This page has been fully proofread once and needs a second look.

<page>
<verse n="49">
केशा: शेषाहिवर्णा वदनमपि वलीघारि दन्ताः समन्तात्

जाता: पाताददृश्या वचनमवशगं हन्त दोषाः सपोषाः ।

श्रोत्रं गोत्रं[^१] शृणोति स्वमपि न नयनं क्लिन्नमङ्गं सभङ्गं

स्वान्तं भ्रान्तं मुहुस्ते स्मरसि न किमु रे मारहन्तुः परं तु ॥ ४९ ॥
 
</verse>
<verse n="50">
आयुर्दायं प्रभावाद्विपुलमथ मितं जन्तुजाताय दद्युः

घुस्थानस्था ग्रहा ये विविधगतियुता जीव[^२]मुख्यास्तथापि ।

वृद्धत्वं प्राप्य तेऽस्तं कतिपयदिवसैरेव यान्तीति बुद्ध्वा

वृद्धा भूस्था(त्वा)पि जीवाः स्वहितमहह नो कुर्वते
ते(ऽन्तेऽ)न्तिकस्थे[^३] ॥ ५० ॥
 
</verse>
<verse n="51">
[^४]दोषोपद्रुत्यनूनं भवगदमशितुं यस्य केऽप्युद्यता नो

वृद्धस्यापथ्यवृत्तेः किमपि न धनिनस्तेन काशीष्ववाप्य ।

[^५]विश्वेशादेर्गणस्याङ्घ्रिदशकयुगलं स्वौषधं सिद्धबुद्धं

सन्मात्रं त्रासहीनं प्रतिदिनमरुणार्काङ्घ्रियोगेन सेव्यम् ॥ ५१ ॥
 
</verse>
<verse n="52">
सत्सङ्गः सर्वकालं सललितवचनं सादरत्वं स्वधर्मे

संकष्टे खन्तदाढर्यै सुतयुवतिसुखे स्तोकसंसक्तभावः ।

संतोष: स्वल्पलाभात्सकलजनहिताशंसिता स्वामिसेवा

सामर्थ्ये सौम्यवृत्तिः सदयहृदयता संसृतेः [^६]सादहेतुः ॥ ५२ ॥
 
[^
</verse>
<footnote mark="
] ">गोत्रं नाम ।
 
[^
</footnote>
<footnote mark="
] ">जीवो बृहस्पति: । उपरि जीवा : प्राणिनः ।
 
[^
</footnote>
<footnote mark="
] ">अन्ते मरणे अन्तिकस्थेऽपि ।
 
[^
</footnote>
<footnote mark="
] ">दोषोपद्रुति-अनूनमिति च्छेदः । यस्य धनिनोऽपि वृद्धस्य गदनाशनाय केsपि नो उद्यता इत्यन्वयः ।
 
[^
</footnote>
<footnote mark="
] ">'विश्वेशं माधवं दुपिंढ दण्डपाणिं च भैरवम् । वन्दे काशीं गुहां गङ्गां भवानीं मणिकर्णिकाम् ॥' इति काशीस्थदैवतदशकं विश्वेशादेर्गणस्येत्यनेनोच्यते । दशानां पदयुगलमिति । क्वचित्काशीस्थदैवतदशकस्य निर्देशो मनागन्यथापि दृश्यते ।
 
[^
</footnote>
<footnote mark="
] ">साद: अवसादः ।</footnote>
</page>