This page has been fully proofread once and needs a second look.

<page>
<verse n="13">
द्वारेद्वारे परेषामविरतमटति द्वारपालैः करालैः

दृष्ट्वा यष्ट्याहतम्सन् रणति गणयति स्वापमानं तु नैव ।

क्षन्तुं शक्नोति नान्यं स्वसदृशमितरागारमप्याश्रयन्तं

श्राम्यत्यात्मोदरार्थे कथमहह शुना नो समो याचकस्सः ॥ १३ ॥
 
</verse>
<verse n="14">
पङ्गोर्भावं वरं न त्वणुतरमनसां याचनायाङ्घ्रियानं

मूकत्वं वा वरं न त्वपलपितगुणं देहिदेहीति वाणी ।

जन्मान्धत्वं वरं न त्वधमधनवतामास्यभङ्गस्य वीक्षा

बाधिर्ये वा वरं न त्वतिपरुषगिरः संश्रुतिः प्रार्थितानाम् ॥ १४ ॥
 
</verse>
<verse n="15">
स्वैर्लोकैर्योऽनुगम्य: प्रथममसदपि प्राप्नुयाद्यो गुणित्वं

पश्चाद्विन्द्याद्गुरुत्वं ध्रुवमुदयति यः प्राणहीनो[^१] वरं सः ।

न त्वर्थी योऽतिहेयो द्रुतमुचितजनैर्यश्च सिद्धं गुणित्वं

मुञ्चेद्योचे(दञ्चे?)लघुत्वं महदहह न वा याति जातूदयं यः ॥ १५ ॥
 
</verse>
<verse n="16">
धन्यं वन्यं हि मन्ये तृणमतनुगुणग्राहिकः कोऽपि लोको

मूर्धन्याधाय धाम स्वमभिनयति यत्सर्वदा[^२]नन्ददायि ।

धिग्व्यर्थं त्वर्थिनं तं पृथुगुणमपि यं वीक्षतेऽपि क्षणं नो

दूरोद्विग्नो जनो न प्रणमति न नयत्यात्मगेहं च तत्किम् ॥ १६ ॥
 
</verse>
<verse n="17">
चौर्य कार्यं तदा यैर्निजमुदरदरीपूरणं नो भवेच्चेद्

उच्चैर्नीचत्वहेतुं न तु विदधतु ते याचनं यातनार्थम् ।

यस्माच्चोरा: सुराजानुमतविधिवशाच्छूलपीठोपवेशाद्

उच्चत्वं तत्प्रयान्ति स्फुरति करतलोत्तानता[^३] नैव तत्र ॥ १७ ॥
 
[^
</verse>
<footnote mark="
] ">प्राणहीन: प्रेतः, शवः, य : श्मशानयात्रायां स्वीयैरनुगम्यते; गुणित्वं, गुणैः पाशै : बद्धुत्वं याति; क्रमेण गुरुर्भवति वाहकानां; मरणानन्तरं च उदयति पुनर्जन्मनि । अर्थी याचकस्तु शवादपि निकृष्टः ।
 
[^
</footnote>
<footnote mark="
] ">सर्वदा धेनुः, गौणं नामेदम् ।
 
[^
</footnote>
<footnote mark="
] ">याचनकर्मप्रयुक्तमुत्तानितकरप्रसारणम् ।</footnote>
</page>