शुकसप्ततिः /30
This page has been fully proofread twice.
तां च संगत्य विशालपुरीविलसितमखिलमप्यविकलं परिशीलितवानहमिति तामावेदयामास । त्वया
विशालपुरी ददृशे न वेति पृष्टे दृष्टवानहमित्यवादीत्स ताम् । तर्हि तस्य नगरस्य द्वारि किमस्तीति
संकेतविशेषं व्याहरतात् । तथा तत्सत्यतायां सर्वमपि सत्यमेवेत्यभिहिते द्वारिपक्षद्वये ऽपि दन्तिद्वयम -
स्तीति निशम्य सत्यव्यवहारो ऽयमिति संमानीकृत्य तमित्थमवादीत् । त्वं तद्वार्त्ताभिधाने वाचंयमो
भव । यदाहं त्वामापुपृच्छामि तां वार्त्तां सकलमपि वृत्तान्तमभिधेहि । इत्यभिधाय सा तमन्तरनीनयत् ।
तेन समं मनःसमीहितसुरलोकैकभुक्तिभावविलासनाव्द्यतिशयितसुरतोपचारोपचयपरिचितगहनानन्द -
संदोहाभिव्यञ्जकं पूर्वानुभवस्मरणानुसरणतापरिमितकामतत्त्वनिरस्तसमस्तैषणविषयविशेषलक्षणीयतदे-
कतानतानितान्ताद्वैतभावोपगूढमानसा सा काममप्यरक्षत मोहनमहनीयगहनमहोदये । इत्थं कालो
नाल्पीयानत्यवर्तिष्ट । स तु मुमूर्षुर्मूर्खो हृदयसमुदितमानन्दाभ्युदयं प्राप्तोअऽपि विशालपुरीवार्त्तां
तवाग्रे व्याहरामि इति प्रत्यहं तां प्रश्नयति । सा च यदाहं पृच्छामि तदा व्याहर्तव्यमिति तं निवा -
रयति सर्वदा । इत्थं स तादृशीं दिव्यनितम्बिनीं तथाविधरत्यादीन्दिव्यान्भोगान्भुञ्जानो ऽपि पुरा -
कृतविविधविषमविधेयविदलितचित्तवृत्तिस्तत्सर्वमपि सौख्यं मनसि मन्वानो व्याहरति ताम् । चरितमा -
वेदयामीति क्रियासमभिहरेण । सा च तत्रत्यानशेषसंकेतविशेषानाकर्णितवती । एतावता समस्तसंकेता -
वगमक्षण एव तस्यास्तच्छरीरं त्यक्तजीवितमजायत विशालपुरशरीरं चेतनापरीतमजनिष्ट । तदन्वसा -
वनुतापकरणे प्रावर्तत । वार्त्तां व्याहरमाणो ऽहं निषिद्धः । परमेतन्निषिद्धं नाकरवं दुष्टाकृतपरवशः ।
प्रक्षीणदेवस्य ममेदृशस्तु विपर्यस्तोपभोग अजनि । तर्हि महीपाल प्रश्नाग्रहणे योजनमस्ति । श्लोकार्थमेव
विचारयतु भवान् । इत्युक्त्वा बालसरस्वती निजनिकेतनं जगाम ॥
इति त्रयोदशी कथा ॥ १३ ॥
पुनरपि राज्ञा बालसरस्वती समाहूता । मत्स्यहास्यकारणमप्राक्षीत् । तच्छ्रुत्वा सापि ससर्ज गिरम् ।
एतदाकर्णनाद्धराधीश तवापि तथा भविष्यति यथैकस्याः पुंश्चल्या जारो ऽपि नाजायत तथा भर्तापि
न बभूव । मध्य एवावस्थिता सा कृतायासा । ततस्तन्निशम्य राजा तद्वृत्तान्तं व्याहरस्वेत्याह सचिवसुताम् ।
तदाज्ञामधिगम्य सापि राजानमाकर्णयेत्यभिधाय तद्वृत्तान्तकथनोपक्रमं प्रगुणीचकार । आभीरदेशमध्ये
तपतिनीतीरे कस्मिंश्चिद्ग्रामे कृषीवलो न्यवात्सीत् । तत्सहचर्यतिचपला । तस्याः पतिः क्षेत्र एवावतिष्ठते
