2026-05-20 15:31:41 by whispersandthreads
This page has been fully proofread once and needs a second look.
<page>
<title>अथात्र कश्चिच्छ्ररौतः प्रस्तावः -</title>
<p> 'अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस -' इत्यादि नैकशो
निगमागमादिषु भगवन्निःश्वासात्मकत्वेनोद्धुष्टः कर्मकाण्डब्रह्मकाण्डात्मको वेदो धर्मार्थकाममोक्षहेतुः । स
च मन्त्रब्राह्मणात्मकः । तत्र मन्न्रास्तावद्यज्ञाद्यनुष्ठान कारणभूतद्रव्य देवताप्रकाशकत्वेनाम्नाताः । ब्राह्मण-
विषयश्चोपरिष्टात्स्फुटीभविष्यति । निर्दिष्टो वेदश्च प्रयोगत्रयेण यज्ञनिर्वाहार्थमृग्यजुःसामभेदेन भिन्नस्त्रयी-
संज्ञितः । तत्र हौत्रप्रयोग ऋग्वेदेन, आध्वर्यवप्रयोगो यजुर्वेदेन, औद्गात्रप्रयोगः सामवेदेन, ब्राह्मया -
जमानप्रयोगौ त्वत्रैवान्तर्भूतौ । अथर्ववेदस्तु यज्ञानुपयुक्तोऽपि शान्तिकपौष्टिकाभिचारिकादिकर्मप्रति-
पादकत्वेनात्यन्तविलक्षण एवेति वेदत्रयीतोऽस्य पृथग्ग्रहणम् । एवंच प्रवचनभेदात्प्रतिवेदं भिन्नाः सन्ति
भूयस्यः शाखाः । तथाच कर्मकाण्डे व्यापारभेदेऽपि सर्वासां वेदशाखानामैकरूप्यमेव ब्रह्मकाण्डमिति
चतुर्णां वेदानां प्रयोजनभेदेन भेदो निगमपारावारपारीणैर्महर्षिभिः कृतो निर्दिष्टः ।</p>
<p> प्रसङ्गादिह शुक्लयजुर्वेदयाज्ञवल्क्यसंबद्धमैतिह्यं किंचिदुच्यते । तथाहि श्रीमज्जगदीशसिसृक्षोपक्रम -
निर्वचनावसरे श्रीमद्भागवतद्वादशस्कन्धषष्ठाध्याय उक्तम्-</p>
<versep>सूत उवाच-समाहितात्मनो ब्रह्मन्ब्रह्मणः परमेष्ठिनः । हृद्याकाशादभून्नादो वृत्तिरोधाद्विभाव्यते ॥ ३७ ॥
ततोऽक्षरसमाम्नायमसृजद्भगवानजः । अन्तस्थोष्मस्वरस्पर्शह्रस्वदीर्घादिलक्षणम् ॥ ४३ ॥
तेनासौ चतुरो वेदांश्चतुर्भिर्वदनैर्विभुः । सव्याहृतिकान्सोङ्कारांश्चातुर्होत्रविवक्षया ॥ ४४ ॥
वैशंपायनशिष्या वै चरकाध्वर्यवोऽभवन् । यच्चेरुर्ब्रह्महत्यांहःक्षपणं स्वगुरोर्व्रतम् ॥ ६१ ॥
याज्ञवल्क्यश्च तच्छिप्य आहाहो भगवन्कियत् । चरितेनाल्पसाराणां चरिष्येऽहं सुदुश्चरम् ॥ ६२ ॥
इत्युक्तो गुरुरप्याह कुपितो याह्यलं त्वया । विप्रावमन्त्रा शिष्येण मदधीतं त्यजाश्विति ॥ ६३ ॥
