This page has been fully proofread twice.

प्रकल्प्य तस्मात्संकोचातिशयादात्मानमुदवहत् । भवत्याः सख्यो भवती वाभिदधातु । ततः प्रभावती
तच्चिन्तनानुसंधानावधानदत्तचित्ता निशीथिनीमनीनयत्तमुपायं नावगच्छत् । ततः पतत्रिणमनुयुनक्ति
स्म । प्राह च सो ऽपि । आकर्णय प्रभावति । गृहान्तर उपधवसहितां विलासरसिकां सुभगां जगाद
सा । भर्ता समेष्यति । त्वं देहल्या उपरि गलितबन्धनं कचकलापं विधाय भ्राम्यन्मस्तका व्याजृम्भमा -
णवदना घूर्णायमानाङ्गा भव । तदन्वहमुत्तरं रचयिष्यामि । ततः सुभगा तथैव व्यवसितमादृतवती ।
तदा सलवणदेवः शृङ्गारवतीमवादीत् । एतस्याः किमेतदजायत । ततः साभिवीक्ष्य तं व्याचष्ट । ज्वा -
लयन्तु भवन्तः स्वसमीहितम् । वराक्या एतस्या उपरि परिभ्राम्यद्भ्रमविभ्रमाविर्भावापातनाय प्रबद्ध -
प्रयत्ना वर्तन्ते । तन्निशम्य सो ऽप्यधात् । किमहमकार्षं कस्मान्मह्यं क्रुध्यसि । ततः साभ्यधात् । भवन्त
एतान्वटप्ररोहान्समानिन्यिरे । एतस्मिन्वटे वटयक्षिणी निवसति । तर्हि तज्जनिता बाधा पीडयतीमाम् ।
अत एतान्प्ररोहान्नीत्वा तत्रैव स्थापयन्तु । इतरथा एतस्याः प्रतिक्षणं बाधाधिक्यं भविष्यति । तारुण्य -
सौन्दर्यसौभाग्यपरिकलितशरीरसंपदियम् । यदि तथाविधः स को ऽपि भूतविशेष एतस्याः शरीरमा -
विश्य स्थास्यतीति कदाचन ततः पुनः किं करिष्यते । इत्यभिधाय रोधनं विदधाना विकृतवाक्यानि
व्याहरन्ती अधिष्ठितस्कन्धप्ररोहदशवटप्ररोहभारं पूर्वस्थानमगमयत् । तस्मिन्ते सति निरकासयद्देवदत्तं
गृहमध्यात् । तर्हि प्रभावति प्रतिभापरिकल्पितोत्तरविशेषा प्रभवसि चेत्तदा साधय ॥

इत्यष्टादशी कथा ॥ १८ ॥
 
अन्यस्मिन्दिने कुमुदकोशनन्दिनी विनयकन्दर्पस्य संकेतनिकेतनगमनाय शुकं वक्ति स्म । सो ऽप्यवादीत् ।
मदनवतीवोत्तरवितरणे प्रभुतामालम्बसे चेत्तदानीं व्रज । ततस्तच्चरितावगमाय प्रभावतीभावितप्रश्नः
पक्षीन्द्रो ऽप्याददे वाचम् । आकर्णय । कौमुदीदंहिनी नाम ग्रामः । तत्र त्रिलोचनसंज्ञो रावुत्तः । तस्य
सहचरी मदनवतीसा चातीव सौन्दर्यभाववती व्यभिचारचातुर्यविरचनाप्रपञ्चान्वितपरिचयापि परं
प्रसङ्गं न प्राप्नोति स्म परितो रक्षकमनुष्यनिषिद्धबहिर्गमना । इत्थमतिक्रामति काले पर्वविशेषेक -
स्मिन्गङ्गावगाहाय भर्त्रानुज्ञातगमना गृहीतोपचारपरिकरा चेटीद्वितीया प्रकटितभवभक्तिधूर्जटिदृ -
ष्टिनिकटीकरणाय समाटीकते स्म शिवालयम् । सा च विलासाभिव्यक्तिपटीयसी तरंगितापाङ्गतटीका -
भिनयप्रवर्तित्रुटी स्थगितद्विपटी प्रपञ्चितारभटी स्फुटीभवति समकुटीचरोच्चाटीकरणमूर्तिस्तदनु मद -
नाधिदेवतेव मूर्तिमती तस्मात्करटिचर्मकुटनिकटाद्व्याघुट्य पर्यटन्ती खण्डपरशुभयपरित्यक्तकार्मुकं
काममिवापरं वाडवं मध्येपथमद्राक्षीत् । सा तं दृष्टिदूतीबोधितसंकेतं कलाकलापकोविदानामग्रगण्यं
तद्दूदृक्पल्लवितमदनदावपावकं तदभिप्रायावबोधदत्तावधानं निजपरिसरमानिनाय मानिनी ।
 
उदीरितो ऽर्थः पशुनापि गृह्यते वहन्ति नागाश्च हयाश्च चोदिताः ।
अनुक्तमप्यूहति पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः ॥
आहारनिद्राभयमैथुनं च सामान्यमेतत्पशुभिर्नराणाम् ।
ज्ञानं नराणामधिको विशेषो ज्ञानेन हीनः पशुभिः समानः ॥
 
ततस्तदुपकण्ठमागत्य प्रयुङ्गेक्ते स्ववाचम् । त्वं कस्मान्मां समानैषीः । तदभिधेहि प्रयोजनम् । ततस्तया
व्याहारि । मम त्वदीयाभिलाषः समुपनीपन्नः । तर्हि त्वया मदीयमगारमागन्तव्यम् । मदीयो भर्ता
त्वया संगन्तव्यः । अहं मत्पतिमभिधास्यामि । मदीयो मातृष्वस्रीयो भ्रातासाविति । भवतापि तु
मद्वचनानुसरणमनुकर्तव्यम् । इत्थमनया रीत्या कानिचिद्दिनानि साटोपभोगावगाहनपरिनिष्ठितकर -
णगणानिरस्तसारं संसारं कलितसारं कुर्वीमहि । ततो ऽसौ तद्वचनाद्ब्राह्मणस्तद्गृहानाजगाम । तस्य
भर्तारं त्रिलोचनं चक्षुर्विषयीकृतवान् । नमश्चकार त्रिलोचनम् । स तस्मिन्समय उत्स्मयते स्म । कुत्र -