शुकसप्ततिः /33
This page has been fully proofread twice.
ततस्तद्वचनावगमान्नरपति:तिः पुष्पहासमुन्मोच्य प्रधानमुद्राधिकारं च विधाय किमिति तदानीं न
त्वमहासीरिति तमन्वयुङ्क्त । तदानीं राजादेशमासाद्यामात्यो ऽप्यवादीत् । देव इत्यस्ति ।
सिद्धमन्त्रौषधं धर्मं ग्रहच्छिद्रं च मैथुनम् ।
बन्धनं चावकाशं च मतिमान्न प्रकाशयेत् ॥
देव एनमप्राक्षीत् । तदानीं रहस्यमपि वक्तव्यमेव । मनःसंमोहिनीनामधेया मदीया गृहिणी । सा जीवा -
दप्यत्यन्ततया प्रणयपात्रम् । तां विहाय कामपि कामिनीं न परिशीलयामि । किं तु । सापि व्यभिचरन्ती
मम दृगयनमाससाद । अत एव तदानींतनदिने मम मनसि न कञ्श्चन सुखलवाश्रयः । किं तु स्वैरोज्जा-
गरदुःखसागरान्तर्गतगुरुगरोद्गारकलितगाम्भीर्यं मम मानसं कंचन विशेषमध्यगच्छत् । तस्माच्चित्तं न
हास्ये सोत्साहे प्रत्यासक्तिमाबध्नाति । इति प्रधानवचः श्रवणान्महीभर्तुः हास्यमाविरासीत् । किं तु । तद्धा -
स्यरसपरंपरापरिस्फूर्जदूर्जस्वलप्रतिहारप्रभावो महीभार्यावान्करस्थितेन बहुलपरिमलसद्गुणगणोदयकु -
सुमस्तबकेन कामकलिकां प्राणेश्वरीं प्रहृतवान् । तेन प्रहारेण मदकलितकपोला प्लवगजाक्षतनलिनीम -
वनीकारसोदरभाजा संमोहमहोर्मिगृहीतहृदया व्यरचि नरेन्द्रसहचरी । राजा च चेलाञ्चलेन तन्मूर्च्छा -
पगमाय पवनाहतिमातनोति । तत्समीक्ष्य पुष्पहासस्य सहसा हासः प्रावर्तिष्ट । सदस उपरि पुष्पासारः
प्रापतत् । तदालक्ष्य क्षितीश्वरः पुष्पहासमाससाद गिरा । पुष्पहास त्वमात्मानं स्वामिभक्तं ख्यापयसि ।
तर्हि मदीयायाः प्राणप्रियायाः प्राणस्थानसमानो यः क्षणः प्रतिक्षणं प्रवर्तमानो ऽस्ति मूर्च्छोल्ला -
सितैतादृशी कष्टा दशा प्रावरीवर्ति तद्धर्षोत्करेण हास्यं भवतः प्रासंजयत् । ततः पुष्पहासो जगाद
राजानम् । देव यद्यभयदानं दातुमीशिषे तदा वक्ष्यामि । वावदीहीति दत्तं मयाभयं तवेति नृप -
तिनाभिहितः पुष्पहासो बभाषे । देव त्वदीयेयं प्राणेश्वरी कामकलिका । अस्या गिरा मत्स्या अपि
मुमुदिरे । सेयं पतिव्रता त्रियामायां मन्दुरासु मान्दुरिकनिकटमटीकिष्ट । दुष्टाशया किमिति काला -
तिक्रममकार्षीस्त्वमिति अभिधाय मान्दुरिकस्ताडितवानेतां कशाभिः पृष्ठभागे । अतः परं त्वरितगत्या
तवान्तिकमागमिष्यामीत्यभिधायेदानींतनो ऽपराधः क्षन्तव्यस्त्वयेति चरणयोरपतदियम् । किं तत्प्रहा -
रैरेतस्या न कश्चिद्बाधाविर्भावः प्रावर्तत । इदानीं भवद्विलसनचितकुसुमस्तबकसंपर्कपराक्रान्तकर्कशक्र -