देवरातसुतः सोऽपि छर्दित्वा यजुषां गणम् । ततो गतोऽथ मुनयो ददृशुस्तान्यजुर्गणान् ॥ ६४ ॥
यजूंषि तित्तिरा भूत्वा तल्लोलुपतयाददुः । तैत्तिरीया इति यजुःशाखा आसन्सुपेशलाः ॥ ६५ ॥
याज्ञवल्क्यस्ततो ब्रह्मंश्छन्दान्यधिगवेषयन् । गुरोरविद्यमानानि सूपतस्थेऽर्कमीश्वरम् ॥ ६६ ॥</versep>
<verstitle>याज्ञवल्क्य उवाच - ॐ नमो भगवते आदित्यायाखिलजगतामात्मस्वरूपेण कालस्वरूपेण चतुर्विधभूत-
नेकायानां ब्रह्मादिस्तम्बपर्यन्तानामन्तर्हृदयेषु बहिरपिचाकाशइवोपाधिनाऽव्यवधीयमानो भगवानेक एव
क्षणलवनिमेषावयवोपचितसंवत्सरगणेनापामादानविसर्गाभ्यामिमां लोकयात्रामनुवहति ॥ ६७ ॥ यदुहवाव
विबुधर्षभ सवितरदस्तपत्यनुसवनमहरहराम्नायविधिनोपतिष्ठमानानामस्विलदुरितवृजिनबीजावभर्जनभगवतः
समभिधीमहि तपनमण्डलम् ॥ ६८ ॥ य इह वाव स्थिरचरनिकराणां निजनिकेतनानां मनइन्द्रियासुगणा-
नात्मनः स्वयमात्मान्तर्यामी प्रचोदयति ॥ ६९ ॥ य एवेमं लोकमतिकरालवदनान्धकारसंज्ञाजगरग्रहगिलितं
संमृतकमिव विचेतनमवलोक्यानुकम्पया परमकारुणिक ईक्षयैवोत्थाप्याहरहरनुसवनं श्रेयसि स्वधर्मा-
स्व्यात्मावस्थाने प्रवर्तयत्यवनिपतिरिवासाधूनां भयमुदीरयन्नटति ॥ ७० ॥ परित आशापालैस्तत्रतत्र
कमलकोशाञ्जलिभिरुपहृतार्हणः ॥ ७१ ॥ अथह भगवंस्तव चरणनलिनयुगुलं त्रिभुवनगुरुभिर्वन्दितमहमया-
तयामयजुःकाम उपसरामीति ॥ ७२ ॥</verstitle>
</page>
<title>अथात्र कश्चिच्छ्
<p>
निगमागमादिषु भगवन्निःश्वासात्मकत्वेनोद्धुष्टः कर्मकाण्डब्रह्मकाण्डात्मको वेदो धर्मार्थकाममोक्षहेतुः । स
च मन्त्रब्राह्मणात्मकः । तत्र मन्न्रास्तावद्यज्ञाद्यनुष्ठान कारणभूतद्रव्य देवताप्रकाशकत्वेनाम्नाताः । ब्राह्मण-
विषयश्चोपरिष्टात्स्फुटीभविष्यति । निर्दिष्टो वेदश्च प्रयोगत्रयेण यज्ञनिर्वाहार्थमृग्यजुःसामभेदेन भिन्नस्त्रयी-
संज्ञितः । तत्र हौत्रप्रयोग ऋग्वेदेन, आध्वर्यवप्रयोगो यजुर्वेदेन, औद्गात्रप्रयोगः सामवेदेन, ब्राह्मया -
जमानप्रयोगौ त्वत्रैवान्तर्भूतौ । अथर्ववेदस्तु यज्ञानुपयुक्तोऽपि शान्तिकपौष्टिकाभिचारिकादिकर्मप्रति-
पादकत्वेनात्यन्तविलक्षण एवेति वेदत्रयीतोऽस्य पृथग्ग्रहणम् । एवंच प्रवचनभेदात्प्रतिवेदं भिन्नाः सन्ति
