
तृष्णे कृष्णानने किं न कलयसि कृपां किंचिदद्याप्यवद्ये ॥ ५७ ॥
<verse n="58">नानादानानि मानाग्रसर[^३]मकरवं हेतुहीनानि[^४] नाहं
दीनानां चाशनायामशमयमुचितेनान्नपानादिना न ।
आसन्नानां जनानामभिमतमपि नापूरयं निर्धनाना-
मन्नान्येवांघमानामघस[^५]मणुमन[^६] हा धनाढ्योऽप्यनर्थः[^७] ॥ ५८ ॥
<verse n="59">श्यामा दृश्यापि रामा यदपि तदपि सा हन्त लाभातिवामा[^८]
यामालोक्याभिरामाननुसरति नरो नैव धामादिकामान् ।
क्षामात्मा हीनघामा क्षणमपि विकलो न त्रियामासु शेते
मा मा याहीति गामालपति च वितथं तेन तामाश्रयेन्न ॥ ५९ ॥
[^
<footnote mark="१
[^
<footnote mark="२
[^
<footnote mark="३
[^
<footnote mark="४
[^
<footnote mark="५
[^
<footnote mark="६
[^
<footnote mark="७
[^
<footnote mark="७
</page>