This page has been fully proofread once and needs a second look.

<page>
<verse n="26">
सेयं हेया सुधीभिः कथमपि तरुणी वारुणीतोऽपि भीमा

यामालोक्यैव दूरात्सपदि बत नरो माद्यति भ्रान्तिमेति ।

लज्जां मुञ्चत्यवश्यं रचयति वचनं किंचिदुच्चावचं च

प्रायो हाला तु कालाद्गतिमिति कुरुते सेविता सत्यतीव[^१] ॥ २६ ॥
 
</verse>
<verse n="27">
बाला ज्वाला विचित्रा सखिवरशिखिनः स्नेहतो नैव योज्या

दाहं या हन्त दृष्टा वितरति नितरां भूतिनाशं तनोति ।

[^२]पोषं दोषं जडत्वं नयति च दहति प्रायशोऽत्यन्तदग्धं

कम्पं संपन्नभावं गमयति तमसोऽतीव वृद्धिं करोति ॥ २७ ॥
 
</verse>
<verse n="28">
नाशे हेतुर्वसूनामहह वसुमतः स्वप्रवेशस्य काले[^३]

स्वाधीनत्वात्कलानां निधिमपि गमयत्येव दोषाकरत्वम् ।

उच्चैर्माराङ्गभूता[^४] प्रतिभयतमसो भूर्निसर्गेण योषा

याति प्राप्नोति [^५]तस्योद्वहनकृत उषा रात्रिरित्थं स्फुटार्था ॥ २८ ॥
 
</verse>
<verse n="29">
हन्त स्त्री मारशस्त्री सुखहृदपि कथं हृद्यभावेन कान्ता

किं तु प्रायः सुखात्तं कुरुत इति बुधैः कर्तृवत्सा निरुक्ता ।

शत्रौ मित्रोक्तिवद्वा कथमपि गदिता वैपरीत्येन यद्वा

संज्ञात्वेनात्र वैद्यैरमृतमिव विषे कैश्चिदेवं प्रयुक्ता ॥ २९ ॥
 
[^
</verse>
<footnote mark="
] ">हाला तु कालात् बहो:, अतीव च सेविता विकारानेतान् कुरुते, तरुणी तु रष्टमात्रैव ।
 
[^
</footnote>
<footnote mark="
] ">दोषं पोषं नयति, बहुलीकरोति । जडत्वं च नयति; सामान्या ज्वाला औष्ण्यात् जडत्वं व्यपोहति, इयं तु विपरीतम् । दग्धमेव दहति, विदग्धं चतुरं पुरुषं दहति इति उभयथा योज्यम् । ज्वालाग्रे कम्पः शीतादिप्रयुक्तो हीयते, अस्यास्तु पुरः स वर्धते ।
 
[^
</footnote>
<footnote mark="
] ">स्वस्मिन् रात्रौ प्रवेशः, तत्समये ।
 
[^
</footnote>
<footnote mark="
] ">मन्मथाङ्गभूता ।
 
[^
</footnote>
<footnote mark="
] ">तस्य वसुमतः सूर्यस्य रात्रिभूताया योषाया अपगमानन्तरं तस्य उद्वहनकृते तया तिरस्कृतस्य उद्धारार्थं विवाहार्थं च उषा सा, तद्पा अन्या साध्वी नायिका व प्राप्नोति ।</footnote>
</page>