2026-05-19 10:19:36 by whispersandthreads
This page has not been fully proofread.
<page>
<ignore>२</ignore>
<verse>सूत उवाच - एवं स्तुतः स भगवान्वाजिरूपधरो हरिः । यजूंप्ययातयामानि मुनयेऽदात्प्रसादितः ॥ ७३ ॥
यजुर्भिरकरोच्छाखा दशपञ्चशतैर्विभुः । जगृहुर्वाज॑सन्यस्ताः काण्वमध्यन्दिनादयः ॥ ७४ ॥
इति शुक्लयजुर्वेदमाध्यन्दिनवाजसनेयशाखाविचारसंक्षेपः ।</verse>

त्रयीशब्दितानामृग्यजुःसाम्नां लक्षणान्युच्यन्ते - —पादबद्धगायत्र्यादिच्छन्दोविशिष्टा 'अग्निमीळे पुरोहितं'
इत्याद्या ऋचः । ता एव गीतिविशिष्टाः सामानि । तदुभयविलक्षणानि यजूंषि 'अग्नीदग्नीन्विहर'
इत्यादिसंबोधनरूपाणि । निगदमन्त्रा अपि यजुरन्तर्भूता एव । तदेवं त्रय्या मन्त्रविभागः । उपक्रान्तयजुः-
संहितायां चरमश्चत्वारिंशोऽध्यायो ब्रह्मप्रतिपादकः । शेषा मूलादारभ्यैकोनचत्वारिंशदध्यायास्तु धर्मापर -
पर्यायविविधयज्ञकाण्डनिरूपणमिति यज्ञजाततदङ्गोपाङ्गनिरूपणपरा सपरिकरा कर्ममीमांसोपस्थिता भवति ।

कर्ममीमांसाच 'अथातो धर्मजिज्ञासा' इत्यारभ्य ' अन्वाहार्ये च दर्शनात्' इत्यन्ता द्वादशाध्यायी
सुगृहीतनामधेयेन भगवता श्रीजैमिनिमहर्षिणा प्रणीता वरीवर्ति । तत्र प्रथमेऽध्याये धर्मप्रमाणम् १, द्वितीये
धर्मभेदाभेदौ २, तृतीये शेषशेषिभावः ३, चतुर्थे क्रत्वर्थपुरुषार्थभेदेन प्रयुक्तिविशेषः ४, पञ्चमे
श्रुत्यर्थपठनादिनाक्रकमभेद: ५, षष्ठेऽधिकार विशेषः ६, सप्तमे सामान्यातिदेशः ७, अष्टमे विशेषातिदेशः
८, नवमे ऊहः ९, दशमे बाधः १०, एकादशे तन्त्रम् ११, द्वादशे प्रसङ्गः १२, इति क्रमेण
द्वादशाध्यायानां प्रतिपाद्यार्थाः । तथा संकर्मकाण्डमध्यायचतुष्टयात्मकं तेनैव महर्षिवरेण प्रणीतं देवता-
काण्डसंज्ञया प्रसिद्धमप्युपासनाख्यकर्मप्रतिपादकत्वात्कर्ममीमांसान्तर्गतमेव ।

ब्राह्मणं तु त्रिविधं विधिरूपमर्थवादरूपमुभयविलक्षणं च । तत्र शब्दभावना विधिरिति भाट्टाः, नियोगो
विधिरिति प्राभाकराः, इष्टसाधनता विधिरिति तार्किकादयः । सर्वोऽपि विधिश्चतुर्विधः – उत्पत्त्यधिकार - विनि-
योग-प्रयोगभेदात् । तत्र देवताकर्मस्वरूपमात्र बोध को विधिरुत्पत्तिविधिः 'आग्नेयोऽष्टाकपालो भवती'त्यादिः ।
सेतिकर्तव्यताकस्य करणस्य यागादेः फलसंबन्धबोधको विधिरधिकारविधिः ' दर्शपूर्णमासाभ्यां स्वर्गकामो
यजेते'त्यादिः । अङ्गसंबन्धबोधको विधिर्विनियोगविधिः 'व्रीहिभिर्यजेत', 'समिधो यजती' त्यादिः । साङ्गप्र-
धानकर्मप्रयोगैक्यबोधकः पूर्वविधित्रयमेलनरूपः प्रयोगविधिः । स च श्रौत इत्येके । काल्प इत्यपरे आहुः ।

