2026-05-21 11:23:09 by whispersandthreads
This page has not been fully proofread.
<page>
<ignore>३
</ignore>
<p>अङ्गकर्म द्विधा संनिपत्योपकारक रूपमारादुपकारकरूपं च । तत्र प्रोक्षणादि संनिपत्योपकारकरूपं
प्रयाजाद्यारादुपकारकरूपम् । संनिपत्योपकारकारीणि दृष्टार्थानि कर्माणिखस्वकारकाणां वह्न्यादीनामुत्पत्तिं
प्राप्तिं विकृतिं संस्कारं कुर्वन्ति सन्ति साध्यस्य प्रधानस्योपकुर्वन्ति । यथा - 'वसन्ते ब्राह्मणोऽग्नीनादधीत',
'यूपं तक्षति' इत्यादावाधान - तक्षणादिना संस्कारविशेषविशिष्टामिग्नि - यूपादेरुत्पत्तिः । 'स्वाध्यायोs -
ध्येतव्यः', 'गां पयो दोग्धि ' इत्यादावध्ययन - दोहनादिना विद्यमानस्यैव स्वाध्याय - पयःप्रभृतेः प्राप्तिः ।
'सोममभिषुणोति', 'श्व्रीहीनवहन्ति', 'आज्यं विलापयति' इत्यादावभिषवा - ऽवघात - विलापनैः सोमादीनां
विकारः । ' श्व्रीहीन्प्रोक्षति', 'पल्यवेक्षते' इत्यादौ प्रोक्षणा - Sवेक्षणादिभिर्ब्रह्मादिद्रव्याणां संस्कार इति ।
तदेवमुत्पत्त्यादिसाध्य भेदाच्चतुर्विधं कर्म कर्मादीनामन्यतमे कारके यथायथमुत्पत्त्यादीनि करोति । कर्मण्येव
व्रतादि, कर्तरि व्रतं, करणे प्रयाजशेषाभिघारणं, संप्रदाने पशुपुरोडाशयागः, अपादाने अग्नेस्तृणान्यप-
चिनोतीति, अधिकरणे दध्यानयनम् । आरादुपकारकं कारकद्वारकं प्रधानस्योपकरोतीत्युभयार्थः पशु-
पुरोडाशयागः । सोऽपि त्यागांशेनादृष्टमुद्देशांशेन च दृष्टं देवतास्मरणं करोतीत्युभयार्थः । ननु 'एकं वा
'चेदनेकत्वात्' इति न्यायेन विध्युपपत्तेः प्रयोजनद्वयमनुपपन्नमितिचेत् दृष्टार्थत्वादिप्रयोजनापेक्षायां स्मरणं
प्रथमं स्वीक्रियते । खीकृते च तस्मिन् त्यागांशस्य तत्र प्रयोजनमपश्यतः पुनरपेक्षा जायते । साचादृष्टकल्पनेन
निवर्तते तेनैवंजातीयकमुभयोर्लिङ्गमुभयोपकारतामावहति । संपूर्णाङ्गसंयुक्त विधिः प्रकृतिः । विकलाङ्ग-
युक्तश्च विकृतिः । तदुभयविलक्षणो विधिर्दर्वीहोमादिः, एवमन्यदप्यूह्यम् । आस्तां दुरवगाहविषयावगाह-
नोल्लेखपल्लवितेनेति विरम्यते ।
श्रीमच्छुक्लयजुर्वेदसंहितेयं पुण्यपत्तनगतडेक्कन कालेजाख्याङ्ग्लविद्यालयसंगृहीतग्रन्थवर्तिहस्ताक्षरप्राचीन-
द्वित्रपुस्तकानां, तथा श्रीक्षेत्रनासिकवास्तव्यविद्वद्वर वे. शा. सं. आण्णाशास्त्रीवारे इत्येतैर्दत्तस्य कलिकाता-
वाराणसीमुद्रितानां च सहायेन विहितशोधनाभ्यां उवटभाष्य - महीधरभाष्याभ्यां सनाथीकृत्याधुनाङ्कितास्ति
जिज्ञासूनामेकत्र भाष्यद्वयलाभाय । यद्यप्यस्याध्ययनाध्यापनपारायणादावैतदीयप्रातिशाख्य याज्ञवल्क्य-
शिक्षा-प्रतिज्ञासूत्रादिनिर्दिष्टप्रकारेण तत्रतत्र परसवर्णपूर्वस्वरगुरुत्वद्वित्वोच्चारणानुकूलो वर्णविन्यासोऽपेक्षित-
स्तथापि 'योऽर्थज्ञ इत्सकलं भद्रमभुते' इत्यादिप्रामाण्यादर्थज्ञानस्यापि पाठादिसदृक्षफलवत्त्वेनावश्यादरणी-
यत्वात्तत्र पाठक्रमानुगुणवर्णविन्यासेन चेतरेतरवर्णपदसापेक्षशृङ्खलावत्त्वेनातीव दुरूहता स्यात्तद्वारणायाञ्जसा
विशदपदस्वरूपप्रतिपत्तिद्वाराऽर्थावगमसौकर्याय च प्रतिज्ञासूत्रद्वितीयकण्डिकान्ते " - संयुक्तस्य दुमृते
संयुक्तस्य च खकारोच्चारणमध्ययनादिककर्मखर्थवेलायां प्रकृत्या" इत्यनुशासनमनुसृत्यार्थज्ञानानौपयिक-
द्वित्वपरसवर्णादिपरिहारेण वर्णविन्यास आहतोऽस्ति । तथा प्रमाणभूतपरिशिष्टानामखिलमन्त्रकोशस्य चान्ते
कृतोऽस्ति समावेशः यत्क्रमकोशसाहाय्येनेप्सितमन्त्रस्य द्रुतमुपलब्धिः स्यात् ।
एतादृशानल्पपरिश्रमेण विहितेऽपि संस्करणेऽस्मादृशाल्पप्रज्ञमानुषशेमुषीसुलभत्वेन जनिमन्ति स्खलितानि
सुविमृश्य प्रबोधयन्तु विपश्चिद्वरा येन कृतज्ञताप्रकाशनपुरःसरं यतेयाग्रिमसंस्करणेऽस्या विशेषनिर्दोषता-
संपादनाय । क्षन्तारश्च परपरिश्रमज्ञा गुणैकपक्षपातिनो दूषणवाचंयमाः सुधियोऽस्मद्दृगादिदोषोपनता
अशुद्धीरिति भूयोभूयः सप्रश्रयं साञ्जलिबन्धं च विज्ञापयति-
विद्वद्वशंवदः
पणशीकरोपाह्रो वासुदेवशर्मा ।
</p>
</page>
<ignore>३
<p>अङ्गकर्म द्विधा संनिपत्योपकारक
प्रयाजाद्यारादुपकारकरूपम् । संनिपत्योपकारकारीणि दृष्टार्थानि कर्माणि
प्राप्तिं विकृतिं संस्कारं कुर्वन्ति सन्ति साध्यस्य प्रधानस्योपकुर्वन्ति । यथा - 'वसन्ते ब्राह्मणोऽग्नीनादधीत',
'यूपं तक्षति' इत्यादावाधान - तक्षणादिना संस्कारविशेषविशिष्टा
ध्येतव्यः', 'गां पयो दोग्धि
'सोममभिषुणोति', '
विकारः । '