सर्वदा । सा चोपपतिना समं सुखेन विषयोपभोगसुखं अङ्गीकुर्वाणा गृहे निवसति । तस्या बुद्धि -
रित्थमजायत । यं कमप्युपपतिं गृहीत्वा निर्गत्य तेनान्यत्र गतोपभोगरसानुसंधानपरतया अवलम्बते ।
इति हृदये निधाय पूर्वपरिचितमेवोपपतिं प्रति वाचं वितनोति स्म । अहं त्वया सह प्रदेशान्तरं
निर्जिगमिषामि । तर्हि गच्छामः । त्वं मामादाय निर्याायाहीत्यभिहितः सो ऽपि गिरमुज्जगार । अत्र
सुखेनैव निवसामः । त्वं निजगृहाधिष्ठात्री सुखविशेषोपभोगरसिका परिलससि । अहमप्यात्मनो मन्दिरे
सुखपरवशः परमसंतोषसमासादितपोषस्तिष्ठामि । यदावयोर्मन्मथेनावस्थोपनीपद्यते तदानीं तदपि
विधेयमनुबोभवामः । इति वर्तमानं सुखरसाभिव्यञ्जकसमयमपहाय किमन्यत्र गन्तव्यमिति अभिहिता
तेन साप्यगदत् । यदि मां न निनीषसि तर्ह्यहं मनःसमुद्दिष्टेन येन केनापि समं निर्गमिष्यामि । गृहे
किमपि विशेषधनमस्ति । तदपि संनयामि । इत्यश्रुत्य सो ऽप्यचिन्तयत् । इयं धनमपि सह निनीषति ।
तर्ह्येतया सह निर्गच्छामि । ततः परतो गत्वा विधेयविशेष आपदि तत्तथारूपमनुतिष्ठति । इति वि -
चिन्त्य वाणीविलसितेन स्वैरिणीं तामन्वैषीत् । ममापि मानसं सर्वदा एतमेवार्थमनुसंधत्ते यत्त्वां
गृहीत्वान्यत्र निर्बाधभोगविशेषानुभवो ऽभ्यस्यते । परमहमेतत्त्वां वक्तुं बिभेमि । तर्हि त्वं मदीयचित्ता -
न्तर्गतमभिप्रायमवगत्य व्याहार्षीः । अद्य त्वं सायंतनसमये मम क्रीडाधिकां समग्रां सामग्रीं सज्जीकुरुतात् ।
धनवसनादि यत्किमपि सह गृहीतव्यं वस्तु विद्यते । तथाहमप्यात्मगृहगतं सर्वविशिष्टधनं गृहीष्यामि ।
विशालपुरी ददृशे न वेति पृष्टे दृष्टवानहमित्यवादीत्स ताम् । तर्हि तस्य नगरस्य द्वारि किमस्तीति
संकेतविशेषं व्याहरतात् । तथा तत्सत्यतायां सर्वमपि सत्यमेवेत्यभिहिते द्वारिपक्षद्वये ऽपि दन्तिद्वयम
स्तीति निशम्य सत्यव्यवहारो ऽयमिति संमानीकृत्य तमित्थमवादीत् । त्वं तद्वार्त्ताभिधाने वाचंयमो
भव । यदाहं त्वामा
तेन समं मनःसमीहितसुरलोकैकभुक्तिभावविलासना
संदोहाभिव्यञ्जकं पूर्वानुभवस्मरणानुसरणतापरिमितकामतत्त्वनिरस्तसमस्तैषणविषयविशेषलक्षणीयतदे-
कतानतानितान्ताद्वैतभावोपगूढमानसा सा काममप्यरक्षत मोहनमहनीयगहनमहोदये । इत्थं कालो
नाल्पीयानत्यवर्तिष्ट । स तु मुमूर्षुर्मूर्खो हृदयसमुदितमानन्दाभ्युदयं प्राप्तो
तवाग्रे व्याहरामि इति प्रत्यहं तां प्रश्नयति । सा च यदाहं पृच्छामि तदा व्याहर्तव्यमिति तं निवा
रयति सर्वदा । इत्थं स तादृशीं दिव्यनितम्बिनीं तथाविधरत्यादीन्दिव्यान्भोगान्भुञ्जानो ऽपि पुरा