कचचक्रवाबालक्रमा क्षणसंक्रान्तविक्रमोपक्रमातिक्रान्तघैधैर्यप्रक्रमा महतीं मूर्च्छाछां जगाहे । यद्येतन्मदभिहितं
प्रथते मिथ्यात्वाय तदानीमेव तस्याः पृष्ठभागे कशाताडनप्रतिफलनं लक्षणीयं देवेन । इत्यभिहिते
महीपतितिलकस्तत्कौतुकालोकनायेक्षितवांस्तस्याः पाश्चात्यापघनम् । तदा प्रहारप्रतिबिम्बान्यद्राक्षीत्। ।
तदालक्ष्य विक्रमादित्यो वैराग्यप्रकर्षं प्राप्तवान् । तर्हि प्रभावति बालसरस्वती यथा आत्मन आयासं
परस्योपरि प्राक्षिपदुपकाराविष्कारेण प्रधानमुन्मोचितवती इत्युपायचातुर्यं विशदयसि चेत्तदा -
नीमभिसर ॥
इति सप्तदशी कथा ॥ १७ ॥
पुनः प्रभावतो प्रदोषकाले विनयकन्दर्पोपान्तप्राप्तये पक्षिणं पप्रच्छ । सो ऽप्यवादीत् । देवि शृङ्गारवतीव
व्यसननिरसने प्रसृमरसंविद्रसा<error>नृ<।error><fix>नु<।fix>सारिणी भवसि चेत्तदा याहीत्यभ्यधात् । किं तद्वृत्तान्तम् । वावदीतु
भवानिति तया नियुक्तः पक्षीन्द्रो वाचं विस्तारयति स्म । शृणु श्रवणालंकरणवाणि । राजपुराभिधा -
ने नगरे सलवणदेवाख्यः कृषीवलः । तस्य द्वे स्त्रियौ । एका शृङ्गारवती अन्या सुभगा च । ते द्वे अपि
व्यभिचारानुरक्ते संभूय व्यभिचरतः । कदाचित्सुभगा मन्दिरमध्यवर्तिनी उपपतिना समं विशेषसुखं
प्रचयन्ती पञ्चशरनरपतिचापविद्यासहचरी चरितार्था वर्तते स्म । तावता तस्या भर्ता न्यग्रोधप्ररोह -
संभारं वृत्तिविभागग्रथनाय समानीतवान् । तर्हि व्याचक्ष्व प्रभावति । तस्मिन्समये कं नाम उपायं
त्वमहासीरिति तमन्वयुङ्क्त । तदानीं राजादेशमासाद्यामात्यो ऽप्यवादीत् । देव इत्यस्ति ।
सिद्धमन्त्रौषधं धर्मं ग्रहच्छिद्रं च मैथुनम् ।
बन्धनं चावकाशं च मतिमान्न प्रकाशयेत् ॥
देव एनमप्राक्षीत् । तदानीं रहस्यमपि वक्तव्यमेव । मनःसंमोहिनीनामधेया मदीया गृहिणी । सा जीवा
दप्यत्यन्ततया प्रणयपात्रम् । तां विहाय कामपि कामिनीं न परिशीलयामि । किं तु । सापि व्यभिचरन्ती
मम दृगयनमाससाद । अत एव तदानींतनदिने मम मनसि न क
गरदुःखसागरान्तर्गतगुरुगरोद्गारकलितगाम्भीर्यं मम मानसं कंचन विशेषमध्यगच्छत् । तस्माच्चित्तं न
हास्ये सोत्साहे प्रत्यासक्तिमाबध्नाति । इति प्रधानवचः
स्यरसपरंपरापरिस्फूर्जदूर्जस्वलप्रतिहारप्रभावो महीभार्यावान्करस्थितेन बहुलपरिमलसद्गुणगणोदयकु
सुमस्तबकेन कामकलिकां प्राणेश्वरीं प्रहृतवान् । तेन प्रहारेण मदकलितकपोला प्लवगजाक्षतनलिनीम
वनीकारसोदरभाजा संमोहमहोर्मिगृहीतहृदया व्यरचि नरेन्द्रसहचरी । राजा च चेलाञ्चलेन तन्मूर्च्छा
