शुकसप्ततिः /35
This page has been fully proofread twice.
त्यो ऽयं परिचितः पुरुष इति त्रिलोचनो विचारचतुरसमीहो जातो ऽस्ति । तदनु मदनवती तत्सं -
निधानमागत्य वचनं प्रपञ्चयांचकार । भवन्त एतमुपलक्षयन्ति न वा । मदीयो मातृष्वस्रीयो भ्रातायं
धवलनामधेयः । मत्पिता भवद्भ्यो मां प्रादात् । तदानीमारभ्य द्वादशाब्दावधि नागतवानसौ । एतज्ज-
ननी निमिमील । ततस्तज्जनितदुःखहरात्कान्दिशीयहृदयसंनिधान जन्मा जगाम । इत्यभिधाय तमवेक्ष्य
वेपमानां रुदन्तीं तां संसारनिःसाराविष्करणगिरा समाश्वासयत् । तदनन्तरमागताय तस्मै श्यालाय
धवलाय मदनवत्या एव मन्दिरे निवासो दत्तः । ततो रात्रौ समागत्य मदनवती धवलपर्यङ्कमध्यरुक्षत् ।
तदा तेन समागता साभ्यवदत् । यदीच्छसि आवयोरत्यन्तमभियोगं तर्हि तदानीमिदं सुकरमौचित्यचातुर्यं
पश्येति तन्निशम्य व्याहार्षीत् । तथेति । पुनराह मदनवती । पतिवञ्चननिदानं चातुर्यमहं रचयामि । त्वं
मां यथासुखं भजस्वेत्युक्त्वोपविवेश । तदा धवलो ऽसौ न प्रसरं करोति । ततस्तदाश्रुत्य प्रगुणीचकार
वाणीं सा वाणिनी । त्वं गुणाग्रगण्यो ऽसि । त्वं तन्निराकरणद्वारावजिगृणीषुरसि धवल । पशुपतेः
परमोपासको ऽसि । तदा धवलो ऽसौ तामवदत् । कुतो मामत्रानीतवती । कं वोपायं करवाण्यहम् ।
तदनु सा यदि मदीयां गिरं नाङ्गीकरोषि तदा त्वामेव दण्डयिष्ये । इत्युक्त्वा मुषितास्मीत्याम्रेडिते
गिरं प्रागल्भयत् । तदनु तस्या आम्रेडितेन मुषितास्मीत्यनेन शब्देन अमुष्याः प्राबोधिषत जनाः
पतिप्रभृतयः । ततो ऽसौ तस्याश्चरणयोर्निपपात । एकदा मा मां भीषय । हृदयवल्लभे मां रक्ष । तदनु
ते मतं निर्वर्तयिष्यामि । इत्यवोचत् । तर्हि प्रभावति सा तन्निजव्याहृतं कथमन्यथयत् । ततस्तदवगमाय
प्रभावती विचारमनुभूय भूयः स्वबुद्धिदर्पणे तदप्रतिबिम्बितं बुद्धाध्वा ततः शर्वर्यामतीतायामण्डजं
व्याजहार । त्वमेव तमुपायं व्याहरतादिति । सो ऽपि बभाषे प्रभावतीम् । तदा सा मदनवती तं
ब्राह्मणं बभाण । त्वं केशानुन्मुक्तग्रन्थीन्विहाय शिथिलितसकलापघनो भूत्वा निद्रामासादयेत्यभिधाय
तस्य विषमशराशुशुक्षणीसंधुक्षणं पूर्वपरिकल्पितदुग्धं समन्ततः प्राकिरत् । तदनु मदनवतीपतिर्दी -
पिकासनाथो धावमान आजगाम । किमेतदजनिष्टेति तां प्रति प्रासोष्ट वाचम् । ततः सा रुदितं
परिशीलयन्ती प्रोवाचामुम् । मुषितास्मीत्याम्रेडितोदीरितस्येममर्थं शृणु प्राणनाथ । अकरुणः कृतान्तो
मदीयं माणिक्यं कवलीकुर्ववाणो ऽस्तीति । ततस्त्रिलोचनस्तं लोचनगोचरीकुर्वन्मदनवतीं जगाद । त्वमत्र