भूयस्यः शाखाः । तथाच कर्मकाण्डे व्यापारभेदेऽपि सर्वासां वेदशाखानामैकरूप्यमेव ब्रह्मकाण्डमिति
चतुर्णां वेदानां प्रयोजनभेदेन भेदो निगमपारावारपारीणैर्महर्षिभिः कृतो निर्दिष्टः ।</p>
<p>
निर्वचनावसरे श्रीमद्भागवतद्वादशस्कन्धषष्ठाध्याय उक्तम्-</p>
<
ततोऽक्षरसमाम्नायमसृजद्भगवानजः । अन्तस्थोष्मस्वरस्पर्शह्रस्वदीर्घादिलक्षणम् ॥ ४३ ॥
तेनासौ चतुरो वेदांश्चतुर्भिर्वदनैर्विभुः । सव्याहृतिकान्सोङ्कारांश्चातुर्होत्रविवक्षया ॥ ४४ ॥
वैशंपायनशिष्या वै चरकाध्वर्यवोऽभवन् । यच्चेरुर्ब्रह्महत्यांहःक्षपणं स्वगुरोर्व्रतम् ॥ ६१ ॥
याज्ञवल्क्यश्च तच्छिप्य आहाहो भगवन्कियत् । चरितेनाल्पसाराणां चरिष्येऽहं सुदुश्चरम् ॥ ६२ ॥
इत्युक्तो गुरुरप्याह कुपितो याह्यलं त्वया । विप्रावमन्त्रा शिष्येण मदधीतं त्यजाश्विति ॥ ६३ ॥
देवरातसुतः सोऽपि छर्दित्वा यजुषां गणम् । ततो गतोऽथ मुनयो ददृशुस्तान्यजुर्गणान् ॥ ६४ ॥
यजूंषि तित्तिरा भूत्वा तल्लोलुपतयाददुः । तैत्तिरीया इति यजुःशाखा आसन्सुपेशलाः ॥ ६५ ॥
याज्ञवल्क्यस्ततो ब्रह्मंश्छन्दान्यधिगवेषयन् । गुरोरविद्यमानानि सूपतस्थेऽर्कमीश्वरम् ॥ ६६ ॥</
<
नेकायानां ब्रह्मादिस्तम्बपर्यन्तानामन्तर्हृदयेषु बहिरपिचाकाशइवोपाधिनाऽव्यवधीयमानो भगवानेक एव
क्षणलवनिमेषावयवोपचितसंवत्सरगणेनापामादानविसर्गाभ्यामिमां लोकयात्रामनुवहति ॥ ६७ ॥ यदुहवाव
विबुधर्षभ सवितरदस्तपत्यनुसवनमहरहराम्नायविधिनोपतिष्ठमानानामस्विलदुरितवृजिनबीजावभर्जनभगवतः
समभिधीमहि तपनमण्डलम् ॥ ६८ ॥ य इह वाव स्थिरचरनिकराणां निजनिकेतनानां मनइन्द्रियासुगणा-
नात्मनः स्वयमात्मान्तर्यामी प्रचोदयति ॥ ६९ ॥ य एवेमं लोकमतिकरालवदनान्धकारसंज्ञाजगरग्रहगिलितं
संमृतकमिव विचेतनमवलोक्यानुकम्पया परमकारुणिक ईक्षयैवोत्थाप्याहरहरनुसवनं श्रेयसि स्वधर्मा-
स्व्यात्मावस्थाने प्रवर्तयत्यवनिपतिरिवासाधूनां भयमुदीरयन्नटति ॥ ७० ॥ परित आशापालैस्तत्रतत्र
कमलकोशाञ्जलिभिरुपहृतार्हणः ॥ ७१ ॥ अथह भगवंस्तव चरणनलिनयुगुलं त्रिभुवनगुरुभिर्वन्दितमहमया-
तयामयजुःकाम उपसरामीति ॥ ७२ ॥</
</page>