2026-03-08 05:41:52 by ambuda-bot
This page has not been fully proofread.
iv
इति । एतेन 'श्रीवेङ्कटेशकाव्यकलापः इति नाम्न औचित्यं प्रख्यापितम् ।
श्रीवेङ्कटाध्वरिणः कृतौ श्रवणानन्दे शतकचतुष्टयमुपलभ्यते । त
प्रथमं द्वितीयं च श्रीनिवासविषयम् । अनयोरा मैसूर - श्रीमन्महाराजसंस्कृत
महापाठशालापत्रिकायां खण्डशो मुद्रितपूर्वम् । तथाऽपि मनसालक है. श्री. उ.
कवितार्किकसिंह गोविन्दाचार्यैरुपकृतस्य परिष्कृतस्य मातृकाविशेषस्य, अत्रैवास्मत्पुस्त
कालये स्थितस्य मातृकान्तरस्य च पर्यालोचनेन बहुषु स्थलेषु समीचीनपाठान
रनिवेशनादिरूपपरिष्कारकरणस्यावश्यकत्वप्रतिभानात् द्वितीयशतकस्य अन
एकस्मिन् लिखितकोशे उपलभ्यमानस्य अवश्यमुद्रणीयत्वे आदित एव मुद्रण
औचित्यप्रतीतेश्च तदप्यत्रान्तर्भावितम् । शतकाभिधानस्यापि द्वितीयभागस्य चतु
शीतिरेव श्लोका उपलभ्यन्ते । ' इति द्वितीयशतकम्' इति समाप्तिवाक्यं
दृश्यते । किञ्चिन्यूनमप्यन्यूनप्रायमिव ।
अत्यायां मातृकायां तृतीयमपि शतकं शिथिलमलिनपत्रं अन्ते त्रुटि
कतिपयश्लोकमुपलभ्यते । तत्तु श्रीराधयविषयमिति पृथक् यथासौकर्यं पश्चान्म
यिष्यते । चरमं चतुर्थं शतकं श्रीवरदराजविषयं आन्ध्रलिप्यां भाषानुवादस
श्री. उ. वे. गोविन्दाचार्यैः प्रकाशितम् ।
इहान्ते योजिता श्रीनाममौक्तिकमाला अमुद्रितपूर्वा । अस्या मातृ
मद्रराजकीयप्राच्यलिखित पुस्तकशालाप्रधानपण्डितेन 'विदुषा' श्री. टि.
कटाचार्येण चिरात् स्वस्मिन् रक्षिता अत्र प्रकाशनाय सादरमर्पिता । अस्याः
साक्षात् यामुनाचार्य इति आरम्भे कृतेन निर्देशेन तद्विषय 'तनियन्' श्लोकपा
च प्रतीयते । परन्तु अस्याः कृतेः स्वरूपं पर्यालोचयन्तः श्रीयामुनाचार्यकृत
प्रबन्धानामष्टत्वेन आचार्यचरणैः कृतं परिगणनं स्मरन्तश्च न वयमत्र संशयमतिवर्ताम
अत्र चरमे तृतीये भागे मुद्रितं दशोपनिषद्भाष्यकार श्रीरङ्गरामानुजमु
विरचितं श्रीशठकोपगाथाव्याख्यानं ग्रन्थाक्षरैर्मुद्रितपूर्वम् । न तु कचिन्नागराक्ष