शुकसप्ततिः /29
This page has been fully proofread twice.
दुर्योधनमित्थं प्रहृतवान् । इत्यभिधाय तं तस्या उपपतिमतिबलेन प्रहारेण कपाले ताडितवान् । तथैव
व्यभिचारिण्या अपि कपालमेकघातेन शकलीकृतवान् । इत्थमसौ घृतान्धो ऽग्रजन्मा स्ववैरमसाधयत् ।
तद्भुजगस्तु कालकवलितकलेवरः । तर्हि महीनाथ त्वमाग्रहं जहीहि । पद्यस्यैवार्थमामृश । इत्युपदिश्य
प्रधाननन्दिन्यपि यथागतमगात् ॥
इति द्वादशी कथा ॥ १२ ॥
तदनु दिननाथस्योदये अवनिरमणो ऽमात्यतनूजामानाय्य जलचरहसितनिदानज्ञीप्सया अप्राक्षीत् ।
तदाश्रुत्य शापाद्बिडौजस अप्सरा राजनन्दिनी समजायत । तदन्वेको जनस्तदभ्यग्रमागतवान्स तु तस्या
अभिहितं नाकरोत्ततः स तया विरहमासादितवान् । तदन्वसावन्वतप्यत । तादृक्प्रकारस्तवापि घटिष्यते ।
इत्याकर्ण्य नृपतिस्तां तद्वृत्तान्तमप्राक्षीत् । तदनु सा बालसरस्वती तद्वृत्तान्तमवीवचत् । शृणु श्रुतिसंतो-
षकरकीर्ते । पूर्वं स्वर्गौकसामेका अप्सराः । सा च सुरनर्तकीनां मुख्यभूता । एकस्मिन्समये सा सुराणां
पुरस्तान्नृत्यन्ती । तदतिशयपरितुष्टः पुरुहूतस्तस्यै साधीयसीं नगरीमेकां पार्थक्येन प्रायच्छद्विशालपुरी -
संज्ञाम् । सा च नगरी नितरां निरुपमा । सा च देवनगरीमाश्रित्य निवसति । इन्द्रसमाराधनाय
प्रतिदिनं सेवायै समागच्छति । इत्थमेकस्मिन्दिने सुतरां सेवानिमित्तं नागच्छत् । ततः शतक्रतुः तां
शप्तवान् । त्वमस्मत्सेवानियमं निगृहीतवती । तर्हि त्वदीयं शरीरं जीवविरहितं भवन्नगर्यामेव स्थास्यति ।
तव मृतशरीरस्यारात्परिचर्यापरे द्वे स्त्रियौ स्थास्यतः । आगताय पूर्वपुरुषाय तव निर्जीवकलेवरवृत्ता -
न्तावेदनं विधास्यतो वनिते ते । ततस्त्वं तु तस्य पुरुषस्य मुखान्निजनिर्जीवशरीरस्योदन्तमाश्रुत्य तदनु
तन्नरेन्द्रनन्दिनीसंहननं हित्वा पुराप्सरसं वपुरवाप्स्यसि । तावत्समयावसानं मर्त्यलोके एवासनं तव
बोभविष्यति । सा तन्निशम्य पुनः शतक्रतुं स्वकपोलसमुल्लसत्कान्तिबलात्कारकबलीकृतकोपं विधाय
परामृशद्विशालविलसना प्रोवाच । मद्विरहिताया नगर्या न कस्यापि नायकत्वं प्रतिपाद्यम् । इति
श्रुत्वा सुरपतिर्वाचमस्राक्षीत् । यावदवधि भवती निजनगरनायकत्वमापत्स्यते तावत्पर्यन्तं तव नगर -
निवासिनः सर्वे ऽपि चैतन्यविरहिता भविष्यन्ति । ततः सा कुलिशपाणिना शप्ता राजकुमारोरीत्वेना -
वतार्षीत् । इत्थं कालकलनयासावेव नोदयं प्रतिपेदे । परमात्मनः पाणिग्रहणं प्रत्याचष्टे । आग्रहाभियुक्ता
सत्येवं वावदीति । यः कश्चिन्मत्पुरस्ताद्विशालपुरीवृत्तान्तं व्याहरिष्यति तमेवाहं भर्तृत्वेन द्रच्क्ष्यामीति ।
अनेकशो राजानो राजकुमाराश्चायान्ति परं न कश्चिदपि विशालनगरीविलासं परिशीलयति । ते
