Proofing

This page has been fully proofread once and needs a second look.

<page>
<title>
अथात्र कश्चिच्छ्रतः प्रस्तावः -
 
1
 
</title>
<p>
'अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस -' इत्यादि नैकशो

निगमागमादिषु भगवन्निःश्वासात्मकत्वेनोद्धुष्टः कर्मकाण्डब्रह्मकाण्डात्मको वेदो धर्मार्थकाममोक्षहेतुः । स

च मन्त्रब्राह्मणात्मकः । तत्र मन्न्रास्तावद्यज्ञाद्यनुष्ठान कारणभूतद्रव्य देवताप्रकाशकत्वेनाम्नाताः । ब्राह्मण-

विषयश्चोपरिष्टात्स्फुटी भविष्यति । निर्दिष्टो वेदश्च प्रयोगत्रयेण यज्ञनिर्वाहार्थमृग्यजुः सामभेदेन भिन्नस्त्रयी-

संज्ञितः । तत्र हौत्रप्रयोग ऋग्वेदेन, आध्वर्यवप्रयोगो यजुर्वेदेन, औद्गात्रप्रयोगः सामवेदेन, ब्राह्मया -

जमानप्रयोगौ त्वत्रैवान्तर्भूतौ । अथर्ववेदस्तु यज्ञानुपयुक्तोऽपि शान्तिकपौष्टिकाभिचारिकादिकर्मप्रति-

पादकत्वेनात्यन्त विलक्षण एवेति वेदत्रयीतोऽस्य पृथग्ग्रहणम् । एवंच प्रवचन भेदात्प्रतिवेदं भिन्नाः सन्ति

भूयस्यः शाखाः । तथाच कर्मकाण्डे व्यापारभेदेऽपि सर्वासां वेदशाखानामैकरूप्यमेव ब्रह्मकाण्डमिति

चतुर्णां वेदानां प्रयोजनभेदेन भेदो निगमपारावारपारीणैर्महर्षिभिः कृतो निर्दिष्टः ।
 
</p>
<p>
प्रसङ्गादिह शुक्लयजुर्वेदयाज्ञवल्क्यसंबद्धमैतिह्यं किंचिदुच्यते । तथाहि श्रीमज्जगदीश सिसृक्षोपक्रम -

निर्वचनावसरे श्रीमद्भागवतद्वादशस्कन्धषष्ठाध्याय उक्तम्-
 
</p>
<verse>
सूत उवाच -समाहितात्मनो ब्रह्मन्ब्रह्मणः परमेष्ठिनः । हृद्याकाशादभून्नादो वृत्तिरोधाद्विभाव्यते ॥ ३७ ॥

ततोऽक्षरसमाम्नायमसृजद्भगवानजः । अन्तस्थोष्मस्वरस्पर्शह्रस्वदीर्घादिलक्षणम् ॥ ४३ ॥

तेनासौ चतुरो वेदांश्चतुर्भिर्वदनैर्विभुः । सव्याहृतिकान्सोङ्कारांश्चातुर्होत्र विवक्षया ॥ ४४ ॥

वैशंपायनशिष्या वै चरकाध्वर्यवोऽभवन् । यच्चेरुर्ब्रह्महत्यांहः क्षपणं स्वगुरोर्व्रतम् ॥ ६१ ॥

याज्ञवल्क्यश्च तच्छिष्प्य आहाहो भगवन्कियत् । चरितेनाल्पसाराणां चरिष्येऽहं सुदुश्रम् ॥ ६२ ॥

इत्युक्तो गुरुरप्याह कुपितो याह्यलं त्वया । विप्रावमन्त्रा शिष्येण मदधीतं त्यजाश्विति ॥ ६३ ॥

देवरातसुतः सोऽपि छर्दित्वा यजुषां गणम् । ततो गतोऽथ मुनयो ददृशुस्तान्यजुर्गणान् ॥ ६४ ॥

यजूंषि तित्तिरा भूत्वा तल्लोलुपतयाददुः । तैत्तिरीया इति यजुः शाखा आसन्सुपेशलाः ॥ ६५ ॥

याज्ञवल्क्यस्ततो ब्रह्मंश्छन्दान्यधिगवेषयन् । गुरोरविद्यमानानि सूपतस्थेऽर्कमीश्वरम् ॥ ६६ ॥
</verse>
<verse>
याज्ञवल्क्य उवाच - ॐ नमो भगवते आदित्यायाखिलजगतामात्मस्वरूपेण कालस्वरूपेण चतुर्विधभूत-

ने
कायानां ब्रह्मादिस्तम्बपर्यन्तानामन्तर्हृदयेषु बहिर पिचाकाशइवोपाधिनाऽव्यवधीयमानो भगवानेक एव

क्षणलवनिमेषावयवोपचितसंवत्सरगणेनापामादानविसर्गाभ्यामिमां लोकयात्रामनुवहति ॥ ६७ ॥ यदुहवाव
 
वे

वि
बुधर्षभ सवितरदस्तपत्यनुसवनमहरहराम्नायविधिनोपतिष्ठमानानामखिस्विलदुरितवृजिनबीजावभर्जनभगवतः

समभिधीमहि तपनमण्डलम् ॥ ६८ ॥ य इह वाव स्थिरचरनिकराणां निजनिकेतनानां मनइन्द्रियासुगणा-

नात्मनः स्वयमात्मान्तर्यामी प्रचोदयति ॥ ६९ ॥ य एवेमं लोकमतिकरालवदनान्धकारसंज्ञाजगरग्रहगिलितं

संमृतकमिव विचेतनमवलोक्यानुकम्पया परमकारुणिक ईक्षयैवोत्थाप्याहरहरनुसवनं श्रेयसि स्वधर्मा-
ख्

स्व्
यात्मावस्थाने प्रवर्तयत्यवनिपतिरिवासाधूनां भयमुदीरयन्नटति ॥ ७० ॥ परित आशापालैस्तत्रतत्र

कमलकोशाञ्जलिभिरुपहृतार्हणः ॥ ७१ ॥ अथह भगवंस्तव चरणनलिनयुगुलं त्रिभुवनगुरुभिर्वन्दितमहमया-

तयामयजुः काम उपसरामीति ॥ ७२ ॥
 
*
 
</verse>
</page>