सयत्नाधितिष्ठेत्युक्ते साब्रवीत् । किं मम यत्नेन यदि भवता एतद्रक्षणे सामर्थ्यमुज्जृम्भते । तदा रक्षत ।
एतस्य विषूचिका संजातास्ति । एतावत्समयपर्यन्तं वमति स्म । इदानीमचेतनो निश्चेष्टो भूत्वावस्थितो
ऽस्ति । ततस्त्रिलोचनः प्रोवाच । मा दुःखं बिभृहि । उपद्रवस्तु गरीयानुदितो ऽभूत् । परं दैवगत्या
व्यपोहितं दुष्टमन्नं बहिरपतत् । नातः परं विषूचिका । त्वमेव तत्संनिहिता भव । यदि राजात्रावुपद्रवो
गरीयान् जायेत तदा ह्येवंविधं वक्तव्यं ममेत्यभिधाय निरगात्त्रिलोचनः । ततस्तौ द्वावपि सुखेन
विषयरसोपसेवनमाबिभ्राताम् । तर्हि प्रभावत्येतावद्बुद्धिबाहुल्यवैभवप्रोद्भवः स्फुरति चेद्विधेर्निर्वहणं
जानीषे तदानीं यातु भवती ॥
इति एकोनविंशती कथा ॥ १९ ॥
पुनरपि प्रभावती प्रश्नप्रसङ्गिनी पक्षीन्द्रं प्रत्यर्पयद्गिरः । सो ऽपि कान्तिमतीव आयासविस्तरं तितीर्षसि
चेत्तदानीमिदमादर्तव्यम् । इति तामुज्जगार गिरम् । ततस्तद्वृत्तान्तावगमं प्रभावत्या पृष्टः पक्षीन्द्रः प्राह ।
प्रभापुराभिधानं नगरम् । तत्र मन्दबुद्ध्यभिहितः कुम्भकारः । तस्य पत्नी कान्तिमती । सा व्यभिचार -
निरता । कदाचिदुपरमणेन समं मन्दिरमध्यमध्यास्ते । ततस्तस्याः पतिरापतितः । तर्हि वावदोहि प्रभावति
तस्मिन्समये सा कमुपायमचीचरत् । प्रभावती विचारपरा प्रावर्तत । तदुत्तरं नाज्ञासीत् । ततः शुकः
प्रवक्तुं प्रचक्रमे । भर्तारमागतमभिवीक्ष्य सा देवदत्तमवदत् । त्वमेनं बुर्बुरद्रुममध्यारोह । मा किमपि
वाचं प्रयुङ्क्ष्व । अहमुत्तरं करवाणि । ततो ऽसौ भयविद्रुतो वसनविरहितो बुर्बुरद्रुममध्यारूढवान् ।
निधानमागत्य वचनं प्रपञ्चयांचकार । भवन्त एतमुपलक्षयन्ति न वा । मदीयो मातृष्वस्रीयो भ्रातायं
धवलनामधेयः । मत्पिता भवद्भ्यो मां प्रादात् । तदानीमारभ्य द्वादशाब्दावधि नागतवानसौ । एतज्ज-
ननी निमिमील । ततस्तज्जनितदुःखहरात्कान्दिशीयहृदयसंनिधान जन्मा जगाम । इत्यभिधाय तमवेक्ष्य
वेपमानां रुदन्तीं तां संसारनिःसाराविष्करणगिरा समाश्वासयत् । तदनन्तरमागताय तस्मै श्यालाय
धवलाय मदनवत्या एव मन्दिरे निवासो दत्तः । ततो रात्रौ समागत्य मदनवती धवलपर्यङ्कमध्यरुक्षत् ।
तदा तेन समागता साभ्यवदत् । यदीच्छसि आवयोरत्यन्तमभियोगं तर्हि तदानीमिदं सुकरमौचित्यचातुर्यं
पश्येति तन्निशम्य व्याहार्षीत् । तथेति । पुनराह मदनवती । पतिवञ्चननिदानं चातुर्यमहं रचयामि । त्वं
मां यथासुखं भजस्वेत्युक्त्वोपविवेश । तदा धवलो ऽसौ न प्रसरं करोति । ततस्तदाश्रुत्य प्रगुणीचकार