अथार्थवादः । प्राशस्त्यनिन्दान्यतरलक्षणया विधिशेषभूतं वाक्यमर्थवादः । सच त्रिविधः गुणवादो-
ऽनुवादो भूतार्थवादश्च । प्रमाणान्तरविरुद्धार्थबोधको गुणवाद: 'आदित्यो यूपः' इत्यादिः । प्रमाणान्तर-
प्राप्तार्थबोधकोऽनुवादः 'अग्निर्हिमस्य भेषजं' इत्यादिः । प्रमाणान्तरविरोधतत्प्राप्तिरहितार्थबोधको भूतार्थ-
वादः 'इन्द्रो वृत्राय वज्रमुदयच्छत्' इत्यादिः । तत्र त्रिविधानामप्यर्थवादानां विधिस्तुतिपरत्वे समानेऽपि
भूतार्थवादस्य स्वतः प्रामाण्यं देवताधिकरणन्यायात् । अबाधिताज्ञातार्थज्ञापकत्वं हि प्रामाण्यम् । तच्च
बाधितविषयत्वाज्ज्ञातज्ञापकत्वाच्च न गुणवादानुवादयोः । भूतार्थवादस्य तु खार्थे तात्पर्यरहितस्याप्यौ-
त्सर्गिकं प्रामाण्यं न विहन्यत इत्येवमर्थवादः ।
अथाङ्गजातं त्रिविधं दृष्टार्थी - ऽदृष्टार्थो - भयात्मक भेदात् । यद्दृष्टार्थं जातिगुणकर्मद्रव्यात्मकं तत्र
जातिगुणौ 'पशुना यजेत', 'अरुणया क्रीणाति' इति क्रियासाधनत्वेन विनियुक्तौ तत्साधनद्रव्यपरिच्छेदेन
दृष्टेनैवोपकारेण तस्य शेषभावमनुभवतः । कथं पुनर्द्रव्यपरिच्छेदात्कर्मसाधनत्वमिति चेत् विशिष्टद्रव्यस्य
कर्मसाधनत्वात्तस्य च विशेषणाधीनप्रतिपत्तिकत्वादप्रतिपन्नस्य साधनाभावासंभवात्तत्प्रत्युपात्तयोर्जातिगुणयोस्त-
द्वारेण भवति कर्मसाधनत्वम् । गुणस्य तु साधनत्वं श्रुतं यथोक्तप्रकारेणोपप ।दयितुं तद्विशिष्टस्य कर्म-
साधनत्वं कल्प्यते तदेव जातिगुणयोर्दृष्टार्थत्वम् । द्रव्यस्य तु साक्षादेव कर्मनिर्वृत्तिः । दृष्टमेव प्रयोजनम् ।
१ - रविणाऽश्वरूपेण वाजेभ्यः केसरेभ्यो वाजेन वेगेन वा संन्यस्तास्त्यक्ताः शाखा वाजसनीसंज्ञा इति श्रीधरस्वामिनः ।

</page>
<ignore>२</ignore>
<verse>सूत उवाच - एवं स्तुतः स भगवान्वाजिरूपधरो हरिः । यजूंप्ययातयामानि मुनयेऽदात्प्रसादितः ॥ ७३ ॥
यजुर्भिरकरोच्छाखा दशपञ्चशतैर्विभुः । जगृहुर्वाज॑सन्यस्ताः काण्वमध्यन्दिनादयः ॥ ७४ ॥
इति शुक्लयजुर्वेदमाध्यन्दिनवाजसनेयशाखाविचारसंक्षेपः ।</verse>

त्रयीशब्दितानामृग्यजुःसाम्नां लक्षणान्युच्यन्ते
इत्याद्या ऋचः । ता एव गीतिविशिष्टाः सामानि । तदुभयविलक्षणानि यजूंषि 'अग्नीदग्नीन्विहर'
इत्यादिसंबोधनरूपाणि । निगदमन्त्रा अपि यजुरन्तर्भूता एव । तदेवं त्रय्या मन्त्रविभागः । उपक्रान्तयजुः-
संहितायां चरमश्चत्वारिंशोऽध्यायो ब्रह्मप्रतिपादकः । शेषा मूलादारभ्यैकोनचत्वारिंशदध्यायास्तु धर्मापर -
पर्यायविविधयज्ञकाण्डनिरूपणमिति यज्ञजाततदङ्गोपाङ्गनिरूपणपरा सपरिकरा कर्ममीमांसोपस्थिता भवति

कर्ममीमांसाच 'अथातो धर्मजिज्ञासा' इत्यारभ्य '
सुगृहीतनामधेयेन भगवता श्रीजैमिनिमहर्षिणा प्रणीता वरीवर्ति । तत्र प्रथमेऽध्याये धर्मप्रमाणम् १, द्वितीये
धर्मभेदाभेदौ २, तृतीये शेषशेषिभावः ३, चतुर्थे क्रत्वर्थपुरुषार्थभेदेन प्रयुक्तिविशेषः ४, पञ्चमे
श्रुत्यर्थपठनादिना
८, नवमे ऊहः ९, दशमे बाधः १०, एकादशे तन्त्रम् ११, द्वादशे प्रसङ्गः १२, इति क्रमेण
द्वादशाध्यायानां प्रतिपाद्यार्थाः । तथा संकर्मकाण्डमध्यायचतुष्टयात्मकं तेनैव महर्षिवरेण प्रणीतं देवता-
काण्डसंज्ञया प्रसिद्धमप्युपासनाख्यकर्मप्रतिपादकत्वात्कर्ममीमांसान्तर्गतमेव ।

ब्राह्मणं तु त्रिविधं विधिरूपमर्थवादरूपमुभयविलक्षणं च । तत्र शब्दभावना विधिरिति भाट्टाः, नियोगो
विधिरिति प्राभाकराः, इष्टसाधनता विधिरिति तार्किकादयः । सर्वोऽपि विधिश्चतुर्विधः –
योग-प्रयोगभेदात् । तत्र देवताकर्मस्वरूपमात्र
सेतिकर्तव्यताकस्य करणस्य यागादेः फलसंबन्धबोधको विधिरधिकारविधिः '
यजेते'त्यादिः । अङ्गसंबन्धबोधको विधिर्विनियोगविधिः 'व्रीहिभिर्यजेत', 'समिधो यजती'