This page has been fully proofread once and needs a second look.

<page>
<verse n="22">
लक्ष्मीश्चेल्लोकमाता किमवति न जनं प्रत्युतायासहेतुः

लोको मातेव यस्या इति भवतु पुनर्योगतः सा कथञ्चित् ।

यत्प्राप्यापत्यवत् तां[^१] वहति निजतनौ स[^२] व्ययात्पाति भीतः

पुष्णाति प्रत्यहं च त्यजति न मनसाप्यन्तकालेऽतिरागात् ॥ २२ ॥
 
</verse>
<verse n="23">
नृभ्योऽग्नौ स्वस्य धातुद्रवणमथ जले मज्जनं छेदनं तः (तैः ?)

शस्त्रैः संदंशयोगोऽनलमिलनमयस्ताडनं जन्मनीति ।

दीनाराद्यर्थसार्थो व्यथनकृदखिलं संस्मरन् किं समर्थ-

स्तज्जातीयांस्तथैव व्यथयति धनिनो बन्धभूक्षेपखिन्नः ॥ २३ ॥
 
</verse>
<verse n="24">
आः किं भुङ्क्षे त्वमाशीविषविषवदिमां मारयन्तीं जनानां

कार्ता(?)पस्वादुतैव (ऽस्मारतैव?) स्फुरति भवति वा यद्वशात्कण्ठरोधः ।

किंतु श्रेयोऽधिगन्तुं भज भवभिषजं तं विषादं[^३] विषादं[^४]

त्यक्त्वा त्वां तत्र सक्तं कृपणमपि कृपा यस्य पायादपायात् ॥ २४ ॥
 
</verse>
<title>
इति लक्ष्मीनिन्दा
 
</title>
<verse n="25">
कारागारं बत स्त्री विसहगि[^५]ति पतिः सापराधं यदन्यं

बघ्नात्यस्मिन्करार्थी न किमपि यतते रक्षणे चास्य बद्धः ।

अस्यां तूदेति बन्धः क्षरदवधि[^६] करग्राहिणः पत्युरेव

प्रायोऽस्याः पालनादौ वहति च नितरां तादृशोऽप्येष चिन्ताम् ॥ २५ ॥
 
[^
</verse>
<footnote mark="
] ">लक्ष्मीम् ।
 
[^
</footnote>
<footnote mark="
] ">लोकः ।
 
[^
</footnote>
<footnote mark="
] ">विषमन्तीति विषादः शिवः तम् ।
 
[^
</footnote>
<footnote mark="
] ">दुःखम् ।
 
[^
</footnote>
<footnote mark="
] ">अन्यादृशम् । सामान्ये कारागारे पतिः राजादिक: अपराधिनं तथा अन्यमेव नरं, स्वयं ततः करार्थी वा बध्नाति; बन्धनानन्तरं कारागारस्य रक्षणार्थं न बतते । विशिष्टे स्त्रीनामके कारागारे तु करार्थी पाणिं गृह्णाति पतिः, स्वयमात्मानमेव झाति; स च बन्धो निरवधिकः; स्त्रीरूपकारागृहस्य पालनार्थं च सदा चिन्तासुरी भवति ।
 
[^
</footnote>
<footnote mark="
] ">निरवधि ।</footnote>
</page>