This page has not been fully proofread.

अखिलभुवनजन्मस्थेमभङ्गादिलीले
 
विनतविविधभूतवातरक्षैकदीक्षे ।
श्रुतिशिरसि विदीते ब्रह्मणि श्रीनिवासे
भवतु मम परस्मिन् शेमुषी भक्तिरूपा ॥
 
श्रीवेङ्कटेश्वरप्राच्यग्रन्थमालायां प्रथमोऽयं
 
श्रीवेङ्कटेश काव्यकलापः
 
श्रीवेङ्कटेश्वरप्राच्यविद्याविमर्शालय-
प्रवर्तनकैङ्कर्यधुरन्धरैः
 
श्रीवेङ्कटेश्वरदिव्यचरणारविन्दयोः
 
सभक्तिप्रकर्ष
 
समर्पितः