पुनरपि यथागतं गच्छन्ति । इत्थमेको धूर्तः कश्चिदासीत् । स तच्चरितं बुभुत्सुः सकलं भूमण्डलं बभ्राम। ।
ततः कोल्लापुरं क्षेत्रमासाद्य श्रीमहालक्ष्मीस्थाने ऽन्वतिष्ठत् । देवता प्रसाद्य वरं वृणीष्वेति व्याजहार ।
ततो ऽसौ । विशालपुरी का । सा कस्मिन्भूमिभागे ऽवस्थितिमादधाति । तन्नगरं मया चक्षुर्विषयीकर्तव्यम् ।
तथा प्रसीदतु भवती । इत्याकर्ण्य श्रीमहालक्ष्मीस्तस्मै विशालपुरीदर्शनाय प्रादात्पादुके । एते पादुके
चरणासक्ते कार्ये । एतावता तव समीहितप्रदेशासादनं भविष्यतीति देवताज्ञामधिगम्य स पादुके
अङ्घ्रिभ्यां परिगृह्य तरसा विशालपुरीमगमत् । तावता तत्स्थानासक्तिरजायत । ततस्तद्गत्वा सौन्दर्या -
द्यशेषातिशयगरीयसीं नगरीं चित्रानन्दसंदोहतरंगिणीलहरीनिचयसहचरीमिव लोचनगोचरीकरोति
स्म । तद्द्वारपक्षद्वये ऽपि करटिद्वयमभिवीक्ष्य बिभाय । ततः शनैः पुरस्ताद्गच्छन्करिणौ तौ चैतन्यविकलौ
कलयित्वा अन्तः प्राविक्षत् । तथान्तःस्थितानि सर्वाणि मानुषाणि जीवकलाविकलितान्यालक्ष्य पुरस्ता -
द्गच्छन्राजभवनमतिमनोहरं नयनयोरयनं नयति स्म । तत्रत्या द्वारपाला अपि चैतन्यशून्याः । तदन्वन्तः
प्रविश्य पश्यति यावता तावता एका सीमन्तिनी प्रक्षीणजीविता शयानास्ति । तत्सविधे द्वे युवती
जीविते स्तः । ताभ्यां तत्रत्यं सकलमपि वृत्तान्तं ज्ञापितो ऽसौ तां सकलामपि वार्त्तां विकलमाकलय्य
पादुकाबलेन क्षणादेव निजनगरमाससाद । सा नरेश्वरनन्दिनी नयनयोरयनीभावमानीयते तेन। ।
व्यभिचारिण्या अपि कपालमेकघातेन शकलीकृतवान् । इत्थमसौ घृतान्धो ऽग्रजन्मा स्ववैरमसाधयत् ।
तद्भुजगस्तु कालकवलितकलेवरः । तर्हि महीनाथ त्वमाग्रहं जहीहि । पद्यस्यैवार्थमामृश । इत्युपदिश्य
प्रधाननन्दिन्यपि यथागतमगात् ॥
इति द्वादशी कथा ॥ १२ ॥
तदनु दिननाथस्योदये अवनिरमणो ऽमात्यतनूजामानाय्य जलचरहसितनिदानज्ञीप्सया अप्राक्षीत् ।
तदाश्रुत्य शापाद्बिडौजस अप्सरा राजनन्दिनी समजायत । तदन्वेको जनस्तदभ्यग्रमागतवान्स तु तस्या
अभिहितं नाकरोत्ततः स तया विरहमासादितवान् । तदन्वसावन्वतप्यत । तादृक्प्रकारस्तवापि घटिष्यते ।
इत्याकर्ण्य नृपतिस्तां तद्वृत्तान्तमप्राक्षीत् । तदनु सा बालसरस्वती तद्वृत्तान्तमवीवचत् । शृणु श्रुतिसंतो-
षकरकीर्ते । पूर्वं स्वर्गौकसामेका अप्सराः । सा च सुरनर्तकीनां मुख्यभूता । एकस्मिन्समये सा सुराणां
पुरस्तान्नृत्यन्ती । तदतिशयपरितुष्टः पुरुहूतस्तस्यै साधीयसीं नगरीमेकां पार्थक्येन प्रायच्छद्विशालपुरी
संज्ञाम् । सा च नगरी नितरां निरुपमा । सा च देवनगरीमाश्रित्य निवसति । इन्द्रसमाराधनाय
प्रतिदिनं सेवायै समागच्छति । इत्थमेकस्मिन्दिने सुतरां सेवानिमित्तं नागच्छत् । ततः शतक्रतुः तां