वाणीं सा वाणिनी । त्वं गुणाग्रगण्यो ऽसि । त्वं तन्निराकरणद्वारावजिगृणीषुरसि धवल । पशुपतेः
परमोपासको ऽसि । तदा धवलो ऽसौ तामवदत् । कुतो मामत्रानीतवती । कं वोपायं करवाण्यहम् ।
तदनु सा यदि मदीयां गिरं नाङ्गीकरोषि तदा त्वामेव दण्डयिष्ये । इत्युक्त्वा मुषितास्मीत्याम्रेडिते
गिरं प्रागल्भयत् । तदनु तस्या आम्रेडितेन मुषितास्मीत्यनेन शब्देन अमुष्याः प्राबोधिषत जनाः
पतिप्रभृतयः । ततो ऽसौ तस्याश्चरणयोर्निपपात । एकदा मा मां भीषय । हृदयवल्लभे मां रक्ष । तदनु
ते मतं निर्वर्तयिष्यामि । इत्यवोचत् । तर्हि प्रभावति सा तन्निजव्याहृतं कथमन्यथयत् । ततस्तदवगमाय
प्रभावती विचारमनुभूय भूयः स्वबुद्धिदर्पणे तदप्रतिबिम्बितं बुद्
व्याजहार । त्वमेव तमुपायं व्याहरतादिति । सो ऽपि बभाषे प्रभावतीम् । तदा सा मदनवती तं
ब्राह्मणं बभाण । त्वं केशानुन्मुक्तग्रन्थीन्विहाय शिथिलितसकलापघनो भूत्वा निद्रामासादयेत्यभिधाय
तस्य विषमशराशुशुक्षणीसंधुक्षणं पूर्वपरिकल्पितदुग्धं समन्ततः प्राकिरत् । तदनु मदनवतीपतिर्दी
पिकासनाथो धावमान आजगाम । किमेतदजनिष्टेति तां प्रति प्रासोष्ट वाचम् । ततः सा रुदितं
परिशीलयन्ती प्रोवाचामुम् । मुषितास्मीत्याम्रेडितोदीरितस्येममर्थं शृणु प्राणनाथ । अकरुणः कृतान्तो
मदीयं माणिक्यं कवलीकुर्
सयत्नाधितिष्ठेत्युक्ते साब्रवीत् । किं मम यत्नेन यदि भवता एतद्रक्षणे सामर्थ्यमुज्जृम्भते । तदा रक्षत ।
एतस्य विषूचिका संजातास्ति । एतावत्समयपर्यन्तं वमति स्म । इदानीमचेतनो निश्चेष्टो भूत्वावस्थितो
ऽस्ति । ततस्त्रिलोचनः प्रोवाच । मा दुःखं बिभृहि । उपद्रवस्तु गरीयानुदितो ऽभूत् । परं दैवगत्या
व्यपोहितं दुष्टमन्नं बहिरपतत् । नातः परं विषूचिका । त्वमेव तत्संनिहिता भव । यदि रा
गरीयान् जायेत तदा ह्येवंविधं वक्तव्यं ममेत्यभिधाय निरगात्त्रिलोचनः । ततस्तौ द्वावपि सुखेन
विषयरसोपसेवनमाबिभ्राताम् । तर्हि प्रभावत्येतावद्बुद्धिबाहुल्यवैभवप्रोद्भवः स्फुरति चेद्विधेर्निर्वहणं
जानीषे तदानीं यातु भवती ॥
इति एकोनविंशती कथा ॥ १९ ॥
पुनरपि प्रभावती प्रश्नप्रसङ्गिनी पक्षीन्द्रं प्रत्यर्पयद्गिरः । सो ऽपि कान्तिमतीव आयासविस्तरं तितीर्षसि
चेत्तदानीमिदमादर्तव्यम् । इति तामुज्जगार गिरम् । ततस्तद्वृत्तान्तावगमं प्रभावत्या पृष्टः पक्षीन्द्रः प्राह ।
प्रभापुराभिधानं नगरम् । तत्र मन्दबुद्ध्यभिहितः कुम्भकारः । तस्य पत्नी कान्तिमती । सा व्यभिचार