This page has been fully proofread once and needs a second look.

<page>
<verse n="39">
क्षुद्रैरन्तर्बहिर्यन्निचितमनुचितैर्जन्तुभिः कालगत्या

विस्रं प्रस्रावि जीर्णं क्षणमपि रुचिरं मार्जनाद्यैर्विना न ।

देहं गेहं च तुल्यं परमिह निघने गेहमन्योपयुक्तं

स्यान्नो देहं; सतीत्थं न तदुपकृतये जीवतो यस्य तं धिक्[^१] ॥ ३९ ॥
 
</verse>
<verse n="40">
मूकत्वान्नग्नभाषान्मललुलिततनोरुक्तयोगाच्च दुःखाद्

बाल्यं पैशाच्यमुच्चैः कथमपि शनकैर्यावदेतद्वयपेतम् ।

बिभ्रद्दोषप्रकोपं करचरणमपीतस्ततो भ्रान्तनेत्र-

स्वान्तं निक्षेपयन् हा सपदि तरुणिमोरुज्वरोऽलम्भि तावत् ॥ ४० ॥
 
</verse>
<verse n="41">
तारुण्यारण्ययातोऽप्यहह किमु न रे सावधानोऽसि जन्मिन्[^२]

हन्युस्त्वां व्यग्रमुग्राः प्रचलितमभितो व्यापकाः पञ्च चैकम् ।

कोपो द्वीपी प्रपञ्चोऽहिरपि मद इभो मत्सरः सूकरेशो

दम्भो भल्लूक एषोऽसमशरशरणो मन्मथश्चोरनाथः ॥ ४१ ॥

 
</verse>
<verse n="42">
यातायातं विधत्ते सुखमसुशफरी कायकासारदेशे

यावत्संफुल्लचक्षुर्मुरवकरचरणाम्भोजराजीविराजि ।

स्फूर्जद्वानीरपूरे बहिरमलतरे तावदत्तुं स्थितस्तां

कुर्वन् मन्दं पदं स्वं बत पलितबको वञ्चकः कुञ्चिताङ्गः ॥ ४२ ॥
 
</verse>
<verse n="43">
संशीर्णा हन्त दन्ता नवयुवतिरदाच्छादन[^३]च्छेददक्षा-

श्चक्षुर्नोद्वीक्षणेऽपि क्षण(म)महह रह: स्त्रीकटाक्षानुभावि ।

कर्णौ बाधिर्यपूर्णौ बत निपुणवधूचाटु संश्रुत्य फुल्लौ

निर्लज्जो जन्तुरेवं सति वहति रतिं योषिति त्यक्तरत्याम् ॥ ४३ ॥
 
[^
</verse>
<footnote mark="
] ">यस्य जीवतः पुंसः तत् देहं न उपकृतये, परोपकृतये न भवति, तं पुमांसं धिक् ।
 
[^
</footnote>
<footnote mark="
] ">जन्तो ।
 
[^
</footnote>
<footnote mark="
] ">रदाच्छादनम् अधरः ।</footnote>
</page>