शुकसप्ततिः /31
This page has been fully proofread twice.
तदनु यामिनीप्रथमप्रहरसमये निर्गमिष्यामि । अद्यतनो गमनविधौ मुहूर्तयोगो ऽपि साधकतमो
ऽस्ति । इति संकेतं तस्यै दत्तवान् । तदनु रात्रौ द्वावपि निरगाताम् । ततः कस्मिंश्चित्प्रदेशे तां गृहीत्वा
तां तत्र परित्यज्य तदीयं सकलमपि धनमपाहार्षीत् । ततः सा परमनुतापमापतत् । मयाभीक्ष्णमसा-
ध्वकारि । सिद्धो ऽपि निजः कौमारः परित्यक्तः । अन्यच्च स पापिष्ठतम उपपतिरपि मां विहाय
गतवान् । संनिधौ मम धनमासीत्तदपि गृहीत्वापलायिष्ट । तर्हि राजबिडौजस्तवापि तथात्वापत्तिराप -
तिष्यति । त्वं निजे मनसि पद्यार्थं विधत्स्वेत्याश्राव्य महीन्द्रं मन्त्रिपुत्री निजं वसत्यनप्राशस्त्यमङ्गीचकार ॥
इति चतुर्दशी कथा ॥ १४ ॥
अथान्यस्मिन्दिने बालसरस्वतीमानाव्य्यानिमिषहास्यहेतुमपृच्छन्नृपतिचक्रशिरःपरिगृहीतशासनः । ततः
साप्यवादीद्भूभुजम् । असुद्रुमजम्बुकस्य गोत्रदूरीकरणाद्यदजनिष्ट तथात्वापत्तिर्भवतो भविष्यति । ततो
नृपतिस्तां तु वृत्तान्तमपृच्छत् । सा चाबीभणत् । चन्द्रपुराख्यं नगरम् । तत्र<error>सृ</error> <fix>श्रु</fix>गाल एको रात्रावेवेक्षु -
भक्षणाय सिकतिलनदीतीरं गच्छति । ते तु तद्रक्षकाः परितो निपुणगत्या भ्राम्यन्ति । इत्थं स जम्बुक:कः
क्षेत्रमध्ये प्राविक्षत् । तदन्तः प्रवेशध्वनिमाकर्ण्य काचन शुनी सृगालमनुससार । सृगालो अऽपि तद्भया-
द्दिग्भ्रममासाद्य नगरमध्यमार्गमशिश्रियत् । स तु तेन पथा गच्छन्नीलीरागकरणान्नीलीभूतकुण्डलेषु
पङ्क्तियावस्थानेषु पलायमान:नः तमेव मार्गमनुसरन्नात्मानं कांदिशीक:कः प्राक्षिपत् । पूर्वस्मात्कुण्डला-
न्निर्गत्य तत्पुरोऽवस्थायिनि एवं क्रमगत्या सर्वेष्वपि निपत्य निपत्य निरगात् । ततस्तद्रागसक्तविग्रहो
ऽसावन्यथात्वमेव भेजे क्रोष्टुत्वमपागच्छत् । तदनु काननमनुससार । ततस्तं वीक्ष्य सर्वे ऽपि वनवासिनो
विस्मयमतिमर्यादं भेजिरे । अलक्षितपूर्वं कुतः समागतमिति तत्परितः सर्वे ऽवतस्थिरे । कस्त्वं कस्मिन्स्थाने
त्वं पूर्वम् । कुतः परिचितिरिति तमप्राक्षुः । वनावनीन्द्रो ऽहं वनोपद्रवनाशेन वननिवासिनां नाना -
जातीयानां मृगाणामहमेव मुख्यनायकः । भवद्भिः सर्वैरहं वरिवसितव्यः । इत्यभिधाय तेषां परिवृढत्वेन
वर्तमानो निवसति स्म । सिंहशार्दूलास्तदुपासनाय प्रत्यवसरं परिसरन्ति । स तु जम्बुको वाचंयमता -
लम्बने न मामेते लक्षयिष्यन्तीति भीत्या फेरुफेट्कारमपि न परिचिनोति । यामिन्यां तु सर्वे ऽपि