कृतविविधविषमविधेयविदलितचित्तवृत्तिस्तत्सर्वमपि सौख्यं मनसि मन्वानो व्याहरति ताम् । चरितमा
वेदयामीति क्रियासमभिहरेण । सा च तत्रत्यानशेषसंकेतविशेषानाकर्णितवती । एतावता समस्तसंकेता
वगमक्षण एव तस्यास्तच्छरीरं त्यक्तजीवितमजायत विशालपुरशरीरं चेतनापरीतमजनिष्ट । तदन्वसा
वनुतापकरणे प्रावर्तत । वार्त्तां व्याहरमाणो ऽहं निषिद्धः । परमेतन्निषिद्धं नाकरवं दुष्टाकृतपरवशः ।
प्रक्षीणदेवस्य ममेदृशस्तु विपर्यस्तोपभोग अजनि । तर्हि महीपाल प्रश्नाग्रहणे योजनमस्ति । श्लोकार्थमेव
विचारयतु भवान् । इत्युक्त्वा बालसरस्वती निजनिकेतनं जगाम ॥
इति त्रयोदशी कथा ॥ १३ ॥
पुनरपि राज्ञा बालसरस्वती समाहूता । मत्स्यहास्यकारणमप्राक्षीत् । तच्छ्रुत्वा सापि ससर्ज गिरम् ।
एतदाकर्णनाद्धराधीश तवापि तथा भविष्यति यथैकस्याः पुंश्चल्या जारो ऽपि नाजायत तथा भर्तापि
न बभूव । मध्य एवावस्थिता सा कृतायासा । ततस्तन्निशम्य राजा तद्वृत्तान्तं व्याहरस्वेत्याह सचिवसुताम् ।
तदाज्ञामधिगम्य सापि राजानमाकर्णयेत्यभिधाय तद्वृत्तान्तकथनोपक्रमं प्रगुणीचकार । आभीरदेशमध्ये
तपतिनीतीरे कस्मिंश्चिद्ग्रामे कृषीवलो न्यवात्सीत् । तत्सहचर्यतिचपला । तस्याः पतिः क्षेत्र एवावतिष्ठते
सर्वदा । सा चोपपतिना समं सुखेन विषयोपभोगसुखं अङ्गीकुर्वाणा गृहे निवसति । तस्या बुद्धि
रित्थमजायत । यं कमप्युपपतिं गृहीत्वा निर्गत्य तेनान्यत्र गतोपभोगरसानुसंधानपरतया अवलम्बते ।
इति हृदये निधाय पूर्वपरिचितमेवोपपतिं प्रति वाचं वितनोति स्म । अहं त्वया सह प्रदेशान्तरं
निर्जिगमिषामि । तर्हि गच्छामः । त्वं मामादाय निर्
सुखेनैव निवसामः । त्वं निजगृहाधिष्ठात्री सुखविशेषोपभोगरसिका परिलससि । अहमप्यात्मनो मन्दिरे
सुखपरवशः परमसंतोषसमासादितपोषस्तिष्ठामि । यदावयोर्मन्मथेनावस्थोपनीपद्यते तदानीं तदपि
विधेयमनुबोभवामः । इति वर्तमानं सुखरसाभिव्यञ्जकसमयमपहाय किमन्यत्र गन्तव्यमिति अभिहिता
तेन साप्यगदत् । यदि मां न निनीषसि तर्ह्यहं मनःसमुद्दिष्टेन येन केनापि समं निर्गमिष्यामि । गृहे
किमपि विशेषधनमस्ति । तदपि संनयामि । इत्यश्रुत्य सो ऽप्यचिन्तयत् । इयं धनमपि सह निनीषति ।
तर्ह्येतया सह निर्गच्छामि । ततः परतो गत्वा विधेयविशेष आपदि तत्तथारूपमनुतिष्ठति । इति वि
चिन्त्य वाणीविलसितेन स्वैरिणीं तामन्वैषीत् । ममापि मानसं सर्वदा एतमेवार्थमनुसंधत्ते यत्त्वां
गृहीत्वान्यत्र निर्बाधभोगविशेषानुभवो ऽभ्यस्यते । परमहमेतत्त्वां वक्तुं बिभेमि । तर्हि त्वं मदीयचित्ता