This page has been fully proofread twice.

स्वमानसेनानुबध्नाति । धर्मार्थकामलक्षणपुरुषार्थत्रयसाधनेन त्वयैवासारस्य संसारस्य संसारता विधीयते
ततो ते ऽप्यतिशयमोक्षः । प्रथमजः पुरुषार्थस्त्वयैव नाधिगतः । सर्वस्वमन्वभावि पुरुषार्थद्वयबाधनेन । एत
एव पुरुषार्थाः पूर्वपुरुषैः पूर्वपरिपाट्या साधयितव्याः । व्यतिक्रमो न कर्तुमन्वेष्टव्यः ।
 
आहुश्च । धर्ममर्थं व्यतिक्रम्य केवलं काममाश्रितः ।
अयशोभाजनं लोके परत्रापि च निन्दितः ॥
 
अन्यच्च । विषमविशिखस्य व्यसनपरवशं त्वामभिवोक्ष्य तव पितरौ दुःखाक्रान्तस्वान्तौ स्तः । तयोर्दुःखवि -
तरणे तव गरीयान्प्रत्यवायो ऽभीप्सितप्लोषमापादयन्नहर्निशं जरीजृम्भीति । यस्तु मातापितराव-
वजानीते तं विहाय नान्यः कश्चन पतितो ऽस्तीति <fix>।</fix>
 
गदितं च । मातापित्रोरपोष्टारं क्रियामुद्दिश्य याचकम् ।
परार्थे तिलहोतारं दृष्ट्वा चक्षुर्निमीलयेत् ॥
 
तस्मादाकर्णयतु भवान् । एतदर्थे महाभारतीयमितिहासमेकं त्वां प्रति वक्ष्यामि । इत्यभिधाय मदनसेनं
प्रति शुकः पौराणिकीं कथामेकां व्याहर्तुं प्रववृते । शृणु मदनसेन । मालवजनपदमध्ये नागपुरं नामा-
ग्रहारः । तत्र विजयशर्माहूह्वयो ब्राह्मणो ह्यवात्सीत् । तस्य तनयो देवशर्माभवत् । तेन समस्ता अपि
विद्या अभ्यस्ताः परं शान्तिर्मनस्युदयं नासादयति स्म । ततः पितरावभाषिष्ट । अहमन्या अपि विद्या
अध्येतुं ब्व्रजिष्यामि । ततस्तौ निषेद्धुं प्रचक्रमाते । ततस्तयोरुदितमवमत्य द्वितीयमेव देशान्तरं निर-
गात् । इत्थं देशान्तरे ऽटाव्यं कुर्वाणो ऽनेकतीर्थानि देवायतनानि पवित्रक्षेत्राणि दर्शं दर्शं दर्शादिषु
विशेषपर्वसु पर्वसपर्यापरायणो भूत्वा तापसवेषानुसरणरसिकः परं वैराग्यमवलम्ब्य विषयवासना-
वितृष्णो निःस्पृहतया प्रवर्तमानः चित्रकूटपर्वतमाससाद । तत्र पवित्रमेकं तपोवनमालोक्य महामेरुप्रासादं
शिवस्य दृष्ट्वा निर्मलजलपरिपूर्णं सरश्चाभिवीक्ष्य समासाद्य चाप्लवनं संध्योपासनं सुरपितृतर्पणं च
विधाय प्रासादमासाद्य शिवमर्चयित्वा स्तोत्रादिना संतोष्य प्रणिपत्य च स्वचेतसि परमं समाधा-
नमनुभूय तत्रैकस्य तरोस्तले निषसाद । पद्मासन उपविश्य नासिकाग्रे दृशौ विन्यस्य श्यामलाङ्गं
चतुर्भुजं शङ्खचक्रगदापद्मोदायुधमाश्रयं श्रियः पुरोदेशावस्थितसंबन्धयोजितकरयुगलगरुडमित्यादिवि-
शेषणविशिष्टं श्रीमन्तमादिनारायणं ध्यात्वा सांसारिकदेहाहंकारतापुरस्कृतव्यापारो परमचेतसोनि-
वारणतया सकलावरणपरिणताशयः क्षणं स्थितवान् ।
 
देहभावं परित्यज्य निरालम्बनमाश्रितः ।
आनन्दपदसंयोगी स योगी मोदते सुखम् ॥
निद्रादौ जागरस्यान्ते यो भाव उपजायते ।
तं भावं भावयेद्योगी द्विविधाभाववर्जितम् ॥
 
एवमाकारविकारनिराकरणेनासौ देवशर्मा ध्याननिमीलितचक्षुरतिष्ठत् । तदन्वादौ तुन्दिलान्तःकरणो
बहिर्विषयसंबन्धाभिबन्धिबोधविधुरो मध्यंदिनातिक्रममपि ना<flag>शा</flag>ज्ञासीत् । ततो भिक्षानिमित्तं प्रति-
निरगात् । ततो ऽम्बरपदवीमवगाहमाना बलाका तस्योपर्यदूषयत् । यावता उपरि पश्यति तावता
बलाकामालुलोके । ततस्तां सासूयमशपत् । शापवितरणसमयसमनन्तरमेव भुवस्तलं सा गतासुः पपात ।
तदवेक्ष्य देवशर्मा मनसि महान्तमनुतापमाससाद । वराकः प्राणी वृथैव गरीयांसं निग्रहं ग्राहितः ।
अल्पीयस्यपराधे दण्डबाहुल्यमासञ्जितं कोपपराधीनतया न किंचिद<flag>शा</flag>ज्ञासिषं तपसो ऽस्मद्विहितस्य
परिप्लोषः समवर्तिष्ट ।
 
क्रोधो वैवस्वतो राजा तृष्णा वैतरणी नदी ।
विद्या कामदुघा धेनुः संतोषो नन्दनं वनम् ॥