फेरवस्तं परिवार्य शेरते । अङ्गरक्षामपि स्वत एव कुर्वते । ततस्तत्परितो ऽनेकशो मृगविशेषा आसते ।
इत्थं प्रवर्तमानस्य तस्य कदाचिदीदृशी दुर्मतिरुदियाय । स्वयूध्थ्यानित्थमभाषिष्ट । भवन्तो मत्संनिधा -
नाद्दूरीभवन्तु । अहमङ्गरक्षान्नव्यानेवात्मन उपान्ते स्थापयिष्यामि । तैस्तु तच्छ्रुत्वा शिक्षयितुमादद्रे ।
अरे पापतम यथैव तिष्ठसि तथैव तिष्ठ । विनाशमवाप्स्यति भवान् । ततो ये दूरीकृताः तैः परतो
गत्वा मन्त्रसंप्रथरो कृतः । इदानीमेतस्य यथा अपाय आयाति तथोपायं परिचिनुमः । परतो गत्वा
सर्वे ऽपि संभूय फेरुफेरवं विदध्मः । तन्निशमनादेतस्यापि तदाविष्करणे मतिरुत्पत्स्यते । यावतासौ
फेरुघोरवाशितं विधास्यति तावता सर्वे ऽप्यमुं जम्बुको ऽयमित्यभिज्ञास्यन्ति । तथा त्वागत्य शकलीकरि -
ष्यन्ति । इति निश्चित्य सर्वे ऽपि दूरं गत्वा ध्वाङ्क्षन्ति स्म । तं फेरूणामारवं श्रुत्वा मया ध्वाङ्क्षितव्य -
मिति तस्य कुमतिरुदयासीत् । तां मतिं निरोद्धुं न कथंचनाप्यसौ शक्नोति । ततस्तैः संनिधायिभिर्व्या -
घ्रादिभिरसावुपलक्षितः । परस्परमभ्यधुश्च । पापतमो जातिहीनः सृगालो ऽयमेतावतो दिवसानात्मनः
परिचर्यानस्मानकारयत् । तर्हि शेतां दुरात्मा । तर्ह्येनं चारुरीत्या शिक्षयाम । तदानीमेव साध्वित्य -
भिधाय संभूय सर्वे ऽपि विदार्य तं शकलीकृतवन्तः । असुद्रुमो ऽपि जीवितशेषतया स्थितवान् । तदनु
दुःखं कर्तुं प्रावर्तत । अहं स्वगोत्रजानां वारितं नाचरितवान् । तत एव एतादृशीं दशामहमाप्तवान् ।
राजन्भवानपि वारितं नाचरतु । नो चेत्पश्चाद्दुःखासक्तिपीडितो भविष्यसि ॥
इति पञ्चदशी कथा ॥ १५ ॥
ऽस्ति । इति संकेतं तस्यै दत्तवान् । तदनु रात्रौ द्वावपि निरगाताम् । ततः कस्मिंश्चित्प्रदेशे तां गृहीत्वा
तां तत्र परित्यज्य तदीयं सकलमपि धनमपाहार्षीत् । ततः सा परमनुतापमापतत् । मयाभीक्ष्णमसा-
ध्वकारि । सिद्धो ऽपि निजः कौमारः परित्यक्तः । अन्यच्च स पापिष्ठतम उपपतिरपि मां विहाय
गतवान् । संनिधौ मम धनमासीत्तदपि गृहीत्वापलायिष्ट । तर्हि राजबिडौजस्तवापि तथात्वापत्तिराप
तिष्यति । त्वं निजे मनसि पद्यार्थं विधत्स्वेत्याश्राव्य महीन्द्रं मन्त्रिपुत्री निजं वसत्यनप्राशस्त्यमङ्गीचकार ॥
इति चतुर्दशी कथा ॥ १४ ॥
अथान्यस्मिन्दिने बालसरस्वतीमाना
साप्यवादीद्भूभुजम् । असुद्रुमजम्बुकस्य गोत्रदूरीकरणाद्यदजनिष्ट तथात्वापत्तिर्भवतो भविष्यति । ततो
