Proofing

This page has not been fully proofread.

अथात्र कश्चिच्छ्रतः प्रस्तावः -
 
1
 
'अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस -' इत्यादि नैकशो
निगमागमादिषु भगवन्निःश्वासात्मकत्वेनोद्धुष्टः कर्मकाण्डब्रह्मकाण्डात्मको वेदो धर्मार्थकाममोक्षहेतुः । स
च मन्त्रब्राह्मणात्मकः । तत्र मन्न्रास्तावद्यज्ञाद्यनुष्ठान कारणभूतद्रव्य देवताप्रकाशकत्वेनाम्नाताः । ब्राह्मण-
विषयश्चोपरिष्टात्स्फुटी भविष्यति । निर्दिष्टो वेदश्च प्रयोगत्रयेण यज्ञनिर्वाहार्थमृग्यजुः सामभेदेन भिन्नस्त्रयी-
संज्ञितः । तत्र हौत्रप्रयोग ऋग्वेदेन, आध्वर्यवप्रयोगो यजुर्वेदेन, औद्गात्रप्रयोगः सामवेदेन, ब्राह्मया -
जमानप्रयोगौ त्वत्रैवान्तर्भूतौ । अथर्ववेदस्तु यज्ञानुपयुक्तोऽपि शान्तिकपौष्टिकाभिचारिकादिकर्मप्रति-
पादकत्वेनात्यन्त विलक्षण एवेति वेदत्रयीतोऽस्य पृथग्ग्रहणम् । एवंच प्रवचन भेदात्प्रतिवेदं भिन्नाः सन्ति
भूयस्यः शाखाः । तथाच कर्मकाण्डे व्यापारभेदेऽपि सर्वासां वेदशाखानामैकरूप्यमेव ब्रह्मकाण्डमिति
चतुर्णां वेदानां प्रयोजनभेदेन भेदो निगमपारावारपारीणैर्महर्षिभिः कृतो निर्दिष्टः ।
 
प्रसङ्गादिह शुक्लयजुर्वेदयाज्ञवल्क्यसंबद्धमैतिह्यं किंचिदुच्यते । तथाहि श्रीमज्जगदीश सिसृक्षोपक्रम -
निर्वचनावसरे श्रीमद्भागवतद्वादशस्कन्धषष्ठाध्याय उक्तम्-
 
सूत उवाच -समाहितात्मनो ब्रह्मन्ब्रह्मणः परमेष्ठिनः । हृद्याकाशादभून्नादो वृत्तिरोधाद्विभाव्यते ॥ ३७ ॥
ततोऽक्षरसमाम्नायमसृजद्भगवानजः । अन्तस्थोष्मस्वरस्पर्शहस्वदीर्घादिलक्षणम् ॥ ४३ ॥
तेनासौ चतुरो वेदांश्चतुर्भिर्वदनैर्विभुः । सव्याहृतिकान्सोङ्कारांश्चातुर्होत्र विवक्षया ॥ ४४ ॥
वैशंपायनशिष्या वै चरकाध्वर्यवोऽभवन् । यच्चेरुर्ब्रह्महत्यांहः क्षपणं स्वगुरोर्व्रतम् ॥ ६१ ॥
याज्ञवल्क्यश्च तच्छिष्य आहाहो भगवन्कियत् । चरितेनाल्पसाराणां चरिष्येऽहं सुदुश्वरम् ॥ ६२ ॥
इत्युक्तो गुरुरप्याह कुपितो याह्यलं त्वया । विप्रावमत्रा शिष्येण मदधीतं त्यजाविति ॥ ६३ ॥
देवरातसुतः सोऽपि छर्दित्वा यजुषां गणम् । ततो गतोऽथ मुनयो ददृशुस्तान्यजुर्गणान् ॥ ६४ ॥
यजूंषि तित्तिरा भूत्वा तल्लोलुपतयाददुः । तैत्तिरीया इति यजुः शाखा आसन्सुपेशलाः ॥ ६५ ॥
याज्ञवल्क्यस्ततो ब्रह्मंश्छन्दान्यधिगवेषयन् । गुरोरविद्यमानानि सूपतस्थेऽर्कमीश्वरम् ॥ ६६ ॥
याज्ञवल्क्य उवाच - ॐ नमो भगवते आदित्यायाखिलजगतामात्मखरूपेण कालखरूपेण चतुर्विधभूत-
कायानां ब्रह्मादिस्तम्बपर्यन्तानामन्तर्हृदयेषु बहिर पिचाकाशइवोपाधिनाऽव्यवधीयमानो भगवानेक एव
क्षणलवनिमेषावयवोपचितसंवत्सरगणेनापामादानविसर्गाभ्यामिमां लोकयात्रामनुवहति ॥ ६७ ॥ यदुहवाव
 
वेबुधर्षभ सवितरदस्तपत्यनुसवनमहरहराम्नायविधिनोपतिष्ठमानानामखिलदुरितवृजिनबीजावभर्जनभगवतः
समभिधीमहि तपनमण्डलम् ॥ ६८ ॥ य इह वाव स्थिरचरनिकराणां निजनिकेतनानां मनइन्द्रियासुगणा-
नात्मनः खयमात्मान्तर्यामी प्रचोदयति ॥ ६९ ॥ य एवेमं लोकमतिकरालवदनान्धकारसंज्ञाजगरग्रहगिलितं
संमृतकमिव विचेतनमवलोक्यानुकम्पया परमकारुणिक ईक्षयैवोत्थाप्याहरहरनुसवनं श्रेयसि स्वधर्मा-
ख्यात्मावस्थाने प्रवर्तयत्यवनिपतिरिवासाधूनां भयमुदीरयन्नटति ॥ ७० ॥ परित आशापालैस्तत्रतत्र
कमलकोशाञ्जलिभिरुपहृतार्हणः ॥ ७१ ॥ अथह भगवंस्तव चरणनलिनयुगुलं त्रिभुवनगुरुभिर्वन्दितमहमया-
तयामयजुः काम उपसरामीति ॥ ७२ ॥
 
*