पगमाय पवनाहतिमातनोति । तत्समीक्ष्य पुष्पहासस्य सहसा हासः प्रावर्तिष्ट । सदस उपरि पुष्पासारः
प्रापतत् । तदालक्ष्य क्षितीश्वरः पुष्पहासमाससाद गिरा । पुष्पहास त्वमात्मानं स्वामिभक्तं ख्यापयसि ।
तर्हि मदीयायाः प्राणप्रियायाः प्राणस्थानसमानो यः क्षणः प्रतिक्षणं प्रवर्तमानो ऽस्ति मूर्च्छोल्ला
सितैतादृशी कष्टा दशा प्रावरीवर्ति तद्धर्षोत्करेण हास्यं भवतः प्रासंजयत् । ततः पुष्पहासो जगाद
राजानम् । देव यद्यभयदानं दातुमीशिषे तदा वक्ष्यामि । वावदीहीति दत्तं मयाभयं तवेति नृप
तिनाभिहितः पुष्पहासो बभाषे । देव त्वदीयेयं प्राणेश्वरी कामकलिका । अस्या गिरा मत्स्या अपि
मुमुदिरे । सेयं पतिव्रता त्रियामायां मन्दुरासु मान्दुरिकनिकटमटीकिष्ट । दुष्टाशया किमिति काला
तिक्रममकार्षीस्त्वमिति अभिधाय मान्दुरिकस्ताडितवानेतां कशाभिः पृष्ठभागे । अतः परं त्वरितगत्या
तवान्तिकमागमिष्यामीत्यभिधायेदानींतनो ऽपराधः क्षन्तव्यस्त्वयेति चरणयोरपतदियम् । किं तत्प्रहा
रैरेतस्या न कश्चिद्बाधाविर्भावः प्रावर्तत । इदानीं भवद्विलसनचितकुसुमस्तबकसंपर्कपराक्रान्तकर्कशक्र
कचचक्र
प्रथते मिथ्यात्वाय तदानीमेव तस्याः पृष्ठभागे कशाताडनप्रतिफलनं लक्षणीयं देवेन । इत्यभिहिते
महीपतितिलकस्तत्कौतुकालोकनायेक्षितवांस्तस्याः पाश्चात्यापघनम् । तदा प्रहारप्रतिबिम्बान्यद्राक्षीत्
तदालक्ष्य विक्रमादित्यो वैराग्यप्रकर्षं प्राप्तवान् । तर्हि प्रभावति बालसरस्वती यथा आत्मन आयासं
परस्योपरि प्राक्षिपदुपकाराविष्कारेण प्रधानमुन्मोचितवती इत्युपायचातुर्यं विशदयसि चेत्तदा
नीमभिसर ॥
इति सप्तदशी कथा ॥ १७ ॥
पुनः प्रभावतो प्रदोषकाले विनयकन्दर्पोपान्तप्राप्तये पक्षिणं पप्रच्छ । सो ऽप्यवादीत् । देवि शृङ्गारवतीव
व्यसननिरसने प्रसृमरसंविद्रसा<error>नृ<।error><fix>नु<।fix>सारिणी भवसि चेत्तदा याहीत्यभ्यधात् । किं तद्वृत्तान्तम् । वावदीतु
भवानिति तया नियुक्तः पक्षीन्द्रो वाचं विस्तारयति स्म । शृणु श्रवणालंकरणवाणि । राजपुराभिधा
ने नगरे सलवणदेवाख्यः कृषीवलः । तस्य द्वे स्त्रियौ । एका शृङ्गारवती अन्या सुभगा च । ते द्वे अपि
व्यभिचारानुरक्ते संभूय व्यभिचरतः । कदाचित्सुभगा मन्दिरमध्यवर्तिनी उपपतिना समं विशेषसुखं
प्रचयन्ती पञ्चशरनरपतिचापविद्यासहचरी चरितार्था वर्तते स्म । तावता तस्या भर्ता न्यग्रोधप्ररोह
संभारं वृत्तिविभागग्रथनाय समानीतवान् । तर्हि व्याचक्ष्व प्रभावति । तस्मिन्समये कं नाम उपायं