This page has been fully proofread once and needs a second look.

<page>
<verse n="18">
यं कंचित्सञ्चितस्वं कुवचनरचनं नैव याचस्व किंचित्

त्वामित्थं चित्त ! याचे तव रुचिरथ चेद्याचने याच्य ईशः ।

[^१]भिक्षार्थित्वेन जानन्व्यसनमिव पृथु प्रार्थितव्यर्थतोत्थं

सामर्थ्याद्विश्वनाथः कथमपि वृथयत्यर्थनामर्थिनां न ॥ १८ ॥
 
</verse>
<verse n="19">
याचन्तां केचिदाढ्यं पुरपतिमितरे देशनाथं तथान्ये

दिग्रक्षं केचनैके क्षितिपतिमपरे स्वर्पति स्वल्पचि(वि?)त्तम् ।

याचेऽहं तु त्रिलोकीपदसदधिकृतब्रह्मवाणीत्रिवेणी[^२]-

प्रावीण्यावर्णनीयागणितगुणगणं श्रीमहादेवमेव ॥ १९ ॥
 
</verse>
<trailer>
इति याचकनिन्दा ॥
 
</trailer>
<verse n="20">
लक्ष्मीरेषा विषादप्यतिशयविषमा सेवमानोऽनिश यां

तं मोहं याति जन्तुः कथमपि विरतिंर्मन्त्रतन्त्रैर्न यस्य ।

व्यामोहं तत्तु[^३] सात्म्येन जनयति भवन्सो[^४] ऽपि तै[^५]स्ति जय्यः

[^६]सर्वज्ञोऽधत्त निःखोऽप्यत इव बंत तत्तां[^७]विहायाब्धितीरे[^८] ॥ २० ॥
 
</verse>
<verse n="21">
[^९]सुज्ञाऽकस्माद्भवन्त्या दृशमथ रजसा पश्यतां दूषयन्त्या

यत्किंचित्कम्पयन्त्या निकटगत(म)[^१०]मृदुं शब्दमाश्रावयन्त्या ।

उन्मार्गेणोच्चलन्त्या सपदि कमलया वात्ययेवाभिभूताः

के के भ्रान्त्या पतेयुर्न जगति तृणवत्तूर्णमुड्डीय पूर्वम् ॥ २१ ॥
 
[^
</verse>
<footnote mark="
] ">स्वयमिति शेषः ।
 
[^
</footnote>
<footnote mark="
] ">त्रिवेणी लक्षणया नदीत्रयप्रवाह: । तादृशवाग्धाव्याप्यवर्णनीयेत्यादि ।
 
[^
</footnote>
<footnote mark="
] ">विषम् ।
 
[^
</footnote>
<footnote mark="
] ">व्यामोहः ।
 
[^
</footnote>
<footnote mark="
] ">मन्त्रतन्त्रैः ।
 
[^
</footnote>
<footnote mark="
] ">शिवः
 
[^
</footnote>
<footnote mark="
] ">तत् विषम्, ताम् लक्ष्मीम् ।
 
[^
</footnote>
<footnote mark="
] ">समुद्रमथने समुत्थितयोः विषलक्ष्म्योर्मध्ये सर्वज्ञः शिवो लक्ष्मीं विहाय विषमधत्त ।
 
[^
</footnote>
<footnote mark="
] ">'सुझ' इति मातृकास्थं पदं दुरन्वयम्; 'शून्ये' इति स्यात्समीचीन: पाठोऽत्र, यतः शून्ये पूर्वं दरिद्रे पुरुषे अकस्माद्धनं भवति, वात्या च तथा शून्ये आकाशे अकाण्डे भवति ।
 
[^
</footnote>
<footnote mark="
१०] ">निकटगं यत्किञ्चित्, अमृदुं शब्दमित्यन्वयः ।</footnote>
</page>