शप्तवान् । त्वमस्मत्सेवानियमं निगृहीतवती । तर्हि त्वदीयं शरीरं जीवविरहितं भवन्नगर्यामेव स्थास्यति ।
तव मृतशरीरस्यारात्परिचर्यापरे द्वे स्त्रियौ स्थास्यतः । आगताय पूर्वपुरुषाय तव निर्जीवकलेवरवृत्ता
न्तावेदनं विधास्यतो वनिते ते । ततस्त्वं तु तस्य पुरुषस्य मुखान्निजनिर्जीवशरीरस्योदन्तमाश्रुत्य तदनु
तन्नरेन्द्रनन्दिनीसंहननं हित्वा पुराप्सरसं वपुरवाप्स्यसि । तावत्समयावसानं मर्त्यलोके एवासनं तव
बोभविष्यति । सा तन्निशम्य पुनः शतक्रतुं स्वकपोलसमुल्लसत्कान्तिबलात्कारकबलीकृतकोपं विधाय
परामृशद्विशालविलसना प्रोवाच । मद्विरहिताया नगर्या न कस्यापि नायकत्वं प्रतिपाद्यम् । इति
श्रुत्वा सुरपतिर्वाचमस्राक्षीत् । यावदवधि भवती निजनगरनायकत्वमापत्स्यते तावत्पर्यन्तं तव नगर
निवासिनः सर्वे ऽपि चैतन्यविरहिता भविष्यन्ति । ततः सा कुलिशपाणिना शप्ता राजकुमा
वतार्षीत् । इत्थं कालकलनयासावेव नोदयं प्रतिपेदे । परमात्मनः पाणिग्रहणं प्रत्याचष्टे । आग्रहाभियुक्ता
सत्येवं वावदीति । यः कश्चिन्मत्पुरस्ताद्विशालपुरीवृत्तान्तं व्याहरिष्यति तमेवाहं भर्तृत्वेन द्र
अनेकशो राजानो राजकुमाराश्चायान्ति परं न कश्चिदपि विशालनगरीविलासं परिशीलयति । ते
पुनरपि यथागतं गच्छन्ति । इत्थमेको धूर्तः कश्चिदासीत् । स तच्चरितं बुभुत्सुः सकलं भूमण्डलं बभ्राम
ततः कोल्लापुरं क्षेत्रमासाद्य श्रीमहालक्ष्मीस्थाने ऽन्वतिष्ठत् । देवता प्रसाद्य वरं वृणीष्वेति व्याजहार ।
ततो ऽसौ । विशालपुरी का । सा कस्मिन्भूमिभागे ऽवस्थितिमादधाति । तन्नगरं मया चक्षुर्विषयीकर्तव्यम् ।
तथा प्रसीदतु भवती । इत्याकर्ण्य श्रीमहालक्ष्मीस्तस्मै विशालपुरीदर्शनाय प्रादात्पादुके । एते पादुके
चरणासक्ते कार्ये । एतावता तव समीहितप्रदेशासादनं भविष्यतीति देवताज्ञामधिगम्य स पादुके
अङ्घ्रिभ्यां परिगृह्य तरसा विशालपुरीमगमत् । तावता तत्स्थानासक्तिरजायत । ततस्तद्गत्वा सौन्दर्या
द्यशेषातिशयगरीयसीं नगरीं चित्रानन्दसंदोहतरंगिणीलहरीनिचयसहचरीमिव लोचनगोचरीकरोति
स्म । तद्द्वारपक्षद्वये ऽपि करटिद्वयमभिवीक्ष्य बिभाय । ततः शनैः पुरस्ताद्गच्छन्करिणौ तौ चैतन्यविकलौ
कलयित्वा अन्तः प्राविक्षत् । तथान्तःस्थितानि सर्वाणि मानुषाणि जीवकलाविकलितान्यालक्ष्य पुरस्ता
द्गच्छन्राजभवनमतिमनोहरं नयनयोरयनं नयति स्म । तत्रत्या द्वारपाला अपि चैतन्यशून्याः । तदन्वन्तः
प्रविश्य पश्यति यावता तावता एका सीमन्तिनी प्रक्षीणजीविता शयानास्ति । तत्सविधे द्वे युवती
जीविते स्तः । ताभ्यां तत्रत्यं सकलमपि वृत्तान्तं ज्ञापितो ऽसौ तां सकलामपि वार्त्तां विकलमाकलय्य
पादुकाबलेन क्षणादेव निजनगरमाससाद । सा नरेश्वरनन्दिनी नयनयोरयनीभावमानीयते तेन