नृपतिस्तां तु वृत्तान्तमपृच्छत् । सा चाबीभणत् । चन्द्रपुराख्यं नगरम् । तत्र
भक्षणाय सिकतिलनदीतीरं गच्छति । ते तु तद्रक्षकाः परितो निपुणगत्या भ्राम्यन्ति । इत्थं स जम्बु
क्षेत्रमध्ये प्राविक्षत् । तदन्तः
द्दिग्भ्रममासाद्य नगरमध्यमार्गमशिश्रियत् । स तु तेन पथा गच्छन्नीलीरागकरणान्नीलीभूतकुण्डलेषु
पङ्क्तियावस्थानेषु पलायमा
न्निर्गत्य तत्पुरोऽवस्थायिनि एवं क्रमगत्या सर्वेष्वपि निपत्य निपत्य निरगात् । ततस्तद्रागसक्तविग्रहो
ऽसावन्यथात्वमेव भेजे क्रोष्टुत्वमपागच्छत् । तदनु काननमनुससार । ततस्तं वीक्ष्य सर्वे ऽपि वनवासिनो
विस्मयमतिमर्यादं भेजिरे । अलक्षितपूर्वं कुतः समागतमिति तत्परितः सर्वे ऽवतस्थिरे । कस्त्वं कस्मिन्स्थाने
त्वं पूर्वम् । कुतः परिचितिरिति तमप्राक्षुः । वनावनीन्द्रो ऽहं वनोपद्रवनाशेन वननिवासिनां नाना
जातीयानां मृगाणामहमेव मुख्यनायकः । भवद्भिः सर्वैरहं वरिवसितव्यः । इत्यभिधाय तेषां परिवृढत्वेन
वर्तमानो निवसति स्म । सिंहशार्दूलास्तदुपासनाय प्रत्यवसरं परिसरन्ति । स तु जम्बुको वाचंयमता
लम्बने न मामेते लक्षयिष्यन्तीति भीत्या फेरुफेट्कारमपि न परिचिनोति । यामिन्यां तु सर्वे ऽपि
फेरवस्तं परिवार्य शेरते । अङ्गरक्षामपि स्वत एव कुर्वते । ततस्तत्परितो ऽनेकशो मृगविशेषा आसते ।
इत्थं प्रवर्तमानस्य तस्य कदाचिदीदृशी दुर्मतिरुदियाय । स्वयू
नाद्दूरीभवन्तु । अहमङ्गरक्षान्नव्यानेवात्मन उपान्ते स्थापयिष्यामि । तैस्तु तच्छ्रुत्वा शिक्षयितुमादद्रे ।
अरे पापतम यथैव तिष्ठसि तथैव तिष्ठ । विनाशमवाप्स्यति भवान् । ततो ये दूरीकृताः तैः परतो
गत्वा मन्त्रसंप्रथरो कृतः । इदानीमेतस्य यथा अपाय आयाति तथोपायं परिचिनुमः । परतो गत्वा
सर्वे ऽपि संभूय फेरुफेरवं विदध्मः । तन्निशमनादेतस्यापि तदाविष्करणे मतिरुत्पत्स्यते । यावतासौ
फेरुघोरवाशितं विधास्यति तावता सर्वे ऽप्यमुं जम्बुको ऽयमित्यभिज्ञास्यन्ति । तथा त्वागत्य शकलीकरि
ष्यन्ति । इति निश्चित्य सर्वे ऽपि दूरं गत्वा ध्वाङ्क्षन्ति स्म । तं फेरूणामारवं श्रुत्वा मया ध्वाङ्क्षितव्य
मिति तस्य कुमतिरुदयासीत् । तां मतिं निरोद्धुं न कथंचनाप्यसौ शक्नोति । ततस्तैः संनिधायिभिर्व्या
घ्रादिभिरसावुपलक्षितः । परस्परमभ्यधुश्च । पापतमो जातिहीनः सृगालो ऽयमेतावतो दिवसानात्मनः
परिचर्यानस्मानकारयत् । तर्हि शेतां दुरात्मा । तर्ह्येनं चारुरीत्या शिक्षयाम । तदानीमेव साध्वित्य